संस्कृत सूची|शास्त्रः|योग शास्त्रः|सत्कर्मसंग्रहः| धौती सत्कर्मसंग्रहः प्रारंभः अथोर्ध्वचक्री मध्यचक्री त्राटकम् धौती नेति गजकरणी नौली बस्ति सत्कर्मसंग्रहः - धौती प्रस्तुत ग्रंथात हठ योगासंबंधी विस्तृत माहिती देण्यात आलेली आहे. Tags : gorakshayogयोगशास्त्रसत्कर्मसंग्रह धौती Translation - भाषांतर मृदुलं धवलं शुद्धं चतुरङ्गुलविस्तृतम्।तिथिहमतमितायामं धौतीवस्त्रस्य लक्षणम् ॥५६॥तोयसिक्तं ग्रसेद्वस्त्रं घ्राणाभ्यां वायुमुत्सृजन्।शनैः शनैस्तु सकलं पुनः प्रत्याहरेच्छनैः ॥धौतीकर्मेदमख्यातं यत्र गङ्गाधिदैवतम् ॥५७॥कासश्वासप्लीहकुष्ठादिनाशम् वन्हेर्माद्यं विंशतिः श्लेष्मरोगान्।दूरीकुर्यात् कर्णबाधिर्यमुच्चैर्धौतीकर्म प्रोदितं शङ्करेण ॥५८॥त्रयोदशं पञ्चमस्य तस्योपान्त्येन संयुतम् ॥५९॥तृतीयाष्टममादाय द्वितीयस्य तृतीयकम्।त्रयोदशे पञ्चमस्य द्वितीयस्य द्वितीयकम् ॥६०॥चतुर्थस्य त़ृतीयं च प्रथमाद्यं त्रिधाकृतम्।द्वितीयात्पढ्चषष्ठाद्यं द्वयोर्मध्ये द्वयेष्वपि ॥६१॥पञ्चमस्य तृतीयं तु द्विधाभूतं प्रवेशयेत्।कालश्च पृथवी चैव दृश्येते प्रथमेन तु ॥६२॥पुनः कालश्च पृथिवी दृश्येते प्रथमेन तु।चतुर्थस्य तृतीयं तु पञ्चमोपान्त्यसंयुतम् ॥६३॥पञ्चोपान्त्यमायातः कालोऽनन्तस्ततः पुनः।पञ्चमस्य द्वितीयेन तृतीयोपान्त्ययोजनम् ॥६४॥जलं वायुर्द्विधा पार्श्वे पार्श्वं च पूर्ववत्स्थितम्।प्रथमान्त्यं तदाद्यं च पञ्चमस्य द्वितीयके ॥६५॥षष्ठाद्यं पञ्चमोपान्त्यं रहस्यं गुरुवाक्यतः।दशोपवासं फलदं ज्ञातव्यं श्रीशिवोदितम् ॥६६॥ N/A References : N/A Last Updated : October 04, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP