संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसमञ्जरी| अध्याय ९ रसमञ्जरी अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० रसमञ्जरी - अध्याय ९ शालिनाथ कृत ‘रसमञ्जरी ’ ग्रंथात रसविद्या संबंधित वेगवेगळ्या क्रिया सविस्तर वर्णिल्या आहेत . Tags : rasamanjariVedआयुर्वेदरसमञ्जरी अध्याय ९ Translation - भाषांतर कर्पूरं टङ्कणं सूतं तुल्यं मुनिरसं मधु । मर्दयित्वा लिपेल्लिङ्गं स्थित्वा यामं तथैव च ॥१॥ ततः प्रक्षालयेल्लिङ्गं रमेद्रामां यथोचिताम् । वीर्यस्तम्भकरं पुंसां सम्यङ् नागार्जुनोदितम् ॥२॥ कृकलासस्य पुच्छाग्रं मुद्रिका प्रोततन्तुभिः । वेष्ट्या कनिष्ठिका धार्या नरो वीर्यं न मुञ्चति ॥३॥ मधुना पद्मबीजानि पिष्ट्वा नाभिं प्रलेपयेत् । यावत्तिष्ठत्यसौ लेपस्तावद्वीर्यं न मुञ्चति ॥४॥ चटकाण्डं तु संग्राह्य नवनीतेन पेषयेत् । तेन प्रलेपयेत् पादौ शुक्रस्तम्भः प्रजायते । यावन्न स्पृशते भूमिं तावद्वीर्यं न मुञ्चति ॥५॥ वनक्रोडस्य दंष्ट्राग्रं दक्षिणं च समाहरेत् । कट्यामुपरि यद् बद्ध्वा शुक्रस्तम्भः प्रजायते ॥६॥ डुण्डुभो नामतः सर्पः कृष्णवर्णस्तमाहरेत् ॥७॥ तस्यास्थि धारयेत् कट्यां नरो वीर्यं न मुञ्चति । विमुञ्चति विमुक्तेन सिद्धयोग उदाहृतः ॥८॥ रक्तापामार्गमूलं तु सोमवाराभिमन्त्रितम् । भौमे प्रातः समुद्धृत्य कट्यां बद्ध्वा न वीर्यमुक् ॥९॥ खसपलं शुण्ठीक्वाथः षोडशांशेन गुडेन निशि पीतः । कुरुते रतौ न पुंसो रेतः पतनं विनाम्लेन ॥१०॥ सूरणं तुलसीमूलं ताम्बूलेन तु भक्षयेत् । न मुञ्चति नरो वीर्यमेकैकेन न संशयः ॥११॥ वराहवसया लिङ्गं मधुना सह लेपयेत् । स्थूलं दृढं च दीर्घं च पुंसो लिङ्गं प्रजायते ॥१२॥ क्षौद्रेण च समं पृष्टं पुण्डरीकस्य केशरम् । ध्वस्तं कुर्यात्ततो मेढ्रं रत्यन्यत्राप्यसंशयः ॥१३॥ अनुराधासुनक्षत्रे लाङ्गलीमूलिका ध्रुवम् । निखाता मैथुनस्थाने पुंसत्त्वखण्डकारिणी ॥१४॥ निशा षट्तिन्दुचूर्णेन भावितेनाजवारिणा । पानाशनं प्रयुक्तेन षण्ढत्वं जायते नृणाम् ॥१५॥ तिलगोक्षुरयोश्चूर्णं छागीदुग्धेन पाचितम् । शीतलं मधुना युक्तं भुक्तं षण्ढत्वनाशनम् ॥१६॥ ऊर्णनाभिस्तु यो जीवो मधुना सह लेपयेत् । तेन लेपयतो नाभिं बद्धषण्ढ्यं विमुच्यते ॥१७॥ एक एव महाद्रावी मालतीसम्भवो रसः । किं पुनर्यदि युज्यते मधुकर्पूरपारदैः ॥१८॥ आर्द्रकं गन्धकं चैव राजिकं चाथ टङ्कणम् । सम्पिष्टा सममात्राणि क्षेपयेन्निम्बुजे जले ॥१९॥ स्थापयेद्घटिकां तिस्रो हस्ते वा धारयेत्ततः । यावन्त्यो ललनाः पञ्च आजिघ्रन्ति द्रवन्ति वै ॥२०॥ चूर्णिते मधुसंयुक्ते महारिष्टफलछदैः । लिङ्गलेपेन सुरते द्रवो भवति योषिताम् ॥२१॥ मधुसैन्धवसंयुक्तं पारावतमलान्वितम् । एतल्लिप्तेन्द्रियो रामां दासीवत् कुरुते रतौ ॥२२॥ कपीन्द्रियं शशी सूतं कुङ्कुमं कनकं मधु । एतल्लिप्तेन्द्रियो रामां दासीवत् कुरुते रतौ ॥२३॥ वृत्तमध्यस्थितं नाम तद्बाह्ये ह्रीं चतुष्टयम् । तद्बहिः क्लीं चतुष्कं च लिखित्वा शिलयाखिलम् ॥२४॥ शुभनक्षत्रसंयोगे स्थापितं मधुनि ध्रुवम् । स्त्रियम् आकर्षति क्षिप्रं यन्त्रमेतन्न संशयः ॥२५॥ चन्दनं तगरं कुष्ठं प्रियङ्गुं नागकेशरम् । कृष्णां तिन्तिडिकं चैव समभागानि कारयेत् ॥२६॥ दापयेच्चैव सप्ताहमात्मपञ्चमलेन तु । खाने पाने प्रदातव्यं स्त्रियं वा पुरुषं तथा ॥२७॥ शंखपुष्पी मधुपुष्पी तथा कुञ्चिकिपत्रिका । श्वेतगिरिसमायुक्ता समभागानि कारयेत् ॥२८॥ सप्ताहं दापयेद्युक्ता ह्यात्मपञ्चमलेन च । खाने पाने प्रदातव्यं वशीकरणमुत्तमम् ॥२९॥ पूर्वोक्तमन्त्रेण सप्तभिःकृत्वा मन्त्रितदापयेत् । गर्दभस्य रजो गृह्य लुलितं गात्रसम्भवम् । मृतकस्य तथा भस्म नारीरजःसमन्वितम् ॥३०॥ एकीकृत्य क्षिपेद्रात्रौ शय्यायामासनेऽपि वा । नूनं संजायते द्वेषः कथितो मालतीमते ॥३१॥ अन्यद् योगवरं वक्ष्ये विद्वेषकरणं परम् । युध्यमानावुभौ श्वानौ परस्परविरोधिनौ ॥३२॥ तयोर् धूलिं समादाय हन्यते योषितां रतिः । सत्यं भवति विद्वेषं नात्र कार्या विचारणा ॥३३॥ प्रक्षालने भगे नित्यं कृते चामलवल्कलैः । वृद्धापि कामिनी कामं बालेव कुरुते रतिम् ॥३४॥ सपद्मबीजं सितया भक्षितं पद्मवारिणा । दृढं स्त्रीणां स्तनद्वन्द्वं मासेन कुरुते भृशम् ॥३५॥ मुण्डीचूर्णकषायेण युतं तैलं विपाचितम् । पतितं यौवनं यस्यास्तस्याः स्तनोन्नतिर्भवेत् ॥३६॥ हरितालचूर्णकलिका लेपात् तेनैव वारिणा सद्यः । निपतन्ति केशनिचयाः कौतुकमिदम् अद्भुतं कुरुते ॥३७॥ पलाशचिञ्चातिलमाषशंखं दहेदपामार्गसपिप्पलोऽपि । मनःशिलातालकचूर्णलेपात् करोति निर्लोमशिरः क्षणात् ॥३८॥ तण्डुलीयकमूलानि पिष्ट्वा तण्डुलवारिणा । ऋत्वन्ते त्र्यहपीतानि वन्ध्यां कुर्वन्ति योषितम् ॥३९॥ काञ्जिकेन जपापुष्पं पिष्ट्वा पिबति याङ्गना । ऋतौ त्र्यहं निपीतानि वन्ध्यां कुर्वन्ति योषितम् ॥४०॥ धूपिते योनिरन्ध्रे तु निम्बकाष्ठेन युक्तितः । ऋत्वन्ते रमते सा स्त्री गर्भदुःखविवर्जिता ॥४१॥ धत्तूरं मल्लिकापुष्पं गृहीत्वा कटिसंस्थितम् । गर्भं निवारयत्येव रण्डावेश्यादियोषिताम् ॥४२॥ नागकेशरपुष्पाणां चूर्णं गोसर्पिषा सह । सेवनाल्लभते पुत्रमृतौ दुग्धान्नभोजिनी ॥४३॥ बीजानि मातुलुङ्गस्य दुग्धस्विन्ना ससर्पिषा । सगर्भामिति कुर्वन्ति पानाद्वन्ध्यामपि स्त्रियम् ॥४४॥ मातुलुङ्गस्य बीजानि कुमार्या सह पेषयेत् । क्षीरेण सह दातव्यं गर्भमाप्नोत्यसंशयम् ॥४५॥ पिप्पली शृङ्गवेरं च मरिचं केशरं तथा । घृतेन सह पातव्यं वन्ध्यागर्भप्रदं परम् ॥४६॥ पुष्योद्धृतं लक्ष्मणाया मूलं पिष्टं च कन्यका । ऋत्वन्ते घृतदुग्धाभ्यां पीत्वा गर्भमवाप्नुयात् ॥४७॥ अन्यद् योगवरं वक्ष्ये येन सा सफला भवेत् । उशीरमधुयष्टी च लोध्रमिन्द्रयवानपि ॥४८॥ घृतं सर्जरसं चैव माक्षिकं त्रायमाणकम् । शोभाञ्जनकमूलानि समभागानि कारयेत् ॥४९॥ पेषयित्वा ततो द्रव्यमजाक्षीरेण पाचयेत् । सप्तरात्रं पिबेन्नारी यावत्तिष्ठति शोणितम् ॥५०॥ ततो योनौ विशुद्धायां पश्चाद्दद्यान्महौषधम् । कुमारीक्षीरसंयुक्तं नस्ये पाने प्रदापयेत् ॥५१॥ तेन सा लभते पुत्रं सत्यं चैव सुरार्चितम् । लशुनं क्षीरसंयुक्तं नस्ये पाने प्रदापयेत् ॥५२॥ अश्वगन्धाकृतं चूर्णमजाक्षीरेण दापयेत् । यवक्षारं विडङ्गं च गुडूची च हरेणुका ॥५३॥ सर्वाणि समभागानि कृत्वा च वरचूर्णितान् । एतत्पीत्वा लभेत् पुत्रं सा नारी नात्र संशयः ॥५४॥ हिङ्गुं च शतवीर्या च दाडिमं सैन्धवं तथा । त्रिकटुः शतपुष्पा च नागपुष्पं शतावरी ॥५५॥ मधुकं सुमना चैव कार्षकाणि प्रदापयेत् । क्षीरेण सह दातव्या नार्याश्च पुरुषस्य च ॥५६॥ दिनत्रयं तु भुञ्जीत शालितण्डुलदुग्धकम् । भुक्तं तु लभते गर्भं नारीणां नात्र संशयः ॥५७॥ अर्कमूलं प्रियङ्गुं च कुसुम्भं नागकेशरम् । बला चातिबला छागीक्षीरं पीतं दिनत्रयम् ॥५८॥ विशोधयन्ति योनिं च ततो दद्यान्महौषधम् । उत्पलं तगरं कुष्ठं यष्टीमधु सचन्दनम् ॥५९॥ अजाक्षीरेण पिष्टानि दापयेत् पञ्चवासरम् । लक्ष्मणागोपयोयुक्ता तस्यै पाने प्रदापयेत् ॥६०॥ तेन सा लभते पुत्रं लक्षणाढ्यं सुपण्डितम् । गते रक्ते भगे शुद्धे सक्षीरा लक्ष्मणा तथा ॥६१॥ नस्ये पाने प्रदातव्या लभते सुतमङ्गना । श्वेतार्कक्षुद्रणीश्वेता श्वेता च गिरिकर्णिका ॥६२॥ लक्ष्मणा वन्ध्यकर्कोटी देयं गोक्षीरसंयुतम् । नस्ये पाने कृते गर्भं लभते रतिसंगमात् ॥६३॥ पतन्तं स्तम्भयेद् गर्भं कुलालकरमृत्तिका । मधुच्छागीपयः पीत्वा किंवा श्वेताद्रिकर्णिका ॥६४॥ ललना शर्करा पाठा कन्दश्च मधुनान्वितः । भक्षितो वारयत्येव पतन्तं गर्भसंस्थितम् ॥६५॥ समभागं सितायुक्तं शालितण्डुलचूर्णकम् । उदुम्बरशिफाक्वाथे पीतं गर्भं सुरक्षति ॥६६॥ मातुलुङ्गस्य मूलानि मधुकं मधुसंयुतम् । घृतेन सह पातव्यं सुखं नारी प्रसूयते ॥६७॥ तुषाम्बुपरिघृष्टेन कन्देन परिलेपयेत् । लाङ्गल्याश्चरणौ सूतिं क्षिप्रमाप्नोति गर्भिणी ॥६८॥ यासां पुष्पागमो नास्ति ऋतुकाले च योषिताम् । तासां कुर्याच्चिकित्सेयं पुनः पुष्पागमो भवेत् ॥६९॥ पिप्पलीं च यवक्षारं विडङ्गं मन्मथफलम् । तिक्तं तु तुम्बिनीबीजं गुटिकां कारयेद्भिषक् ॥७०॥ मुण्डी च क्षीरसंयुक्ता योनिद्वारेऽङ्गना शुभा । त्रिपञ्चसप्तरात्रेण पुष्पं भवति नान्यथा ॥७१॥ बालतन्त्रं प्रवक्ष्यामि समासाद् रावणोदितम् । पूजाद्रव्यं दिशो भागं मन्त्रं तद्ग्राह्यलक्षणम् ॥७२॥ प्रथमे दिवसे मासे वर्षे गृह्णाति बालकम् । मन्दानाम्नी समाख्याता योगिणी तस्य लक्षणम् ॥७३॥ द्वितीये दिवसे मासे वर्षे गृह्णाति बालकम् । सुनन्दा योगिनी नाम प्रथमं जायते ज्वरः ॥७४॥ संकोचो हस्तपादानामक्षिरोगोऽतिछर्दनम् । सभयत्वं कृशत्वं च तद्ग्रस्त इति लक्षणम् ॥७५॥ तृतीये दिवसे मासे वर्षे गृह्णाति बालकम् । पूतना योगिनी नाम गात्रभङ्गो ज्वरोऽरुचिः ॥७६॥ प्रलापं कन्धराशोथच्छर्दिरित्यादिलक्षणम् । अपराह्ने च वारुण्यां पञ्चरात्रं बलिं क्षिपेत् ॥७७॥ चतुर्थे दिवसे मासे वर्षे गृह्णाति बालकम् । बिडाली नाम तद्ग्रस्ते चक्षुःशूलं ज्वरोऽरुचिः ॥७८॥ गात्रमाटेनम् इत्यादि विवर्णेन बलिं क्षिपेत् । पञ्चमे दिवसे मासे वर्षे गृह्णाति बालकम् ॥७९॥ नर्तकीति समाख्याता योगिनी तस्य लक्षणम् । अथ षष्ठदिने मासे वर्षे गृह्णाति बालकम् ॥८०॥ योगिनी शकुनी नाम कासश्वासोऽरुचिर्ज्वरः । हस्तपादादिसंकोचश् चक्षुःपीडेति लक्षणम् ॥८१॥ पञ्चरात्रं बलिं तस्यै वारुण्यां दिशि निक्षिपेत् । सप्तमे दिवसे मासे वर्षे शुष्काशिवा शिशुम् ॥८२॥ गृह्णाति रोदनं कम्पो ज्वरशोषादिलक्षणम् । पश्चिमायां दिशि पञ्च बलौ दत्ते शिशुः सुखी ॥८३॥ अष्टमे दिवसे मासे वर्षे गृह्णाति जृम्भका । तया गृहीतमात्रस्य प्रथमं जायते ज्वरः ॥८४॥ शिरःपीडाक्षिरोगश्च चक्षुरुत्पाटचेष्टितम् । दक्षिणां दिशिम् आश्रित्य बलिं तस्यै प्रदापयेत् ॥८५॥ नवमे दिवसे मासे वर्षे गृह्णाति बालकम् । अचिन्ता योगिनी नाम गात्रभङ्गः शिरोऽक्षिरुक् ॥८६॥ छर्दिः प्रलाप इत्यादि तद्गृहीतस्य लक्षणम् । उत्तरां दिशिम् आश्रित्य बलिं तस्यै प्रदापयेत् ॥८७॥ दशमे दिवसे मासे वर्षे गृह्णाति बालकम् । नाम्ना कापालिका ख्याता योगिनी तस्य लक्षणम् ॥८८॥ रोदनं कम्पनं छर्दिर्ज्वरो दुर्बलताक्षिरुक् । पूर्वां दिशं समाश्रित्य पञ्चरात्रं बलिं क्षिपेत् ॥८९॥ एकादशे दिने मासे वर्षे गृह्णाति लिप्सिता । गात्रकम्पो ज्वरस्तीव्रस्तद्गृहीतस्य लक्षणम् ॥९०॥ भानुसंख्ये दिने मासे वर्षे गृह्णाति बालकम् । पीतली योगिनी नाम रोदनं वेदना ज्वरः ॥९१॥ निद्रा क्षीणस्वरः पीतो वमनाहारशून्यता । उत्तरां दिशिमाश्रित्य सप्तरात्रं बलिं क्षिपेत् ॥९२॥ कामसंख्ये दिने मासे वर्षे गृह्णति बालकम् । भद्रकाली ज्वरो नाम वामहस्तस्य कम्पम् ॥९३॥ वेदनारुचिनिःश्वासाः कायः पीतो विचेष्टितम् । पूर्वां दिशः समाश्रित्य बलिं तस्यै प्रदापयेत् ॥९४॥ पुरन्दरदिने मासे वर्षे गृह्णाति बालकम् । तारा हि योगिनी नाम ज्वरः शोषोऽरुचिर्भृशम् ॥९५॥ चक्षुःपीडेङ्गितं तस्यै पश्चिमे बलिमाहरेत् । पक्षे च दिवसे मासे वर्षे गृह्णाति बालकम् ॥९६॥ योगिनी शर्वरी नाम श्वासः कासोऽरुचिर्ज्वरः । तद्ग्रस्ते चिह्नम् इत्यादि दक्षिणस्यां बलिं क्षिपेत् ॥९७॥ विकारदिवसे मासे वर्षे गृह्णति योगिनी । कुमारी नयनोद्वेगो ज्वरशोषादिचेष्टितम् ॥९८॥ नैरृतीं दिशिमाश्रित्य सप्तरात्रं बलिं क्षिपेत् । बालं च स्नपयेत्पश्चाच्छान्तितोयेन मन्त्रवित् ॥९९॥ नदीतीरद्वयाकृष्टमृदा देवीस्वरूपकम् । कृत्वा पूजा च कर्तव्या भूपपुष्पाक्षतादिभिः ॥१००॥ वटका लड्डुकापूपा अग्रभक्तं गुडं दधि । चातुर्वर्ण्यपताकाश्च प्रदीप्ताः पुष्पचन्दनम् ॥१०१॥ पूजयेत्सर्वरोगाणामपराह्ने यथाबलि । सर्वत्र नामभेदेन बलिदानं प्रजायते ॥१०२॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP