पाद ४ - खण्ड ७२

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - १५ - ईत्त्वे वकारप्रतिषेधः घृतम् घृतपावानः इति दर्शनात् ।

२ - १५ - ईत्त्वे वकारे प्रतिषेधः वक्तव्यः ।

३ - १५ - किम् प्रयोजनम् ।

४ - १५ - घृतम् घृतपावानः इति दर्शनात् ।

५ - १५ - इह मा भूत् घृतम् घृतपावानः पिबत ।

६ - १५ - वसाम् वसपावानः पिबत इति ।

७ - १५ - यदि तर्हि वकारे प्रतिषेधः उच्यते कथम् दीवरी पीवरी इति ।

८ - १५ - धीवरी पीवरी इति च उक्तम् ।

९ - १५ - किम् उक्तम् ।

१० - १५ - न एतत् ईत्त्वम् ।

११ - १५ - किम् तर्हि ।

१२ - १५ - ध्याप्योः एतत् सम्प्रसारणम् इति ।

१३ - १५ - सः तर्हि प्रतिषेधः वक्तयः ।

१४ - १५ - न वक्तव्यः ।

१५ - १५ - वनिप् एषः भविष्यति न क्वनिप् इति ।

१ - ६६ - कस्य अयम् प्रतिषेधः ।

२ - ६६ - आटः प्राप्नोति ।

३ - ६६ - अटः अपि इष्यते ।

४ - ६६ - तत् तर्हि अटः ग्रहणम् कर्तव्यम् ।

५ - ६६ - न कर्तव्यम् ।

६ - ६६ - प्रकृतम् अनुवर्तते ।

७ - ६६ - क्व प्रकृतम् ।

८ - ६६ - लुङ्लङ्ल्ङ्क्षु अट् उदात्तः इति ।

९ - ६६ - यदि तत् अनुवर्तते आट् अजादीनाम् अट् च इति अट् अपि प्राप्नोति ।

१० - ६६ - अस्तु ।

११ - ६६ - अटि कृते पुनः आटि भविष्यति ।

१२ - ६६ - इह अपि तर्हि अटि कृते पुनः आट् प्राप्नोति अकार्षीत् , अहार्षीत् ।

१३ - ६६ - अड्वचनात् न भविष्यति ।

१४ - ६६ - इह अपि तर्हि अड्वचनात् न स्यात् ऐहिष्ट , ऐक्षिष्त ।

१५ - ६६ - आड्वचनात् भविष्यति ।

१६ - ६६ - इह अपि तर्हि आड्वचनात् प्राप्नोति अकार्षीत् , अहार्षीत् ।

१७ - ६६ - अकृते अटि यः अजादिः इति एवम् एतत् विज्ञास्यते ।

१८ - ६६ - किम् वक्तव्यम् एतत् ।

१९ - ६६ - न हि ।

२० - ६६ - कथम् अनुच्यमानम् गंस्यते ।

२१ - ६६ - अज्वचनसामर्थ्यात् ।

२२ - ६६ - यदि कृते अटि यः अजादिः तत्र स्यात् अज्ग्रहणम् अनर्थकम् स्यात् ।

२३ - ६६ - अथ वा उपदेशे इति वर्तते ।

२४ - ६६ - अथ वा आर्धधातुके इति वर्तते ।

२५ - ६६ - अथ वा लुङ्लङ्ल्ङ्क्षु अट् इति द्विलकारकः निर्देशः लुङादिषु लकारादिषु यः अजादिः इति ।

२६ - ६६ - सर्वथा , ऐज्यत , औप्यत इति एतत् न सिध्यति ।

२७ - ६६ - एवम् तर्हि अजादीनाम् अटा सिद्धम् ।

२८ - ६६ - अजादीनाम् अटा एव सिद्धम् ।

२९ - ६६ - न अर्थः आटा ।

३० - ६६ - एवम् तर्हि वृद्ध्यर्थम् आट् वक्तव्यः ।

३१ - ६६ - वृद्ध्यर्थम् इति चेत् अटः ।

३२ - ६६ - अटः वृद्धिम् वक्ष्यामि ।

३३ - ६६ - यदि तर्हि अटः वृद्धिः उच्यते अस्ववः हसति इति अत्र । वृद्धिः प्रप्नोति रोः उत्वे कृते ।

३४ - ६६ - धातौ वृद्धिम् अटः स्मरेत् । धातौ अटः वृद्धिम् वक्ष्यामि ।

३५ - ६६ - तत् तर्हि धातुग्रहणम् कर्तव्यम् ।

३६ - ६६ - न कर्तव्यम् ।

३७ - ६६ - योगविभागः करिष्यते ।

३८ - ६६ - अटः अचि वृद्धिः भवति ।

३९ - ६६ - ततः उपसर्गात् ऋति वृद्धिः भवति ।

४० - ६६ - ततः धातौ ।

४१ - ६६ - धातौ इति उभयोः शेषः ।

४२ - ६६ - इह तर्हि आटीत् , आशीत् इति अतः गुणे इति पररूपत्वम् प्राप्नोति ।

४३ - ६६ - पररूपम् गुणे न अटः ।

४४ - ६६ - पररूपम् गुणे अटः न इति वक्ष्यामि ।

४५ - ६६ - ओमाङोः उसि तत् समम् ।

४६ - ६६ - यदि अपि एतत् उच्यते अथ वा एतर्हि उसि ओमाङ्क्षु आटः पररूपप्रतिषेधः चोदितः स न वक्तव्यः भवति ।

४७ - ६६ - छन्दोर्थम् तर्हि आट् वक्तव्यः ।

४८ - ६६ - अरैक् उ कृष्णाः ।

४९ - ६६ - त्रितः एनम् आयुनक् ।

५० - ६६ - सुरुचः वेन् आवः ।

५१ - ६६ - छन्दोर्थम् बहुलम् दीर्घम् ।

५२ - ६६ - बहुलम् छन्दसि दीर्घत्वम् दृश्यते ।

५३ - ६६ - तत् यथा पूरुषः , नारकः इति ।

५४ - ६६ - एवम् तर्हि आयन् , आसन् ।

५५ - ६६ - इणस्त्योः यण्लोपयोः कृतयोः अनजादित्वात् वृद्धिः न प्राप्नोति ।

५६ - ६६ - इणस्त्योः अन्तरङ्गतः ।

५७ - ६६ - अन्तरङ्गत्वात् वृद्धिः भविष्यति ।

५८ - ६६ - तस्मात् न अर्थः आड्ग्रहणेन ।

५९ - ६६ - अजादीनाम् अटा सिद्धम् ।

६० - ६६ - वृद्ध्यर्थम् इति चेत् अटः ।

६१ - ६६ - अस्ववः हसति इति अत्र ।

६२ - ६६ - धातौ वृद्धिम् अटः स्मरेत् ।

६३ - ६६ - पररूपम् गुणे न अटः ।

६४ - ६६ - ओमाङोः उसि तत् समम् ।

६५ - ६६ - छन्दोर्थम् बहुलम् दीर्घम् ।

६६ - ६६ - इणस्त्योः अन्तरङ्गतः ।

१ - १० - इयङादिप्रकरणे तन्वादीनाम् छन्दसि बहुलम् ।

२ - १० - इयङादिप्रकरणे तन्वादीनाम् छन्दसि बहुलम् उपसङ्ख्यानम् कर्तव्यम् ।

३ - १० - तन्वम् पुषेम ।

४ - १० - तनुवम् पुषेम ।

५ - १० - विष्वम् पश्य ।

६ - १० - विषुवम् पश्य ।

७ - १० - स्वर्गम् लोकम् ।

८ - १० - सुवर्गम् लोकम् ।

९ - १० - त्र्यम्बकम् यजामहे ।

१० - १० - त्रियम्बकम् यजामहे ।

१ - २६ - अथ इह कस्मात् न भवति ब्राह्मणस्य नियौ , ब्राह्मणस्य नियः ।

२ - २६ - अङ्गाधिकारात् ।

३ - २६ - अङ्गस्य इति अनुवर्तते ।

४ - २६ - एवम् अपि परमनियौ परमनियः इति अत्र प्राप्नोति ।

५ - २६ - गतिकारकपूर्वस्य इष्यते ।

६ - २६ - यणादेशः स्वरपदपूर्वोपधस्य च ।

७ - २६ - यणादेशः स्वरपूर्वोपधस्य पदपूर्वोपधस्य च इति वक्तव्यम् ।

८ - २६ - स्वरपूर्वोपधस्य निन्यतुः , निन्युः ।

९ - २६ - पदपूर्वोपधस्य उन्न्यौ , उन्न्यः , उद्ध्यौ , उद्ध्यः ।

१० - २६ - उभयकृतम्ग्रामण्यौ , ग्रामण्यः , सेनान्यौ , सेनान्यः ।

११ - २६ - असंयोगपूर्वे हि अनिष्टप्रसङ्गः ।

१२ - २६ - असंयोगपूर्वस्य इति हि उच्यमाने अनिष्टम् प्रसज्येत ।

१३ - २६ - उद्ध्यौ , उद्ध्यः , उन्न्यौ , उन्न्यः ।

१४ - २६ - असंयोगपूर्वस्य इति प्रतिषेधः प्रसज्येत ।

१५ - २६ - तत् तर्हि वक्तव्यम् ।

१६ - २६ - न वक्तव्यम् ।

१७ - २६ - धातोः इति वर्तते ।

१८ - २६ - तत्र धातुना संयोगम् विशेषयिष्यामः ।

१९ - २६ - धातोः यः संयोगः तत्पूर्वस्य न इति ।

२० - २६ - उपसर्जनम् वै संयोगः न च उपसर्जनस्य विशेषणम् अस्ति ।

२१ - २६ - धातोः इति अनुवर्तनसामर्थ्यात् उपसर्जनस्य अपि विशेषणम् भविष्यति ।

२२ - २६ - अस्ति अन्यत् धातोः इति अनुवर्तनस्य प्रयोजनम् ।

२३ - २६ - किम् ।

२४ - २६ - इवर्णम् विशेषयिष्यामः ।

२५ - २६ - न एतत् अस्ति प्रयोजनम् ।

२६ - २६ - यत् हि अधातोः इवर्णम् भवितव्यम् एव तस्य यणादेशेन इकः यण् अचि इति एव ।

१ - ४ - वर्षाभूपुनर्भ्वः च ।

२ - ४ - वर्षाभू इति अत्र पुनर्भ्वः च इति वक्तव्यम् पुनर्भ्वौ , पुनर्भ्वः ।

३ - ४ - अत्यल्पम् इदम् उच्यते ।

४ - ४ - वर्षादृन्कारपुनःपूर्वस्य भुवः इति वक्तव्यम् वर्षाभ्वौ , वर्षाभ्वः , दृन्भ्वौ , दृन्भ्वः , कारभ्वौ , कारभ्वः , पुनर्भ्वौ , पुनर्भ्वः ।

१ - ३३ - हुश्नुग्रहणम् अनर्थकम् ।

२ - ३३ - किम् कारणम् ।

३ - ३३ - अन्यस्य अभावात् ।

४ - ३३ - न हि अन्यत् सार्वधातुके अस्ति यस्य यणादेशः स्यात् ।

५ - ३३ - ननु च अयम् अस्ति याति , वाति इति ।

६ - ३३ - क्ङिति अनुवर्तते ।

७ - ३३ - इह तर्हि यातः , वातः इति ।

८ - ३३ - अचि इति वर्तते ।

९ - ३३ - इह तर्हि यान्ति , वान्ति ।

१० - ३३ - य्वोः इति वर्तते ।

११ - ३३ - एवम् अपि धियन्ति , पियन्ति इति अत्र प्राप्नोति ।

१२ - ३३ - ओः इति वर्तते ।

१३ - ३३ - एवम् अपि सुवन्ति , रुवन्ति इति अत्र प्राप्नोति ।

१४ - ३३ - अनेकाचः इति वर्तते ।

१५ - ३३ - एवम् अपि असुवन् , अरुवन् इति अत्र प्राप्नोति ।

१६ - ३३ - एतत् अपि अटः असिद्धत्वात् एकाच् भवति ।

१७ - ३३ - एवम् अपि प्रोर्णुवन्ति इति अत्र प्राप्नोति ।

१८ - ३३ - असंयोगपूर्वस्य इति वर्तते ।

१९ - ३३ - यङ्लुगर्थम् तर्हि हुश्नुग्रहणम् कर्तव्यम् ।

२० - ३३ - यङ्लुगन्तम् अनेकाच् असंयोगपूर्वम् उवर्णान्तम् अस्ति ।

२१ - ३३ - तदर्थम् इदम् ।

२२ - ३३ - नदम् योयुवतीनाम् ।

२३ - ३३ - वृषभम् रोरुवतीनाम् ।

२४ - ३३ - यङ्लुगर्थम् इति चेत् आर्धधातुकत्वात् सिद्धम् ।

२५ - ३३ - यङ्लुगर्थम् इति चेत् तत् न ।

२६ - ३३ - किम् कारणम् ।

२७ - ३३ - आर्धधातुकत्वात् सिद्धम् ।

२८ - ३३ - कथम् आर्धधातुकत्वम् ।

२९ - ३३ - उभयथा छन्दसि इति वचनात् ।

३० - ३३ - अन्ये अपि हि धातुप्रत्ययाः उभयथा छन्दसि दृश्यन्ते ।

३१ - ३३ - एवम् तर्हि सिद्धे सति यत् हुश्नुग्रहणम् करोति तत् ज्ञापयति आचार्यः यङ्लुक् भाषायाम् भवति इति ।

३२ - ३३ - किम् एतस्य ज्ञापने प्रयोजनम् ।

३३ - ३३ - बेभिदीति , चेच्छिदीति एतत् सिद्धम् भवति भाषायाम् अपि ।

१ - २८ - अथ किमर्थम् गुहेः विकृतस्य ग्रहणम् क्रियते न पुनः गुहः इति एव उच्येत ।

२ - २८ - गोहिग्रहणम् विषयार्थम् ।

३ - २८ - गोहिग्रहणम् क्रियते विषयार्थम् ।

४ - २८ - विषयः प्रतिनिर्दिश्यते ।

५ - २८ - यत्र अस्य एतत् रूपम् तत्र यथा स्यात् ।

६ - २८ - इह मा भूत् निजुगुहतुः , निजुगुहुः इति ।

७ - २८ - अयादेशप्रतिषेधार्थम् च ।

८ - २८ - अयादेशप्रतिषेधार्थम् च विकृतग्रहणम् क्रियते ।

९ - २८ - ह्रस्वादेशे हि अयादेशप्रसङ्गः ऊत्त्वस्य असिद्धत्वात् ।

१० - २८ - ह्रस्वादेशे हि सति अयादेशः प्रसज्येत ।

११ - २८ - प्रगूह्य गतः ।

१२ - २८ - किम् कारणम् ।

१३ - २८ - ऊत्त्वस्य असिद्धत्वात् ।

१४ - २८ - असिद्धम् ऊत्त्वम् ।

१५ - २८ - तस्य असिद्धत्वात् ल्यपि लघुपूर्वात् इति अयादेशः प्रसज्येत ।

१६ - २८ - विषयार्थेन तावत् न अर्थः गोहिग्रहणेन ।

१७ - २८ - प्रश्लिष्टनिर्देशात् सिद्धम् ।

१८ - २८ - प्रश्लिष्टनिर्देशः अयम् ।

१९ - २८ - उ-ऊत् ऊत् इति ।

२० - २८ - तत्र ह्रस्वस्य अवकाशः निजुगुहतुः , निजुगुहुः ।

२१ - २८ - गुणस्य अवकाशः निगोढा , नोगोढुम् ।

२२ - २८ - इह उभयम् प्राप्नोति निगूहयति , निगूहकः ।

२३ - २८ - परत्वात् गुणे कृते आन्तर्यतः दीर्घस्य दीर्घः भविष्यति ।

२४ - २८ - अयादेशप्रतिषेधार्थेन अपि न अर्थः ।

२५ - २८ - समानाश्रयवचनात् सिद्धम् ।

२६ - २८ - समानाश्रयम् असिद्धम् भवति व्याश्रयम् च एतत् ।

२७ - २८ - कथम् ।

२८ - २८ - णौ ऊत्त्वम् णेः ल्यपि अयादेशः ।

१ - ११ - अथ किमर्थम् दुषेः विकृतस्य ग्रहणम् क्रियते न पुनः दुषः इति एव उच्येत ।

२ - ११ - दोषिग्रहणम् च ।

३ - ११ - किम् ।

४ - ११ - अयादेशप्रतिषेधार्थम् ह्रस्वादेशे हि अयादेशप्रसङ्गः ऊत्त्वस्य असिद्धत्वात् ।

५ - ११ - ह्रस्वादेशे हि सति अयादेशः प्रसज्येत ।

६ - ११ - प्रदूष्य गतः ।

७ - ११ - किम् कारणम् ।

८ - ११ - ऊत्त्वस्य असिद्धत्वात् ।

९ - ११ - असिद्धम् ऊत्त्वम् ।

१० - ११ - तस्य असिद्धत्वात् ल्यपि लघुपूर्वात् इति अयादेशः प्रसज्येत ।

११ - ११ - अत्र अपि समानाश्रयवचनात् सिद्धम् इति एव ।

१ - १६ - चिण्णमुलोः णिज्व्यवेतानाम् यङ्लोपे च उपसङ्ख्यानम् कर्तव्यम् ।

२ - १६ - शमयन्तम् प्रयोजितवान् , अशमि , अशामि , शमम् शमम् , शामम् शामम् ।

३ - १६ - शंशमयतेः अशंशमि , अशंशामि , शंशमम् शंशमम् , शंशामम् शंशामम् ।

४ - १६ - किम् पुनः कारणम् न सिध्यति ।

५ - १६ - चिण्णमुल्परे णौ मिताम् अङ्गानाम् दीर्घः भवति इति उच्यते ।

६ - १६ - यः च अत्र चिण्णमुल्परः न तस्मिन् मित् अङ्गम् यस्मिन् च मित् अङ्गम् न असौ चिण्णमुल्परः इति ।

७ - १६ - लोपे कृते चिण्णमुल्परः भवति ।

८ - १६ - स्थानिवद्भावात् न चिण्णमुल्परः ।

९ - १६ - ननु च प्रतिषिध्यते अत्र स्थानिवद्भावः दीर्घविधिम् प्रति न स्थानिवत् इति ।

१० - १६ - एवम् अपि असिद्धत्वात् न प्राप्नोति ।

११ - १६ - एवम् तर्हि चिण्णमुलोः णिज्व्यवेतानाम् यङ्लोपे च अन्तरङ्गलक्षणत्वात् सिद्धम् ।

१२ - १६ - किम् इदम् अन्तरङ्गलक्षणत्वात् इति ।

१३ - १६ - यावत् ब्रूयात् समानाश्रयवचनात् सिद्धम् इति एव व्याश्रयम् च एतत् ।

१४ - १६ - कथम् ।

१५ - १६ - णेः णौ लोपः णौ चिण्णमुल्परे मिताम् अङ्गानाम् दीर्घत्वम् उच्यते ।

१६ - १६ - तस्मात् न अर्थः उपसङ्ख्यानेन इति ।

१ - ८ - अद्विप्रभृत्युपसर्गस्य इति वक्तव्यम् इह अपि यथा स्यात् समुपाभिच्छादः इति ।

२ - ८ - तत् तर्हि वक्तव्यम् ।

३ - ८ - न वक्तव्यम् ।

४ - ८ - यत्र त्रिप्रभृतयः सन्ति द्वौ अपि तत्र स्तः ।

५ - ८ - तत्र अद्व्युपसर्गस्य इति एव सिद्धम् ।

६ - ८ - न वै एषः लोके सम्प्रत्ययः ।

७ - ८ - न हि द्विपुत्रः आनीयताम् इति उक्ते त्रिपुत्रः आनीयते ।

८ - ८ - तस्मात् अद्विप्रभृत्युपसर्गस्य इति वक्तव्यम् ।

१ - ७ - हल्ग्रहणम् अनर्थकम् अन्यत्र अपि दर्शनात् ।

२ - ७ - हल्ग्रहणम् अनर्थकम् ।

३ - ७ - किम् कारणम् ।

४ - ७ - अन्यत्र अपि दर्शनात् ।

५ - ७ - अन्यत्र अपि लोपः दृश्यते ।

६ - ७ - अग्निः तृणानि बब्सति ।

७ - ७ - शरावे बप्सति चरुः ।

१ - २९ - इटः प्रतिषेधः वक्तव्यः ।

२ - २९ - रुदिहि स्वपिहि ।

३ - २९ - झलः इति धित्वम् प्राप्नोति ।

४ - २९ - हेः धित्वे हलधिकारात् इटः अप्रतिषेधः ।

५ - २९ - हेः धित्वे हलधिकारात् इटः अप्रतिषेधः ।

६ - २९ - अनर्थकः प्रतिषेधः अप्रतिषेधः ।

७ - २९ - धित्वम् कस्मात् न भवति ।

८ - २९ - हलधिकारात् ।

९ - २९ - प्रकृतम् हल्ग्रहणम् अनुवर्तते ।

१० - २९ - क्व प्रकृतम् ।

११ - २९ - घसिभसोः हलि इति ।

१२ - २९ - तत् वै सप्तमीनिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

१३ - २९ - तत् वै तत्र प्रत्याख्यायते ।

१४ - २९ - तत्र प्रत्याख्यातम् सत् यया विभक्त्या निर्दिश्यमानम् अर्थवत्तया निर्दिष्टम् इह अनुवर्तिष्यते ।

१५ - २९ - अथ वा हुझल्भयः इति एषा पञ्चमी हलि इति सप्तम्याः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

१६ - २९ - अथ वा निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति ।

१७ - २९ - यः तर्हि निर्दिश्यते तस्य कस्मात् न भवति ।

१८ - २९ - इटा व्यवहितत्वात् ।

१९ - २९ - यदि एवम् छिन्धकि भिन्धकि इति अत्र धित्वम् न प्राप्नोति ।

२० - २९ - धित्वे कृते अकच् भविष्यति ।

२१ - २९ - इदम् इह सम्प्रधार्यम् ।

२२ - २९ - धित्वम् क्रियताम् अकच् इति किम् अत्र कर्तव्यम् ।

२३ - २९ - परत्वात् धित्वम् ।

२४ - २९ - नित्यः अकच् ।

२५ - २९ - कृते अपि धित्वे प्राप्नोति अकृते अपि ।

२६ - २९ - अकच् अपि अनित्यः ।

२७ - २९ - अन्यस्य कृते धित्वे प्राप्नोति अन्यस्य अकृते शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

२८ - २९ - उभयोः अनित्ययोः परत्वात् धित्वे कृते अकच् भविष्यति ।

२९ - २९ - अथ वा हकारस्य एव अशक्तिजेन इकारेण ग्रहणम् ।

१ - २६ - चिणः लुकि तग्रहणम् कर्तव्यम् ।

२ - २६ - किम् प्रयोजनम् ।

३ - २६ - इह मा भूत् अकारितराम् , अहारितराम् इति ।

४ - २६ - चिणः लुकि तग्रहणानर्थक्यम् सङ्घातस्य अप्रत्ययत्वात् । चिणः लुकि तग्रहणम् अनर्थकम् ।

५ - २६ - किम् कारणम् ।

६ - २६ - सङ्घातस्य अप्रत्ययत्वात् ।

७ - २६ - सङ्घातस्य लुक् कस्मात् न भवति ।

८ - २६ - अप्रत्ययत्वात् ।

९ - २६ - प्रत्ययस्य लुक्श्लुलुपः भवन्ति इति उच्यते न च सङ्घातः प्रत्ययः ।

१० - २६ - तलोपे तर्हि कृते परस्य प्राप्नोति ।

११ - २६ - तलोपस्य च असिद्धत्वात् ।

१२ - २६ - असिद्धः तलोपः ।

१३ - २६ - तस्य असिद्धत्वात् न भविष्यति ।

१४ - २६ - कार्यकृतत्वात् वा ।

१५ - २६ - अथ वा कृतः चिणः लुक् इति कृत्वा पुनः न भविष्यति लुक् ।

१६ - २६ - तत् यथा वसन्ते ब्राह्मणः अग्नीन् आदधीत इति सकृत् आधाय कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति ।

१७ - २६ - विषमः उपन्यासः ।

१८ - २६ - युक्तम् यत् तस्य एव पुनः प्रवृत्तिः न स्यात् ।

१९ - २६ - यत् तु तदाश्रयम् प्राप्नोति न तत् शक्यम् बाधितुम् ।

२० - २६ - तत् यथा वसन्ते ब्राह्मणः अग्निष्टोमादिभिः क्रतुभिः यजेत इति अग्न्याधाननिमित्तम् वसन्ते वसन्ते इज्यते ।

२१ - २६ - तस्मात् पूर्वोक्तौ एव परिहारौ ।

२२ - २६ - अथ वा क्ङिति इति वर्तते ।

२३ - २६ - क्व प्रकृतम् ।

२४ - २६ - गमहनजनखनघसाम् लोपः क्ङिति अनङि इति ।

२५ - २६ - तत् वै सप्तमीनिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

२६ - २६ - चिणः लुक् इति एषा पञ्चमी क्ङिति इति सप्तम्याः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

१ - २२ - कथम् इदम् विज्ञायते ।

२ - २२ - उकारात् प्रत्ययात् इति आहोस्वित् उकारान्तात् प्रत्ययात् इति ।

३ - २२ - किम् च अतः ।

४ - २२ - यदि विज्ञायते उकारात् प्रत्ययात् इति सिद्धम् तनु कुरु ।

५ - २२ - चिनु सुनु इति न सिध्यति ।

६ - २२ - अथ विज्ञायते उकारान्तात् प्रत्ययात् इति सिद्धम् चिनु सुनु इति ।

७ - २२ - तनु कुरु न सिध्यति ।

८ - २२ - तथा असंयोगपूर्वग्रहणेन इह एव पर्युदासः स्यात् तक्ष्णुहि , अक्ष्णुहि ।

९ - २२ - आप्नुहि शक्नुहि इति अत्र न स्यात् ।

१० - २२ - यथा इच्छसि तथा अस्तु ।

११ - २२ - अस्तु तावत् उकारात् प्रत्ययात् इति ।

१२ - २२ - कथम् चिनु सुनु इति ।

१३ - २२ - तदन्तविधिना भविष्यति ।

१४ - २२ - अथ वा पुनः अस्तु उकारान्तात् प्रत्ययात् इति ।

१५ - २२ - कथम् तनु कुरु इति ।

१६ - २२ - व्यप्देशिवद्भावेन भविष्यति ।

१७ - २२ - यत् अपि उच्यते तथा असंयोगपूर्वग्रहणेन इह एव पर्युदासः स्यात् तक्ष्णुहि , अक्ष्णुहि ।

१८ - २२ - आप्नुहि शक्नुहि इति अत्र न स्यात् इति ।

१९ - २२ - न अस्माभिः असंयोगपूर्वग्रहणेन उकारान्तम् विशेष्यते ।

२० - २२ - किम् तर्हि ।

२१ - २२ - उकारः ।

२२ - २२ - उकारः यः असंयोगपूर्वः तदन्तात् प्रत्ययात् इति ।

१ - ९ - उतः च प्रत्ययात् छन्दोवावचनम् ।

२ - ९ - उतः च प्रत्ययात् इति अत्र छन्दसि वा इति वक्तव्यम् ।

३ - ९ - अव स्थिर तनुहि यातुजुनाम् ।

४ - ९ - धिनुहि यज्ञम् धिनुहि यज्ञपतिम् ।

५ - ९ - तेन मा भागिनम् कृणुहि ।

६ - ९ - उत्तरार्थम् च ।

७ - ९ - के चित् तावत् आहुः छन्दोग्रहणम् कर्तव्यम् इति ।

८ - ९ - अपरे आहुः वावचनम् कर्तव्यम् इति ।

९ - ९ - लोपः च अस्य अन्यरतस्याम् म्वोः इति अत्र अन्यरतस्याङ्ग्रहणम् न कर्तव्यम् भवति ।

१ - ७५ - सार्वधातुके इति किमर्थम् ।

२ - ७५ - इह मा भूत् सञ्चस्करतुः , सञ्चस्करुः ।

३ - ७५ - स्यान्तस्य प्रतिषेधः वक्तव्यः करिष्यति करिष्यतः ।

४ - ७५ - कृञः उत्त्वे उकारान्तनिर्देशात् स्यान्तस्य अप्रतिषेधः ।

५ - ७५ - कृञः उत्त्वे उकारान्तनिर्देशात् स्यान्तस्य अप्रतिषेधः ।

६ - ७५ - अनर्थकः प्रतिषेधः अप्रतिषेधः ।

७ - ७५ - उत्त्वम् कस्मात् न भवति ।

८ - ७५ - उकारान्तनिर्देशात् ।

९ - ७५ - अशक्यः करोतौ उकारान्तनिर्देशः तन्त्रम् आश्रयितुम् ।

१० - ७५ - इह सम्परिभ्याम् भूषणसमवाययोः क्रोतौ इह एव स्यात् संस्करोति ।

११ - ७५ - संस्कर्ता संसक्र्तुम् इति अत्र न स्यात् ।

१२ - ७५ - न ब्रूमः अस्मात् उकारान्तनिर्देशात् यः अयम् करोति इति ।

१३ - ७५ - किम् तर्हि ।

१४ - ७५ - उकारप्रकरणात् उकारान्तम् अङ्गम् अभिसम्बध्यते ।

१५ - ७५ - उतः इति वर्तते ।

१६ - ७५ - यदि एवम् न अर्थः सार्वधातुकग्रहणेन ।

१७ - ७५ - कस्मात् न भवति सञ्चस्करतुः , सञ्चस्करुः इति ।

१८ - ७५ - उतः इति वर्तते ।

१९ - ७५ - उत्तरार्थम् तर्हि सार्वधातुकग्रहणम् कर्तव्यम् ।

२० - ७५ - श्नसोः अल्लोपः इति ।

२१ - ७५ - श्नम् सार्वधातुके एव ।

२२ - ७५ - अस्तेः अपि आर्धधातुके भूभावेन भवितव्यम् ।

२३ - ७५ - उत्तरार्थम् एव तर्हि ।

२४ - ७५ - श्नाभ्यस्तयोः आतः इति ।

२५ - ७५ - श्ना सार्वधातुके एव ।

२६ - ७५ - अभ्यस्तम् अपि आकारान्तम् आर्धधातुके न अस्ति ।

२७ - ७५ - ननु च इदम् अस्ति अप्सु यायावरः प्रवपेत पिण्डान् इति ।

२८ - ७५ - न एतत् आकारान्तम् ।

२९ - ७५ - यकारान्तम् एतत् ।

३० - ७५ - उत्तरार्थम् एव तर्हि ।

३१ - ७५ - ई हलि अघोः इति ।

३२ - ७५ - तत्र अपि श्नाभ्यस्तयोः इति एव ।

३३ - ७५ - अतः अपि उत्तरार्थम् एव तर्हि ।

३४ - ७५ - इद् दरिद्रस्य इति ।

३५ - ७५ - वक्ष्यति एतत् दरिद्रातेः आर्धधातुके लोपः सिद्धः च प्रत्ययविधौ इति ।

३६ - ७५ - अतः अपि उत्तरार्थम् ।

३७ - ७५ - भियः अन्यतरस्याम् ।

३८ - ७५ - अभ्यस्तस्य इति एव ।

३९ - ७५ - अतः अपि उत्तरार्थम् एव ।

४० - ७५ - जहातेः च ।

४१ - ७५ - अभ्यस्तस्य इति एव ।

४२ - ७५ - अतः अपि उत्तरार्थम् ।

४३ - ७५ - आ च हौ ।

४४ - ७५ - हौ इति उच्यते ।

४५ - ७५ - अभ्यस्तस्य इति एव ।

४६ - ७५ - अतः अपि उत्तरार्थम् ।

४७ - ७५ - लोपः यि ।

४८ - ७५ - अभ्यस्तस्य इति एव ।

४९ - ७५ - अतः अपि उत्तरार्थम् ।

५० - ७५ - घव्सोः एत् हौ अभ्यासलोपः च इति ।

५१ - ७५ - हौ इति उच्यते ।

५२ - ७५ - तत् एव तर्हि प्रयोजनम् ।

५३ - ७५ - श्नसोः अल्लोपः इति ।

५४ - ७५ - ननु च उक्तम् श्नम् सार्वधातुके एव ।

५५ - ७५ - अस्तेः अपि आर्धधातुके भूभावेन भवितव्यम् इति ।

५६ - ७५ - अनुप्रयोगे तु भुवा अस्त्यबाधनम् स्मरन्ति कर्तुः वचनात् मनीषिणः ।

५७ - ७५ - अनुप्रयोगे तु भुवा अस्तेः अबाधनम् इष्यते ईहाम् आस , ईहाम् आसतुः , ईहाम् आसुः इति ।

५८ - ७५ - किम् च स्यात् यदि अत्र लोपः स्यात् ।

५९ - ७५ - लोपे द्विर्वचनासिद्धिः ।

६० - ७५ - लोपे कृते अनच्कत्वात् द्विर्वचनम् स्यात् ।

६१ - ७५ - स्थानिवद्भादात् भविष्यति ।

६२ - ७५ - स्थानिवत् इति चेत् कृते भवेत् द्वित्वे ।

६३ - ७५ - कृते द्वित्वे लोपः प्राप्नोति ।

६४ - ७५ - अस्ति तर्हि परस्य लोपः ।

६५ - ७५ - अभ्यासस्य यः अकारः तस्य दीर्घत्वम् भविष्यति ।

६६ - ७५ - न एवम् सिध्यति कस्मात् प्रत्यङ्गत्वात् भवेत् हि पररूपम् ।

६७ - ७५ - न एवम् सिध्यति ।

६८ - ७५ - कस्मात् ।

६९ - ७५ - प्रत्यङ्गत्वात् पररूपम् प्राप्नोति ।

७० - ७५ - तस्मिन् च कृते लोपः ।

७१ - ७५ - पररूपे च कृते लोपः प्राप्नोति ।

७२ - ७५ - दीर्घत्वम् बाधकम् भवेत् तत्र ।

७३ - ७५ - अतः आदेः इति दीर्घत्वम् बाधकम् भविष्यति ।

७४ - ७५ - इदम् तर्हि प्रयोजनम् ।

७५ - ७५ - सार्वधातुके भूतपूर्वमात्रे अपि यथा स्यात् कुरु इति ।

१ - ४ - अथ अत्र तपरकरणम् किमर्थम् ।

२ - ४ - इह मा भूत् आस्ताम् , आसन् ।

३ - ४ - न एतत् अस्ति प्रयोजनम् ।

४ - ४ - आटः असिद्धत्वात् न भविष्यति ।

१ - १० - दरिद्रातेः आर्धधातुके लोपः ।

२ - १० - दरिद्रातेः आर्धधातुके लोपः वक्तव्यः ।

३ - १० - सिद्धः च प्रत्ययविधौ ।

४ - १० - सः च सिद्धः प्रत्ययविधौ ।

५ - १० - किम् प्रयोजनम् ।

६ - १० - दरिद्राति इति दरिद्रः ।

७ - १० - आकारान्तलक्षणः प्रत्ययविधिः मा भूत् इति । न दरिद्रायके लोपः दरिद्राणे च न इष्यते ।

८ - १० - दिदरिद्रासस्ति इति एके दिदरिद्रिषति इति वा ।

९ - १० - वा अद्यतन्याम् । अद्यतन्याम् वा इति वक्तव्यम् ।

१० - १० - अदरिद्रीत् , अदरिद्रासीत् ।

१ - ३६ - णकारषकारादेशादेः एत्त्ववचनम् लिटि ।

२ - ३६ - णकारषकारादेशादेः एत्त्वम् लिटि वक्तव्यम् ।

३ - ३६ - नेमतुः , नेमुः , सेहे, सेहाते , सेहिरे ।

४ - ३६ - किम् पुनः कारणम् न सिध्यति ।

५ - ३६ - अनादेशादेः इति ल्प्रतिषेधः प्राप्नोति ।

६ - ३६ - तत् तर्हि वक्तव्यम् ।

७ - ३६ - न वक्तव्यम् ।

८ - ३६ - लिटा अत्र आदेशादिम् विशेषयिष्यामः ।

९ - ३६ - लिटि यः आदेशादिः तदादेः न इति ।

१० - ३६ - अस्ति अन्यत् लिड्ग्रहणस्य प्रयोजनम् ।

११ - ३६ - किम् ।

१२ - ३६ - इह मा भूत् पक्ता पक्तुम् ।

१३ - ३६ - न एतत् अस्ति प्रयोजनम् ।

१४ - ३६ - क्ङिति इति वर्तते ।

१५ - ३६ - एवम् अपि पक्वः पक्ववान् इति अत्र प्राप्नोति ।

१६ - ३६ - अभ्यासलोपसन्नियोगेन एत्त्वम् उच्यते न च अत्र अभ्यासलोपसम् पश्यामः ।

१७ - ३६ - एवम् अपि पापच्यते अत्र प्राप्नोति ।

१८ - ३६ - दीर्घत्वम् अत्र बाधकम् भविष्यति ।

१९ - ३६ - न अप्राप्ते अभ्यासविकारे एत्तम् अरभ्यते ।

२० - ३६ - तत् यथ अन्यान् अभ्यासविकारान् बाधते एवम् दीर्घत्वम् अपि बाधेत ।

२१ - ३६ - सत्यम् एवम् एतत् ।

२२ - ३६ - अभ्यासविकारेषु तु ज्येष्ठमध्यमकनीयांसः प्रकाराः भवन्ति ।

२३ - ३६ - तत्र ह्रस्वहलादिशेषौ उत्सर्गौ ।

२४ - ३६ - तयोः दीर्घत्वम् अपवादः एत्त्वम् च ।

२५ - ३६ - अपवादविप्रतिषेधात् दीर्घत्वम् भविष्यति ।

२६ - ३६ - इह तर्हि बभणतुः , बभणुः इति अभ्यासादेशस्य असिद्धत्वात् एत्त्वम् प्राप्नोति ।

२७ - ३६ - फलिभजिग्रहणम् तु ज्ञापकम् अभ्यासादेशसिद्धत्वस्य ।

२८ - ३६ - यत् अयम् फलिभज्योः ग्रहणम् करोति तत् ज्ञापयति आचार्यः सिद्धः अभ्यासादेशः एत्त्वे इति ।

२९ - ३६ - यदि एवम् प्रथमतृतीयादीनाम् आदेशादित्वात् एत्त्वाभावः ।

३० - ३६ - प्रथमतृतीयादीनाम् तर्हि आदेशादित्वात् एत्त्वम् न प्राप्नोति ।

३१ - ३६ - पेचतुः , पेचुः , देभतुः , देभुः ।

३२ - ३६ - न वा शसिदद्योः प्रतिषेधः ज्ञापकः रूपाभेदे एत्त्वविज्ञानस्य ।

३३ - ३६ - न वा एषः दोषः ।

३४ - ३६ - किम् कारणम् ।

३५ - ३६ - शसिदद्योः प्रतिषेधः ज्ञापकः रूपाभेदे एत्त्वविज्ञानस्य ।

३६ - ३६ - यत् अयम् शसिदद्योः प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः रूपाभेदेन यः आदेशादयः न तेषाम् प्रतिषेधः इति ।

१ - १६ - दम्भः एत्त्वम् ।

२ - १६ - दम्भः एत्त्वम् वक्तव्यम् ।

३ - १६ - देभतुः , देभुः ।

४ - १६ - किम् पुनः कारणम् न सिध्यति ।

५ - १६ - नलोपस्य असिद्धत्वात् । असिद्धः नलोपः ।

६ - १६ - तस्य असिद्धत्वात् एत्त्वम् न प्राप्नोति ।

७ - १६ - नशिमन्योः अलिटि एत्त्वम् ।

८ - १६ - नशिमन्योः अलिटि एत्त्वम् वक्तव्यम् ।

९ - १६ - छन्दसि अमिपच्योः अपि ।

१० - १६ - छन्दसि अमिपच्योः अपि इति वक्तव्यम् ।

११ - १६ - किम् प्रयोजनम् ।

१२ - १६ - अनेशम् मेनका इति एतत् व्येमानम् लिङि पेचिरन् ।

१३ - १६ - यज् आयेजे वप् आवेपे दम्भः एत्त्वम् अलक्षणम् ।

१४ - १६ - असिद्धत्वात् नलोपस्य दम्भः एत्त्वम् न सिध्यति ।

१५ - १६ - श्नसोः अत्त्वे तकारेण ज्ञाप्यते तु एत्त्वशासनम् ।

१६ - १६ - अनित्यः अयम् विधिः इति ।

१ - २२ - थल्ग्रहणम् किमर्थम् ।

२ - २२ - थल्ग्रहणम् अक्ङिदर्थम् ।

३ - २२ - थल्ग्रहणम् क्रियते अक्ङिदर्थम् ।

४ - २२ - अक्ङिति एत्त्वम् यथा स्यात् ।

५ - २२ - पेचिथ शेकिथ ।

६ - २२ - न एतत् अस्ति प्रयोजनम् ।

७ - २२ - सेड्ग्रहणम् एवे अत्र अक्ङिदर्थम् भविष्यति ।

८ - २२ - इदम् तर्हि प्रयोजनम् ।

९ - २२ - समुच्चयः यथा विज्ञायेत ।

१० - २२ - थलि च सेटि क्ङिति च सेटि इति ।

११ - २२ - किम् प्रयोजनम् ।

१२ - २२ - पेचिव पेचिम. तत्र पचादिभ्यः इड्वचनम् इति वक्ष्यति ।

१३ - २२ - तत् न वक्तव्यम् भवति ।

१४ - २२ - इह कस्मात् न भवति लुलविथ ।

१५ - २२ - गुणस्य प्रतिषेधात् ।

१६ - २२ - इह अपि तर्हि न प्राप्नोति पेचिथ शेकिथ ।

१७ - २२ - गुणस्य यः अकारः इति एवम् एतत् विज्ञास्यते ।

१८ - २२ - एवम् अपि शशरिथ , अत्र प्राप्नोति ।

१९ - २२ - गुणस्य एषः अकारः ।

२० - २२ - कथम् ।

२१ - २२ - वृद्धिः भवति गुणः भवति इति रेफशिराः गुणवृद्धिसञ्ज्ञकः अभिनिर्वर्तते ।

२२ - २२ - अथ वा आचार्यप्रवृत्तिः ज्ञापयति ने एवञ्जातीयकानाम् एत्त्वम् भवति इति यत् अयम् तृ̄फलभजत्रपः च इति तृ̄ग्रहणम् करोति ।

१ - २१ - राधादिषु स्थानिनिर्देशः ।

२ - २१ - राधादिषु स्थानिनिर्देशः कर्तव्यः ।

३ - २१ - न कर्तव्यः ।

४ - २१ - एकहल्मध्ये इति वर्तते ।

५ - २१ - यदि एवम् त्रेसतुः , त्रेसुः , र शब्दस्य एत्त्वम् प्राप्नोति ।

६ - २१ - अस्तु ।

७ - २१ - अलः अन्त्यस्य विधयः भवन्ति इति अकारस्य भविष्यति ।

८ - २१ - अनर्थके अलः अन्त्यविधिः न इति एवम् न प्राप्नोति ।

९ - २१ - न एतस्याः परिभाषायाः सन्ति प्रयोजनानि ।

१० - २१ - अथ वा अतः इति वर्तते ।

११ - २१ - एवम् अपि राधेः न प्राप्नोति ।

१२ - २१ - आकारग्रहणम् अपि प्रकृतम् अनुवर्तते ।

१३ - २१ - क्व प्रकृतम् ।

१४ - २१ - श्नाभ्यास्तयोः आतः इति ।

१५ - २१ - अथ वा श्नसोः अल्लोपः इति अत्र तपरकरणम् प्रत्याख्यायते ।

१६ - २१ - तत् प्रकृतम् इह अनुवर्तिष्यते ।

१७ - २१ - यदि तत् अनुवर्तते अतः एकहल्मध्ये अनादेशादेः लिटि अस्य च इति अवर्णमात्रस्य एत्त्वम् प्राप्नोति ।

१८ - २१ - बबाधे ।

१९ - २१ - अकारेण तपरेण अवर्णम् विशेषयिष्यामः ।

२० - २१ - अस्य आतः इति ।

२१ - २१ - इह इदानीम् अस्य इति अनुवर्तते अतः इति निवृत्तम् ।

१ - ११ - अर्वणस् तृ मघोनः च न शिष्यम् छान्दसम् हि तत् ।

२ - ११ - अर्वणस् तृ मघोनः च न शिष्यम् ।

३ - ११ - किम् कारणम् ।

४ - ११ - छान्दसम् हि तत् ।

५ - ११ - दृष्टानुविधिः छन्दसि भवति ।

६ - ११ - मतुब्वन्योः विधानात् च ।

७ - ११ - मतुब्वनी खलु अपि छन्दसि विधीयेते ।

८ - ११ - छन्दसि उभयदर्शनात् ।

९ - ११ - उभयम् खलु अपि छन्दसि दृश्यते ।

१० - ११ - इमानि अर्वणः पदानि ।

११ - ११ - अनर्वणम् वृषभम् मन्द्रजिह्वम् ।

१ - ७४ - पादः उपधाह्रस्वत्वम् ।

२ - ७४ - पादः उपधाह्रस्वत्वम् वक्तव्यम् ।

३ - ७४ - द्विपदः पश्य ।

४ - ७४ - आदेशे हि सर्वादेशप्रसङ्गः ।

५ - ७४ - आदेशे हि सति सर्वादेशः प्रसज्येत ।

६ - ७४ - सर्वस्य द्विपाच्छब्दस्य त्रिपाच्छब्दस्य च पच्छब्दादेशः प्रसज्येत येन विधिः तदन्तस्य इति ।

७ - ७४ - तत् तर्हि वक्तव्यम् ।

८ - ७४ - न वा निर्दिश्यमानस्य आदेशत्वात् ।

९ - ७४ - न वा वक्तव्यम् ।

१० - ७४ - किम् कारणम् ।

११ - ७४ - निर्दिश्यमानस्य आदेशाः भवन्ति इति एषा परिभाषा कर्तव्या ।

१२ - ७४ - कः पुनः अत्र विशेषः एषा वा परिभाषा क्रियेत उपधाह्रस्वत्वम् वा उच्येत ।

१३ - ७४ - अवश्यम् एषा परिभाषा कर्तव्या ।

१४ - ७४ - बहूनि एतस्याः परिभाषायाः प्रयोजनानि कानि ।

१५ - ७४ - प्रयोजनम् सुप्तिङादेशे ।

१६ - ७४ - सुप् ।

१७ - ७४ - कुमार्याम् , कोशोर्याम् , खट्वायाम् , मालायाम् , तस्याम् , यस्याम् ।

१८ - ७४ - आड्याट्स्याट्सु कृतेषु साड्याट्स्याट्कस्य आम् प्राप्नोति ।

१९ - ७४ - निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति ।

२० - ७४ - इदम् इह सम्प्रधार्यम् ।

२१ - ७४ - आड्याट्स्याटः क्रियन्ताम् आम् इति किम् अत्र कर्तव्यम् ।

२२ - ७४ - परत्वात् आम् ।

२३ - ७४ - नित्याः आड्याट्स्याटः ।

२४ - ७४ - कृते अपि आमि प्रप्नुवन्ति अकृते अपि ।

२५ - ७४ - अनित्याः आड्याट्स्याटः ।

२६ - ७४ - अन्यस्य कृते आमि प्रप्नुवन्ति अन्यस्य अकृते शब्दान्तरस्य च प्राप्नुवन्तः अनित्याः भवन्ति ।

२७ - ७४ - उभयोः अनित्ययोः परत्वात् आम् ।

२८ - ७४ - इदम् तर्हि ।

२९ - ७४ - तस्यै यस्यै ।

३० - ७४ - स्याटि कृते सस्याट्कस्य स्मैभावः प्राप्नोति ।

३१ - ७४ - निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति ।

३२ - ७४ - यः तर्हि निर्दिश्यते तस्य कस्मात् न भवति ।

३३ - ७४ - स्याटा व्यवहितत्वात् ।

३४ - ७४ - सुप् ।

३५ - ७४ - तिङ्. अरुदिताम् अरुदितम् अरुदित इति ।

३६ - ७४ - इटि कृते सेट्कस्य ताम्तम्तामादेशाः प्राप्नुवन्ति ।

३७ - ७४ - निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति ।

३८ - ७४ - इदम् इह सम्प्रधार्यम् ।

३९ - ७४ - इट् क्रियताम् ताम्तम्तामः इति किम् अत्र कर्तव्यम् ।

४० - ७४ - परत्वात् इडागमः ।

४१ - ७४ - अन्तरङ्गाः ताम्तम्तामः ।

४२ - ७४ - इदम् तर्हि क्रियास्ताम् , क्रियास्तम् , क्रियास्त ।

४३ - ७४ - यासुटि कृते सयासुट्कस्य ताम्तम्तामादेशाः प्राप्नुवन्ति ।

४४ - ७४ - निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति ।

४५ - ७४ - ल्यब्भावे च ।

४६ - ७४ - ल्यब्भावे च प्रयोजनम् ।

४७ - ७४ - प्रकृत्य प्रहृत्य ।

४८ - ७४ - क्त्वान्तस्य ल्यप् प्राप्नोति ।

४९ - ७४ - निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति ।

५० - ७४ - त्रिचतुर्युष्मदस्मत्त्यदादिविकारेषु च ।

५१ - ७४ - त्रिचतुर्युष्मदस्मत्त्यदादिविकारेषु च प्रयोजनम् ।

५२ - ७४ - अतितिस्रः , अतिचतस्रः ।

५३ - ७४ - त्रिचतुरन्तस्य तिसृचतसृभावः प्राप्नोति ।

५४ - ७४ - निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति ।

५५ - ७४ - युष्मत् , अस्मत् ।

५६ - ७४ - अतियूयम् अतिवयम् ।

५७ - ७४ - युष्मदस्मदन्तस्य यूयवयौ प्राप्नुतः ।

५८ - ७४ - निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति ।

५९ - ७४ - त्यदादिविकार ।

६० - ७४ - अतिस्यः , उत्तमस्यः , अत्यसौ , उत्तमासौ ।

६१ - ७४ - त्यदाद्यन्तस्य त्यदादिविकाराः प्राप्नुवन्ति ।

६२ - ७४ - किमन्तस्य कादेशः प्राप्नोति ।

६३ - ७४ - अतिकः , परमकः ।

६४ - ७४ - निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति ।

६५ - ७४ - उदः पूर्वत्वे ।

६६ - ७४ - उदः पूर्वत्वे प्रयोजनम् ।

६७ - ७४ - उदस्थाताम् ।

६८ - ७४ - अटि कृते साट्कस्य पूर्वसवर्णः प्राप्नोति उदः स्थास्तम्भोः इति ।

६९ - ७४ - निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति ।

७० - ७४ - यः तर्हि निर्दिश्यते तस्य कस्मात् न भवति ।

७१ - ७४ - अटा व्यवहितत्वात् ।

७२ - ७४ - सा तर्हि परिभाषा कर्तव्या ।

७३ - ७४ - न कर्तव्या ।

७४ - ७४ - उक्तम् षष्ठी स्थानेयोगा इति एतस्य योगस्य वचने प्रयोजनम् षष्ठ्यन्तम् स्थानेन यथा युज्येत यतः षष्ठी उच्चारिता इति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP