रसमञ्जरी - अध्याय ८

शालिनाथ कृत ‘रसमञ्जरी ’ ग्रंथात रसविद्या संबंधित वेगवेगळ्या क्रिया सविस्तर वर्णिल्या आहेत .


अथ सम्पक्वदोषस्य प्रोक्तमञ्जनमाचरेत् ।
हेमन्ते शिशिरे चैव मध्याह्नेऽञ्जनमिष्यते ॥१॥

पूर्वाह्ने चापराह्णे च ग्रीष्मे शरदि चेष्यते ।
वर्षासु कुर्यादत्युष्णे वा वसन्ते सदैव हि ॥२॥

श्रान्ते प्ररुदिते भीते पीतमद्ये नवज्वरे ।
अजीर्णे वेगघाते च अञ्जनं न प्रशस्यते ॥३॥

हरेणुमात्रां कुर्वीत वर्तिं तीक्ष्णाञ्जने भिषक् ।
प्रमाणं मध्यमं सार्धं द्विगुणं च मृदौ भवेत् ॥४॥

सूतकं गन्धकः पेतं चाङ्गेरीरससंमूर्छितम् ।
अञ्जनं दृष्टिदं नृणां नेत्रामयविनाशनम् ॥५॥

रसेन्द्रभुजगौ तुल्यौ ताभ्यां द्विगुणमञ्जनम् ।
सूततुर्यांशं कर्पूरमञ्जनं नयनामृतम् ॥६॥

कृष्णसर्पवसा शंखः कतकं कट्फलमञ्जनम् ।
रस एव मरीचेन अन्धानां दर्शनं परम् ॥७॥

शंखस्य भागाश्चत्वारस् तदर्धेन मनःशिला ।
मनःशिलार्धं मरिचं मरिचार्द्धेन पिप्पली ॥८॥

वारिणा तिमिरं हन्ति अर्बुदं हन्ति मस्तुना ।
चिपिटं मधुना हन्ति स्त्रीक्षीरेण च पुष्पकम् ॥९॥

अपामार्गशिखां घृष्ट्वा मधुना सैन्धवेन च ।
ताम्रपात्रे कृता नेत्रे हन्ति पीडां सुविस्तरात् ॥१०॥

दन्तैर्दन्तिवराहोष्ट्रगोहयाजखरोद्भवैः ।
शङ्खमुक्ताम्भोधिफेनयुतैः सर्वैर् विचूर्णयेत् ।
हन्ति वर्तिः कृता श्लक्ष्णं शुक्राणां नाशिनी परम् ॥११॥

तुत्थमाक्षिकसिन्धूत्थशिवाशंखमनःशिला ।
गैरिकोदकफेनं च मरिचं चेति चूर्णयेत् ॥१२॥

संयोज्य मधुना कुर्यादन्धानां सा रसक्रिया ।
वर्त्मरोगं च तिमिरं काचशुक्रहरं परम् ॥१३॥

शङ्खनाभिविभीतस्य मज्जा पथ्या मनःशिला ।
पिप्पली मरिचं कुष्ठं वचा चेति समांशकम् ॥१४॥

छागीक्षीरेण संपिष्ट्वा वर्तिं कृत्वा यथोन्मिताम् ।
हरेणुमात्रां संघृष्य जलैः कुर्यादथाञ्जनम् ॥१५॥

तिमिरं मांसवृद्धिं च काचं पटलम् अर्बुदम् ।
राज्यन्धं वार्षिकं पुष्पं वर्तिचन्द्रोदया जयेत् ॥१६॥

शुद्धे नागे द्रुते तुल्यं शुद्धसूतं विनिक्षिपेत् ।
कृष्णाञ्जनं तयोस्तुल्यं सर्वमेकत्र चूर्णयेत् ॥१७॥

दशमांशेन कर्पूरमस्मिंश्चूर्णे प्रदापयेत् ।
एतत् प्रत्यञ्जनं नेत्रगदजिन्नयनामृतम् ॥१८॥

भुक्त्वा पाणितलं घृष्ट्वा चक्षुषोर् यदि दीयते ।
जाता रोगाः प्रणश्यन्ति न भवन्ति कदाचन ॥१९॥

त्रिफलायाः कषायेण प्रातर्नयनधावनात् ।
अचिरेणैव तद्वारि तिमिराणि व्यपोहति ॥२०॥

त्रिफला लौहचूर्णं तु वारिणा पेषयेत् समम् ।
द्वयोस्तुल्येन तैलेन पचेन्मृद्वग्निना क्षणम् ॥२१॥

तैलतुल्ये भृङ्गरसे तत्तैलं तु विपाचयेत् ।
स्निग्धभाण्डगतं भूमौ स्थित्वा मासात्समुद्धरेत् ॥२२॥

सप्ताहं लेपयेद्वेष्ट्य कदल्याश्च दलैः शिरः ।
निर्वाते क्षीरभोजी स्यात् छालयेत् त्रिफलाजलैः ॥२३॥

नित्यमेव प्रकर्तव्यं सप्ताहं रञ्जनं भवेत् ।
यावज्जीवं न सन्देहः कचाः स्युर्भ्रमरोपमाः ॥२४॥

काकमाची यवा जाती समं कृष्णतिलं ततः ।
तत्तैलं ग्राहयेद्यन्त्रे तेन स्यात् केशरञ्जनम् ॥२५॥

लोहमलामलकल्कः सजपा कुसुमैर्नरः सदा स्नायी ।
पलितानीह निहन्याद् गङ्गास्नायीव नरकौघम् ॥२६॥

काश्मर्या मूलमादौ सहचरकुसुमं केतकीनां च मूलं लौहं चूर्णं सभृङ्गं त्रिफलजलयुतं तैलमेभिर् विपक्वम् ।
कृत्वा वै लोहभाण्डे क्षितितलनिहितं मासम् एकं निधाय केशाः काशप्रकाशा भ्रमरकुलनिभा लेपनाद् एव कृष्णाः ॥२७॥

वज्रीक्षीरेण सप्ताहं सुश्वेतान् भावयेत्तिलान् ।
तैलेन लिप्ताः केशाः स्युः शुक्ला वै नात्र संशयः ॥२८॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP