पाद ४ - खण्ड ७१

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - २४ - अथ किमर्थम् श्नमः सशकारस्य ग्रहणम् क्रियते न नात् नलोपः इति एव उच्येत ।

२ - २४ - नात् नलोपः इति इयति उच्यमाने नन्दिता नन्दकः इति अत्र अपि प्रसज्येत ।

३ - २४ - एवम् तर्हि एवम् वक्ष्यामि नात् नलोपः अनिदिताम् ।

४ - २४ - ततः हलः उपधायाः क्ङिति ।

५ - २४ - अनिदिताम् इति ।

६ - २४ - न एवम् शक्यम् ।

७ - २४ - इह न स्यात् हिनस्ति ।

८ - २४ - तस्मात् न एवम् शक्यम् ।

९ - २४ - न चेत् एवम् नन्दिता नन्दकः इति प्राप्नोति ।

१० - २४ - एवम् तर्हि क्ङिति इति वर्तते ।

११ - २४ - एवम् अपि हिनस्ति इति अत्र न प्राप्नोति ।

१२ - २४ - न एषा परसप्तमी ।

१३ - २४ - का तर्हि ।

१४ - २४ - सत्सप्तमी ।

१५ - २४ - क्ङिति सति ।

१६ - २४ - एवम् तर्हि नशब्दः एव अत्र क्ङित्त्वेन विशेष्यते क्ङित् चेत् नशब्दः भवति इति ।

१७ - २४ - एवम् अपि यज्ञानाम् , यत्नानाम् इति अत्र न प्राप्नोति ।

१८ - २४ - दीर्घत्वम् अत्र बाधकम् भविष्यति ।

१९ - २४ - इदम् इह सम्प्रधार्यम् ।

२० - २४ - दीर्घत्वम् क्रियताम् नलोपः इति किम् अत्र कर्तव्यम् ।

२१ - २४ - परत्वात् नलोपः ।

२२ - २४ - तस्मात् सशकारस्य ग्रहणम् कर्तव्यम् ।

२३ - २४ - अथ क्रियमाणे अपि सशकारग्रहणे इह कस्मात् न भवति विश्नानाम् , प्रश्नानाम् इति ।

२४ - २४ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् न भविष्यति ।

१ - ४३ - अनिदिताम् नलोपे लङ्गिकम्प्योः उपतपशरीरविकारयोः उपसङ्ख्यानम् ।

२ - ४३ - अनिदिताम् नलोपे लङ्गिकम्प्योः उपतपशरीरविकारयोः उपसङ्ख्यानम् कर्तव्यम् ।

३ - ४३ - विलगितः , विकपितः ।

४ - ४३ - उपतपशरीरविकारयोः इति किमर्थम् ।

५ - ४३ - विलङ्गितः , विकम्पितः ।

६ - ४३ - बृहेः अचि अनिटि ।

७ - ४३ - बृहेः अचि अनिटि उपसङ्ख्यानम् कर्तव्यम् ।

८ - ४३ - निबर्हयति निबर्हकः ।

९ - ४३ - अचि इति किमर्थम् ।

१० - ४३ - निबृंह्यते ।

११ - ४३ - अनिटि इति किमर्थम् ।

१२ - ४३ - निबृंहिता निबृंहितुम् ।

१३ - ४३ - तत् तु उपसङ्ख्यानम् कर्तव्यम् ।

१४ - ४३ - न कर्तव्यम् ।

१५ - ४३ - बृहिः प्रकृत्यन्तरम् ।

१६ - ४३ - कथम् ज्ञायते ।

१७ - ४३ - अचि इति लोपः उच्यते ।

१८ - ४३ - अनजादौ अपि दृश्यते निबृह्यते ।

१९ - ४३ - अनिटि इति उच्यते ।

२० - ४३ - इटौ अपि दृश्यते निबर्हितुम् ।

२१ - ४३ - अजादौ इति उच्यते ।

२२ - ४३ - अजादौ अपि न दृश्यते निबृंहयति निबृंहकः ।

२३ - ४३ - रञ्जेः णौ मृगमरणे उपसङ्ख्यानम् कर्तव्यम् ।

२४ - ४३ - रजयति मृगान् ।

२५ - ४३ - मृगमरणे इति किमर्थम् ।

२६ - ४३ - रञ्जयति वस्त्राणि ।

२७ - ४३ - घिनुणि च उपसङ्ख्यानम् कर्तव्यम् ।

२८ - ४३ - रागी ।

२९ - ४३ - घिनुणि निपातनात् सिद्धम् ।

३० - ४३ - किम् निपातनम् ।

३१ - ४३ - त्यजरज इति ।

३२ - ४३ - अशक्यम् धातुनिर्देशे निपातनम् तन्त्रम् आश्रयितुम् ।

३३ - ४३ - इह हि दोषः स्यात् दशहनः करणे दंष्ट्रा ।

३४ - ४३ - न एतत् धातुनिपातनम् ।

३५ - ४३ - किम् तर्हि ।

३६ - ४३ - प्रत्ययान्तस्य एतत् रूपम् ।

३७ - ४३ - तस्मिन् च अस्य प्रत्यये लोपः भवति ।

३८ - ४३ - दंशसञ्जस्वञ्जाम् शपि इति ।

३९ - ४३ - रजकरजनरजःसु उपसङ्ख्यानम् कर्तव्यम् ।

४० - ४३ - रजकः , रजननम् , रजः इति ।

४१ - ४३ - रजकरजनरजःसु कित्त्वात् सिद्धम् ।

४२ - ४३ - कितः एव एते औणादिकाः ।

४३ - ४३ - तत् यथा रुचकः , भुवनम् , शिरः इति ।

१ - ४६ - शासः इत्त्वे आशासः क्वौ ।

२ - ४६ - शासः इत्त्वे आशासः क्वौ उपसङ्ख्यानम् कर्तव्यम् ।

३ - ४६ - आशीः इति ।

४ - ४६ - किम् पुनः इदम् नियमार्थम् आहोस्वित् विध्यर्थम् ।

५ - ४६ - कथम् च नियमार्थम् स्यात् कथम् वा विध्यर्थम् ।

६ - ४६ - यदि तावत् शासिमात्रस्य ग्रहणम् ततः नियमार्थम् ।

७ - ४६ - अथि हि यस्मात् शासः अङ् विहितः तस्य ग्रहणम् ततः विध्यर्थम् ।

८ - ४६ - यदि अपि शासिमात्रस्य ग्रहणम् एवम् अपि विध्यर्थम् एव ।

९ - ४६ - कथम् ।

१० - ४६ - अङ्हलोः इति उच्यते न च अत्र हलादिम् पश्यामः ।

११ - ४६ - ननु च क्विप् एव हलादिः ।

१२ - ४६ - क्विपः लोपे कृते हलाद्यभावात् न प्राप्नोति ।

१३ - ४६ - इदम् इह सम्प्रधार्यम् ।

१४ - ४६ - क्विब्लोपः क्रियताम् अङ्हलोः इत्त्त्वम् इति किम् अत्र कर्तव्यम् ।

१५ - ४६ - परत्वात् अङ्हलोः इत्त्त्वम् ।

१६ - ४६ - नित्यः क्विब्लोपः ।

१७ - ४६ - कृते अपि अङ्हलोः इत्त्त्वे प्राप्नोति अकृते अपि ।

१८ - ४६ - नित्यत्वात् क्विब्लोपे कृते हलाद्यभावात् न प्राप्नोति ।

१९ - ४६ - एवम् तर्हि प्रत्ययलक्षणेन भविष्यति ।

२० - ४६ - वर्णाश्रये न अस्ति प्रत्ययलक्षणम् ।

२१ - ४६ - यदि वा कानि चित् वर्णाश्रयाणि अपि प्रत्ययलक्षणेन भवन्ति तथा च इदम् अपि भविष्यति ।

२२ - ४६ - अथ वा एवम् वक्ष्यामि ।

२३ - ४६ - शासः इत् अङ्हलोः ।

२४ - ४६ - ततः क्वौ ।

२५ - ४६ - क्वौ च शासः इत् भवति ।

२६ - ४६ - आर्यशीः , मित्रशीः ।

२७ - ४६ - ततः आङः ।

२८ - ४६ - आङ्पूर्वात् च क्वौ शासः इत् भवति ।

२९ - ४६ - आशीः इति ।

३० - ४६ - इदम् इदानीम् किमर्थम् ।

३१ - ४६ - नियमार्थम् ।

३२ - ४६ - आङ्पूर्वात् शासः क्वौ एव ।

३३ - ४६ - क्व मा भूत् ।

३४ - ४६ - आशास्यते , आशास्यमानः इति ।

३५ - ४६ - तत् तर्हि वक्तव्यम् ।

३६ - ४६ - न वक्तव्यम् ।

३७ - ४६ - अविशेषेण शासः इत् भवति इति उक्त्वा ततः अङि इति वक्ष्यामि ।

३८ - ४६ - तत् नियमार्थम् भविष्यति ।

३९ - ४६ - अङि एव अजादौ न अन्यस्मिन् अजादौ इति ।

४० - ४६ - इह अपि तर्हि नियमात् इत्त्वम् प्राप्नोति ।

४१ - ४६ - आशास्यते , आशास्यमानः इति ।

४२ - ४६ - यस्मात् शासेः अङ् विहितः तस्य ग्रहणम् न च एतस्मात् शासेः अङ् विहितः ।

४३ - ४६ - कथम् आशीः इति ।

४४ - ४६ - निपातनात् सिद्धम् ।

४५ - ४६ - किम् निपातनम् ।

४६ - ४६ - क्षियाशीःप्रैषेषु तिङ् आकाङ्क्षम् इति ।

१ - ६ - अनुदात्तोपदेशे अनुनासिकलोपः ल्यपि च ।

२ - ६ - अनुदात्तोपदेशे अनुनासिकलोपः ल्यपि च इति वक्तव्यम् ।

३ - ६ - प्रमत्य प्रतत्य ।

४ - ६ - ततः वा अमः ।

५ - ६ - वा अमः इति वक्तव्यम् ।

६ - ६ - प्रयत्य प्रयम्य प्ररत्य प्ररम्य प्रणत्य प्रणम्य ।

१ - ६ - गमादीनाम् इति वक्तव्यम् ।

२ - ६ - इह अपि यथा स्यात् ।

३ - ६ - परीतत् सहकण्ठिका ।

४ - ६ - संयत् , सनुत् इति ।

५ - ६ - ऊङ् च गमादीनाम् इति वक्तव्यम् ।

६ - ६ - अग्रेगूः , भ्रूः ।

१ - २१ - अथ किम् अयम् समुच्चयः , सनि च झलादौ च इति , आहोस्वित् सन्विशेषणम् झल्ग्रहणम् , सनि झलादौ इति ।

२ - २१ - किम् च अतः ।

३ - २१ - यदि समुच्चयः सनि अझलादौ अपि प्राप्नोति ।

४ - २१ - सिसनिषति जिजनिषते चिखनिषति ।

५ - २१ - अथ सन्विशेषणम् झल्ग्रहणम् जातः , जातवान् इति अत्र न प्राप्नोति ।

६ - २१ - यथा इच्छसि तथा अस्तु ।

७ - २१ - अस्तु तावत् समुच्चयः ।

८ - २१ - ननु च उक्तम् सनि अझलादौ अपि प्राप्नोति इति ।

९ - २१ - न एषः दोषः ।

१० - २१ - प्रकृतम् झल्ग्रहणम् अनुवर्तते ।

११ - २१ - तेन सनम् विशेषयिष्यामः ।

१२ - २१ - सनि झलादौ इति ।

१३ - २१ - अथ वा पुनः अस्तु सन्विशेषणम् ।

१४ - २१ - कथम् जातः , जातवान् इति ।

१५ - २१ - प्रकृतम् झलि क्ङिति इति अनुवर्तते ।

१६ - २१ - यदि एवम् न अर्थः झल्ग्रहणेन ।

१७ - २१ - योगविभागः करिष्यते ।

१८ - २१ - जनसनखनाम् अनुनासिकस्य आकारः भवति झलि क्ङिति ।

१९ - २१ - ततः सनि ।

२० - २१ - सनि च जनसनखनाम् अनुनासिकस्य आकारः भवति झलि इति एव ।

२१ - २१ - तस्मात् न अर्थः झल्ग्रहणेन ।

१ - ८३ - सनोतेः अनुनासिकलोपात् आत्त्वम् विप्रतिषेधेन ।

२ - ८३ - सनोतेः अनुनासिकलोपात् आत्त्वम् भवति विप्रतिषेधेन ।

३ - ८३ - सनोतेः अनुनासिकलोपस्य अवकाशः अन्ये तनोत्यादयः ।

४ - ८३ - आत्त्वस्य अवकाशः अन्ये जनादयः ।

५ - ८३ - सनोतेः अनुनासिकस्य उभयम् प्राप्नोति ।

६ - ८३ - सातः सातवान् इति ।

७ - ८३ - आत्त्वम् भवति विप्रतिषेधेन ।

८ - ८३ - न एषः युक्तः विप्रतिषेधः ।

९ - ८३ - न हि सनोतेः अनुनासिकलोपस्य अन्ये तनोत्यादयः अवकाशः ।

१० - ८३ - सनोतेः यः तनोत्यादिषु पाठः सः अनवकाशः ।

११ - ८३ - न खलु अपि आत्त्वस्य अन्ये जनादयः अवकाशः ।

१२ - ८३ - सनोतेः यत् आत्त्वे ग्रहणम् तत् अनवकाशम् ।

१३ - ८३ - तस्य अनवकाशत्वात् अयुक्तः विप्रतिषेधः ।

१४ - ८३ - एवम् तर्हि तनोत्यादिषु पाठः तावत् सावकाशः ।

१५ - ८३ - कः अवकाशः ।

१६ - ८३ - अन्यानि तनोत्यादिकार्याणि ।

१७ - ८३ - तनादिभ्यः तथासोः इति ।

१८ - ८३ - आत्त्वे अपि ग्रहणम् सावकाशम् ।

१९ - ८३ - कः अवकाशः ।

२० - ८३ - सनि च ये विभाषा च ।

२१ - ८३ - उभयोः सावकाशयोः युक्तः विप्रतिषेधः ।

२२ - ८३ - एवम् अपि अयुक्तः विप्रतिषेधः ।

२३ - ८३ - पठिष्यति हि आचार्यः पूर्वत्र असिद्धे न अस्ति विप्रतिषेधः अभावात् उत्तरस्य इति ।

२४ - ८३ - एकस्य नाम अभावे विप्रतिषेधः न स्यात् किम् पुनः यत्र उभयम् न अस्ति ।

२५ - ८३ - न एषः दोषः ।

२६ - ८३ - भवति इह विप्रतिषेधः ।

२७ - ८३ - किम् वक्तव्यम् एतत् ।

२८ - ८३ - न हि ।

२९ - ८३ - कथम् अनुच्यमाम् गंस्यते ।

३० - ८३ - आचार्यप्रवृत्तिः ज्ञापयति भवति इह विप्रतिषेधः इति यत् अयम् घुमाश्थागापाजहातिसाम् हलि इति हल्ग्रहणम् करोति ।

३१ - ८३ - कथम् कृत्वा ज्ञापकम् ।

३२ - ८३ - हल्ग्रहणस्य एतत् प्रयोजनम् हलादौ ईत्त्वम् यथा स्यात् इह मा भूत् , गोदः , कम्बलदः इति ।

३३ - ८३ - यदि च अत्र विप्रतिषेधः न स्यात् हल्ग्रहणम् अनर्थकम् स्यात् ।

३४ - ८३ - अस्तु अत्र ईत्त्वम् ।

३५ - ८३ - ईत्त्वस्य असिद्धत्वात् लोपः भविष्यति ।

३६ - ८३ - पश्यति तु आचार्यः भवति इह विप्रतिषेधः ।

३७ - ८३ - ततः हल्ग्रहणम् करोति ।

३८ - ८३ - न एतत् अस्ति ज्ञापकम् ।

३९ - ८३ - व्यवस्थार्थम् एतत् स्यात् ।

४० - ८३ - हलादौ ईत्त्वम् यथा स्यात् अजादौ मा भूत् इति ।

४१ - ८३ - किम् च स्यात् ।

४२ - ८३ - इयङादेशः प्रसज्येत ।

४३ - ८३ - ननु च असिद्धत्वात् एव इयङादेशः न भविष्यति ।

४४ - ८३ - न शक्यम् ईत्त्वम् इयङादेशे असिद्धम् विज्ञातुम् ।

४५ - ८३ - इह हि दोषः स्यात् धियौ धियः पियौ पियः इति ।

४६ - ८३ - न एतत् ईत्त्वम् ।

४७ - ८३ - किम् तर्हि ।

४८ - ८३ - ध्याप्योः सम्प्रसारणम् एतत् ।

४९ - ८३ - समानाश्रयम् खलु अपि असिद्धम् भवति व्याश्रम् च एतत् ।

५० - ८३ - कथम् ।

५१ - ८३ - क्वौ ईत्त्वम् क्विबन्तस्य विभक्तौ इयङादेशः ।

५२ - ८३ - व्यवस्थार्थम् एव तर्हि हल्ग्रहणम् कर्तव्यम् ।

५३ - ८३ - कुतः हि एतत् ईत्त्वस्य असिद्धत्वात् लोपः न पुनः लोपस्य असिद्धत्वात् ईत्त्वम् इति ।

५४ - ८३ - तत्र चक्रकम् अव्यवस्था प्रसज्येत ।

५५ - ८३ - न अस्ति चक्रकप्रसङ्गः ।

५६ - ८३ - न हि अव्यवस्थाकारिण शास्त्रेण भवितव्यम् ।

५७ - ८३ - शास्त्रतः नाम व्यवस्था ।

५८ - ८३ - तत्र ईत्त्वस्य असिद्धत्वात् लोपः लोपेन व्यवस्थानम् भविष्यति ।

५९ - ८३ - न खलु अपि तस्मिन् तत् एव असिद्धम् भवति ।

६० - ८३ - व्यवस्थार्थम् एव तर्हि हल्ग्रहणम् कर्तव्यम् ।

६१ - ८३ - हलादौ ईत्त्वम् यथा स्यात् अजादौ मा भूत् इति ।

६२ - ८३ - कुतः हि एतत् ईत्त्वस्य असिद्धत्वात् लोपः लोपेन अवस्थानम् भविष्यति न पुनः लोपस्य असिद्धत्वात् ईत्त्वम् ईत्त्वेन व्यवस्थानम् स्यात् ।

६३ - ८३ - तत् एव खलु अपि तस्मिन् असिद्धम् भवति ।

६४ - ८३ - कथम् ।

६५ - ८३ - पठिष्यति हि आचार्यः चिणः लुकि तग्रहणानर्थक्यम् सङ्घातस्य अप्रत्ययत्वात् तलोपस्य च असिद्धत्वात् इति ।

६६ - ८३ - चिणः लुक् चिणः लुकि एव असिद्धः भवति ।

६७ - ८३ - एवम् तर्हि यदि व्यवस्थार्थम् एतत् स्यात् न एव अयम् हल्ग्रहणम् कुर्वीत ।

६८ - ८३ - अविशेषेण अयम् ईत्त्वम् उक्त्वा तस्य अजादौ लोपम् अपवादम् विदधीत ।

६९ - ८३ - इदम् अस्ति ।

७० - ८३ - आतः लोपः इटि च इति ।

७१ - ८३ - ततः घुमाश्थागापाजहातिसाम् ।

७२ - ८३ - लोपः भवति इटि च अजादौ क्ङिति ।

७३ - ८३ - किमर्थम् पुनः इदम् ।

७४ - ८३ - ईत्त्वम् वक्ष्यामि तद्बाधनार्थम् ।

७५ - ८३ - ततः ईत् ।

७६ - ८३ - ईत् च भवति घ्वादीनाम् ।

७७ - ८३ - ततः एः लिङि ।

७८ - ८३ - वा अन्यस्य संयोगादेः ।

७९ - ८३ - न ल्यपि ।

८० - ८३ - मयतेः इत् अन्यतरस्याम् ।

८१ - ८३ - ततः यति ।

८२ - ८३ - यति च ईत् भवति ।

८३ - ८३ - सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् हल्ग्रहणम् करोति गरीयांसम् यत्नम् आरभते तत् ज्ञापयति आचार्यः भवति इह विप्रतिषेधः इति ।

१ - ७ - इह अन्यतरस्याङ्ग्रहणम् शक्यम् अकर्तुम् ।

२ - ७ - कथम् ।

३ - ७ - सनः क्तिचि लोपः च आत्त्त्वम् च विभाषा इति ।

४ - ७ - अपरः आह सर्वः एव अयम् योगः शक्यः अवक्तुम् ।

५ - ७ - कथम् ।

६ - ७ - इह लोपः अपि प्रकृतः आत्त्वम् अपि प्रकृतम् विभाषाग्रहणम् अपि प्रकृतम् ।

७ - ७ - तत्र केवलम् अभिसम्बन्धमात्रम् कर्तव्यम् सनः क्तिचि लोपः च आत्त्वम् च विभाषा ।

१ - ५४ - कानि पुनः आर्धधातुकाधिकारस्य प्रयोजनानि ।

२ - ५४ - अतः लोपः यलोपः च णिलोपः च प्रयोजनम् आल्लोपः ईत्त्वम् एत्वम् च चिण्वद्भावः च सीयुटि ।

३ - ५४ - अतः लोपः ।

४ - ५४ - चिकीर्षिता चिकीर्षितुम् ।

५ - ५४ - आरधधातुके इति किमर्थम् ।

६ - ५४ - चिकीर्षति ।

७ - ५४ - न एतत् अस्ति प्रयोजनम् ।

८ - ५४ - अस्तु अत्र सनः अकारलोपः ।

९ - ५४ - शपः अकारस्य श्रवणम् भविष्यति ।

१० - ५४ - शपः एव तर्हि मा भूत् ।

११ - ५४ - एतत् अपि न अस्ति प्रयोजनम् ।

१२ - ५४ - आचार्यप्रवृत्तिः ज्ञापयति न अनेन शबकारस्य लोपः भवति इति यत् अयम् अदिप्रभृतिभ्यः शपः लुकम् शास्ति ।

१३ - ५४ - न एतत् अस्ति ज्ञापकम् ।

१४ - ५४ - कार्याऋथम् एतत् स्यात् ।

१५ - ५४ - वित्तः , मृष्टः इति ।

१६ - ५४ - यत् तर्हि आकारान्तेभ्यः लुकम् शास्ति ।

१७ - ५४ - इदम् तर्हि प्रयोजनम् ।

१८ - ५४ - वृक्षस्य प्लक्षस्य ।

१९ - ५४ - अतः लोपः ।

२० - ५४ - प्राप्नोति ।

२१ - ५४ - यलोपः अपि प्रयोजनम् ।

२२ - ५४ - बेभिदिता चेच्छिदिता ।

२३ - ५४ - आरधधातुके इति किमर्थम् ।

२४ - ५४ - बेभिद्यते चेच्छिद्यते ।

२५ - ५४ - णिलोपः ।

२६ - ५४ - पाच्यते याज्यते ।

२७ - ५४ - आरधधातुके इति किमर्थम् ।

२८ - ५४ - पाचयति याजयति ।

२९ - ५४ - आल्लोपः ।

३० - ५४ - ययतुः ययुः ।

३१ - ५४ - आरधधातुके इति किमर्थम् ।

३२ - ५४ - यान्ति वान्ति ।

३३ - ५४ - ईत्त्वम् ।

३४ - ५४ - दीयते , धीयते ।

३५ - ५४ - आरधधातुके इति किमर्थम् ।

३६ - ५४ - अदाताम् अधाताम् ।

३७ - ५४ - एत्वम् ।

३८ - ५४ - स्नेयात् , म्लेयात् ।

३९ - ५४ - आरधधातुके इति किमर्थम् ।

४० - ५४ - स्नायात् ।

४१ - ५४ - चिण्वद्भावः च सीयुटि ।

४२ - ५४ - चिण्वद्भावे सीयुटि किम् उदाहरणम् ।

४३ - ५४ - कारिषीष्ट हारिषीष्ट ।

४४ - ५४ - आरधधातुके इति किमर्थम् ।

४५ - ५४ - क्रियेत ह्रियेत ।

४६ - ५४ - न एतत् उदाहरणम् ।

४७ - ५४ - यका व्यवहितत्वात् न भविष्यति ।

४८ - ५४ - इदम् तर्हि उदाहरणम् प्रस्नुवीत ।

४९ - ५४ - इदम् च अपि उदाहरणम् क्रियेत ह्रियेत ।

५० - ५४ - ननु च उक्तम् यका व्यवहितत्वात् न भविष्यति इति ।

५१ - ५४ - यकः एव तर्हि मा भूत् इति ।

५२ - ५४ - किम् च स्यात् ।

५३ - ५४ - वृद्धिः ।

५४ - ५४ - वृद्धौ च कृतायाम् युक् प्रसज्येत ।

१ - ३९ - अयम् रम् रेफस्य स्थाने कस्मात् न भवति ।

२ - ३९ - मित् अचः अन्त्यात् परः इति अनेन अचाम् अन्त्यात् परः क्रियते ।

३ - ३९ - रेफस्य तर्हि श्रवणम् कस्मात् न भवति ।

४ - ३९ - षष्ठ्युच्चारणसामर्थ्यात् ।

५ - ३९ - भारद्वाजीयाः पठन्ति भ्रस्जः रोपधयोः लोपः आगमः रम् विधीयते इति ।

६ - ३९ - भ्रस्जादेशात् सम्प्रसारणम् विप्रतिषेधेन ।

७ - ३९ - भ्रस्जादेशात् सम्प्रसारणम् भवति विप्रतिषेधेन ।

८ - ३९ - भ्रस्जादेशस्य अवकाशः भर्ष्टा भ्रष्टा ।

९ - ३९ - सम्प्रसारणस्य अवकाशः भृज्जति ।

१० - ३९ - इह उभयम् प्राप्नोति भृष्टः , भृष्टवान् ।

११ - ३९ - सम्प्रसारणम् भवति विप्रतिषेधेन ।

१२ - ३९ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

१३ - ३९ - न वक्तव्यः ।

१४ - ३९ - रसेः वा ऋवचनात् सिद्धम् ।

१५ - ३९ - रसोः वा ऋ भवति इति वक्ष्यामि ।

१६ - ३९ - रसोः वा ऋवचने सिचि वृद्धेः भ्रस्जादेशः ।

१७ - ३९ - रसोः वा ऋवचने सिचि वृद्धेः भ्रस्जादेशः वक्तव्यः ।

१८ - ३९ - वृद्धौ कृतायाम् इदम् एव रूपम् स्यात् अभ्राक्षीत् ।

१९ - ३९ - इदम् न स्यात् अभार्क्षीत् ।

२० - ३९ - सर्वथा वयम् पूर्वविप्रतिषेधात् न मुच्यामहे सूत्रम् च भिद्यते ।

२१ - ३९ - यथान्यासम् एव अस्तु ।

२२ - ३९ - ननु च उक्तम् भ्रस्जादेशात् सम्प्रसारणम् विप्रतिषेधेन इति ।

२३ - ३९ - इदम् इह सम्प्रधार्यम् ।

२४ - ३९ - भ्रस्जादेशः क्रियताम् सम्प्रसारणम् इति किम् अत्र कर्तव्यम् ।

२५ - ३९ - परत्वात् भ्रस्जादेशः ।

२६ - ३९ - नित्यत्वात् सम्प्रसारणम् ।

२७ - ३९ - कृते अपि भ्रस्जादेशे प्राप्नोति अकृते अपि ।

२८ - ३९ - भ्रस्जादेशः अपि नित्यः ।

२९ - ३९ - कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि प्राप्नोति ।

३० - ३९ - कथम् ।

३१ - ३९ - यः असौ ऋकारे रेफः तस्य च उपधायाः च कृते अपि प्राप्नोति ।

३२ - ३९ - अनित्यः भ्रस्जादेशः ।

३३ - ३९ - न हि कृते सम्प्रसारणे प्राप्नोति ।

३४ - ३९ - किम् कारणम् ।

३५ - ३९ - न हि वर्णैकदेशाः वर्णग्रहणेन गृह्यन्ते ।

३६ - ३९ - अथ अपि गृह्यन्ते एवम् अपि अनित्यः ।

३७ - ३९ - कथम् ।

३८ - ३९ - उपदेशः इति वर्तते ।

३९ - ३९ - तत् च अवश्यम् उपदेशग्रहणम् अनुवर्त्यम् बरीभृज्ज्यतः इति एवमर्थम् ।

१ - ४० - ण्यल्लोपौ इयङ्यण्गुणवृद्धिदीर्घत्वेभ्यः पूर्वविप्रतिषिद्धम् ।

२ - ४० - ण्यल्लोपौ इयङ्यण्गुणवृद्धिदीर्घत्वेभ्यः भवतः पूर्वविप्रतिषेधेन ।

३ - ४० - णिलोपस्य अवकाशः कार्यते हार्यते ।

४ - ४० - इयङादेशस्य अवकाशः श्रियौ श्रियः ।

५ - ४० - इह उभयम् प्राप्नोति आटिटत् , आशिशत् ।

६ - ४० - ननु च अत्र यणादेशेन भवितव्यम् ।

७ - ४० - इदम् तर्हि अततक्षत् , अररक्षत् ।

८ - ४० - यणादेशस्य अवकाशः निन्यतुः , निन्युः ।

९ - ४० - णिलोपस्य सः एव ।

१० - ४० - इह उभयम् प्राप्नोति आटिटत् , आशिशत् ।

११ - ४० - वृद्देः अवकाशः सखायौ सखायः ।

१२ - ४० - णिलोपस्य सः एव ।

१३ - ४० - इह उभयम् प्राप्नोति कारयतेः कारकः , हारयतेः हारकः ।

१४ - ४० - गुणस्य अवकाशः चेता स्तोता ।

१५ - ४० - णिलोपस्य अवकाशः आटिटत् , आशिशत् ।

१६ - ४० - इह उभयम् प्राप्नोति कारणा हारणा ।

१७ - ४० - दीर्घत्वस्य अवकाशः चीयते , स्तूयते ।

१८ - ४० - णिलोपस्य अवकाशः कारणा हारणा ।

१९ - ४० - इह उभयम् प्राप्नोति कार्यते हार्यति ।

२० - ४० - णिलोपः भवति विप्रतिषेधेन ।

२१ - ४० - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

२२ - ४० - न वक्तव्यः ।

२३ - ४० - सन्तु अत्र एते विधयः ।

२४ - ४० - एतेषु विधिषु कृतेषु स्थानिवद्भावात् णिग्रहणेन ग्रहणात् णिलोपः भविष्यति ।

२५ - ४० - न एवम् शक्यम् ।

२६ - ४० - इयङादेशे हि दोषः स्यात् ।

२७ - ४० - अन्त्यस्य लोपः प्रसज्येत ।

२८ - ४० - अल्लोपस्य इयङ्यणोः च न अस्ति सम्प्रधारणा ।

२९ - ४० - वृद्धेः अवकाशः प्रियम् आचष्टे प्रापयति ।

३० - ४० - अल्लोपस्य अवकाशः चिकीर्षिता चिकीर्षितुम् ।

३१ - ४० - इह उभयम् प्राप्नोति चिकीर्षकः , जिहीर्षकः ।

३२ - ४० - गुणस्य अल्लोपस्य च न अस्ति सम्प्रधारणा ।

३३ - ४० - दीर्घत्वस्य अवकाशः अपि काकः श्येनायते ।

३४ - ४० - अल्लोपस्य सः एव ।

३५ - ४० - इह उभयम् प्राप्नोति चिकीर्ष्यते जिहीर्ष्यते ।

३६ - ४० - अल्लोपः भवति विप्रतिषेधेन ।

३७ - ४० - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

३८ - ४० - न वक्तव्यः ।

३९ - ४० - इष्टवाची परशब्दः ।

४० - ४० - विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति ।

१ - ४३ - किम् इदम् यलोपे वर्णग्रहणम् आहोस्वित् सङ्घातग्रहणम् ।

२ - ४३ - कः च अत्र विशेषः ।

३ - ४३ - यलोपे वर्णग्रहणम् चेत् धात्वन्तस्य प्रतिषेधः ।

४ - ४३ - यलोपे वर्णग्रहणम् चेत् धात्वन्तस्य प्रतिषेधः वक्तव्यः ।

५ - ४३ - शुच्यिता शुच्यितुम् ।

६ - ४३ - अस्ति तर्जो सङ्घातग्रहणम् ।

७ - ४३ - यदि सङ्घातग्रहणम् अन्त्यस्य लोपः प्राप्नोति ।

८ - ४३ - सिद्धः अन्त्यस्य पूर्वेण एव ।

९ - ४३ - तत्र आरम्भसामर्थ्यात् सर्वस्य भविष्यति ।

१० - ४३ - एवम् अपि तेन अतिप्रसक्तम् इति कृत्वा नियमः विज्ञायेत ।

११ - ४३ - यस्य हलः एव न अन्यतः ।

१२ - ४३ - क्व मा भूत् ।

१३ - ४३ - लोलूयिता पोपूयिता ।

१४ - ४३ - कैमर्थक्यात् नियमः भवति ।

१५ - ४३ - विधेयम् न अस्ति इति कृत्वा ।

१६ - ४३ - इह च अस्ति विधेयम् ।

१७ - ४३ - किम् ।

१८ - ४३ - अन्त्यस्य लोपः प्राप्तः सः सर्वस्य विधेयः ।

१९ - ४३ - तत्र अपूर्वः विधिः अस्तु नियम अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः ।

२० - ४३ - एवम् अपि अन्त्यस्य प्राप्नोति ।

२१ - ४३ - किम् कारणम् ।

२२ - ४३ - न हि लोपः सर्वापहारी ।

२३ - ४३ - ननु च सङ्घातग्रहणसामर्थ्यात् सर्वस्य भविष्यति ।

२४ - ४३ - सङ्घातग्रहणम् चेत् क्यस्य विभाषायाम् दोषः ।

२५ - ४३ - सङ्घातग्रहणम् चेत् क्यस्य विभाषायाम् दोषः भवति ।

२६ - ४३ - समिधिता समिध्यिता ।

२७ - ४३ - यदा लोपः तदा सर्वस्य लोपः ।

२८ - ४३ - यदा अलोपः तदा सर्वस्य अलोपः प्राप्नोति ।

२९ - ४३ - आदेः परवचनात् सिद्धम् ।

३० - ४३ - हलः इति पञ्चमी ।

३१ - ४३ - तस्मात् इति उत्तरस्य आदेः परस्य इति यकारस्य एव भविष्यति ।

३२ - ४३ - अथ वा पुनः अस्तु वर्णग्रहणम् ।

३३ - ४३ - ननु च उक्तम् यलोपे वर्णग्रहणम् चेत् धात्वन्तस्य प्रतिषेधः इति ।

३४ - ४३ - न एषः दोषः ।

३५ - ४३ - अङ्गात् इति हि वर्तते ।

३६ - ४३ - न वा अङ्गात् इति पञ्चमी अस्ति ।

३७ - ४३ - एवम् तर्हि अङ्गस्य इति सम्बन्धषष्ठी विज्ञास्यते ।

३८ - ४३ - अङ्गस्य यः यकारः ।

३९ - ४३ - किम् च अङ्गस्य यकारः ।

४० - ४३ - निमित्तम् ।

४१ - ४३ - यस्मिन् अङ्गम् इति एतत् भवति ।

४२ - ४३ - कस्मिन् च एतत् भवति ।

४३ - ४३ - प्रत्यये ।

१ - १६ - अथ अनिटि इति किमर्थम् ।

२ - १६ - कारयिता कारयितुम् ।

३ - १६ - अनिटि इति शक्यम् अवक्तुम् ।

४ - १६ - कस्मात् न भवति कारयिता कारयितुम् ।

५ - १६ - निष्ठायाम् सेटि इति एतत् नियमार्थम् भविष्यति ।

६ - १६ - निष्ठायाम् एव सेटि णेः लोपः भवति न अयत्र ।

७ - १६ - क्व मा भूत् ।

८ - १६ - कारयिता कारयितुम् ।

९ - १६ - अथ वा उपरिष्टात् योगविभागः करिष्यते ।

१० - १६ - इदम् अस्ति ।

११ - १६ - निष्ठायाम् सेटि ।

१२ - १६ - जनित मन्त्र ।

१३ - १६ - शमिता यज्ञे ।

१४ - १६ - ततः अय् ।

१५ - १६ - अयादेशः भवति णेः सेटि ।

१६ - १६ - तत आमन्ताल्वायेत्न्विष्णुषु अय् भवति इति एव ।

१ - ४१ - अथ सेड्ग्रहणम् किमर्थम् ।

२ - ४१ - निष्ठायाम् सेड्ग्रहणम् अनिटि प्रतिषेधार्थम् ।

३ - ४१ - निष्ठायाम् सेड्ग्रहणम् क्रियते अनिटि प्रतिषेधः यथा स्यात् इति ।

४ - ४१ - सञ्ज्ञपितः पशुः इति ।

५ - ४१ - निष्ठायाम् सेड्ग्रहणम् अनिटि प्रतिषेधार्थम् इति चेत् तत् सिद्धम् अनिडभावात् ।

६ - ४१ - निष्ठायाम् सेड्ग्रहणम् अनिटि प्रतिषेधार्थम् इति चेत् अन्तरेण अपि सेड्ग्रहणम् तत् सिद्धम् ।

७ - ४१ - कथम् ।

८ - ४१ - अनिडभावात् ।

९ - ४१ - ननु च यस्य विभाषा इति ज्ञपेः इट्प्रतिषेधः ।

१० - ४१ - एकाचः हि प्रतिषेधः ।

११ - ४१ - एकाचः हि सः प्रतिषेधः ज्ञपिः च अनेकाच् ।

१२ - ४१ - इड्भावार्थम् तु तन्निमित्तत्वात् लोपस्य ।

१३ - ४१ - इड्भावार्थम् तर्हि सेड्ग्रहणम् क्रियते ।

१४ - ४१ - कथम् पुनः सेटि इति अनेन इट् शक्यः भावयितुम् ।

१५ - ४१ - तन्निमित्तत्वात् लोपस्य ।

१६ - ४१ - न अत्र अकृते इटि णिलोपेन भवितव्यम् ।

१७ - ४१ - किम् कारणम् ।

१८ - ४१ - सेटि इति उच्यते ।

१९ - ४१ - अवचने हि णिलोपे इट्प्रतिषेधप्रसङ्गः ।

२० - ४१ - अक्रियमाणे हि सेड्ग्रहणे णिलोपे कृते एकाचः इति इट्प्रतिषेधः प्रसज्येत ।

२१ - ४१ - कारितम् , हारितम् ।

२२ - ४१ - एवम् तर्हि न अर्थः सेड्ग्रहणेन न अपि सूत्रेण ।

२३ - ४१ - कथम् ।

२४ - ४१ - सप्तमे योगविभागः करिष्यते ।

२५ - ४१ - इदम् अस्ति ।

२६ - ४१ - निष्ठायाम् न इट् भवति ।

२७ - ४१ - ततः णेः ।

२८ - ४१ - ण्यन्तस्य निष्ठायाम् न इट् भवति ।

२९ - ४१ - कारितम् , हारितम् ।

३० - ४१ - ततः वृत्तम् ।

३१ - ४१ - वृत्तम् इति च निपात्यते ।

३२ - ४१ - किम् निपात्यते ।

३३ - ४१ - णेः निष्ठायाम् लोपः निपात्यते ।

३४ - ४१ - किम् प्रयोजनम् ।

३५ - ४१ - नियमार्थम् ।

३६ - ४१ - अत्र एव णेः निष्ठायाम् लोपः भवति न अन्यत्र ।

३७ - ४१ - क्व मा भूत् ।

३८ - ४१ - कारितम् , हारितम् ।

३९ - ४१ - इह अपि तर्हि प्राप्नोति वर्तितम् अन्नम् , वर्तिता भिक्षा इति ।

४० - ४१ - ततः अध्ययने ।

४१ - ४१ - अध्ययने चेत् वृतिः वर्तते इति ।

१ - १५ - वृधिरमिशृधीनाम् उपसङ्ख्यानम् सार्वधातुकत्वात् ।

२ - १५ - वृधिरमिशृधीनाम् उपसङ्ख्यानम् कर्तव्यम् ।

३ - १५ - किम् कारणम् ।

४ - १५ - सार्वधातुकत्वात् ।

५ - १५ - वर्धन्तु त्वा सुष्टुतयः गिरः मे ।

६ - १५ - वर्धयन्तु इति एवम् प्राप्ते ।

७ - १५ - बृहस्पतिः त्वा सुम्ने रम्णातु ।

८ - १५ - रमयतु इति एवम् प्राप्ते ।

९ - १५ - अग्ने शर्ध महते सौभगाय ।

१० - १५ - शर्धय इति एवम् प्राप्ते ।

११ - १५ - तत् तर्हि वक्तव्यम् ।

१२ - १५ - न वक्तव्यम् ।

१३ - १५ - वृधिरमिशृधीनाम् आर्धधातुकत्वात् सिद्धम् ।

१४ - १५ - कथम् आर्धधातुकत्वम् ।

१५ - १५ - अन्ये अपि हि धातुप्रत्ययाः उभयथा छन्दसि दृश्यन्ते ।

१ - ११ - किम् पुनः अयम् क्त्नुः आहोस्वित् इत्नुः ।

२ - ११ - कः च अत्र विशेषः ।

३ - ११ - क्त्नौ इटि णेः गुणवचनम् ।

४ - ११ - क्त्नौ इटि णेः गुणः वक्तव्त्यः ।

५ - ११ - गदयित्नुः , स्तनयित्नुः ।

६ - ११ - अस्तु तर्हि इत्नुः ।

७ - ११ - इत्नौ प्रत्ययान्तरकरणम् ।

८ - ११ - यदि तर्हि इत्नुः प्रत्ययान्तरम् कर्तव्यम् ।

९ - ११ - अयादेशे च उपसङ्ख्यानम् ।

१० - ११ - अयादेशे च उपसङ्ख्यानम् कर्तव्यम् ।

११ - ११ - उभयम् क्रियते न्यासे एव ।

१ - २२ - ल्यपि लघुपूर्वस्य इति चेत् व्यञ्जनान्तेषु उपसङ्ख्यानम् ।

२ - २२ - ल्यपि लघुपूर्वस्य इति चेत् व्यञ्जनान्तेषु उपसङ्ख्यानम् कर्तव्यम् ।

३ - २२ - प्रशमय्य गतः ।

४ - २२ - प्रतमय्य गतः ।

५ - २२ - अल्लोपे च गुरुपूर्वात् प्रतिषेधः ।

६ - २२ - अल्लोपे च गुरुपूर्वात् प्रतिषेधः वक्तव्यः ।

७ - २२ - प्रचिकीर्ष्य गतः ।

८ - २२ - ल्यपि लघुपूर्वात् इति वचनात् सिद्धम् ।

९ - २२ - ल्यपि लघुपूर्वात् इति वक्तव्यम् ।

१० - २२ - एवम् अपि ह्रस्वयलोपाल्लोपानाम् असिद्धत्वात् ल्यपि लघुपूर्वात् इति अयादेशः न प्राप्नोति ।

११ - २२ - प्रशमय्य गतः ।

१२ - २२ - प्रतमय्य गतः ।

१३ - २२ - प्रबेभिदय्य गतः ।

१४ - २२ - प्रचेच्छिदय्य गतः ।

१५ - २२ - प्रगदय्य गतः ।

१६ - २२ - प्रस्तनय्य गतः ।

१७ - २२ - ह्रस्वादिषु च उक्तम् ।

१८ - २२ - किम् उक्तम् ।

१९ - २२ - समानाश्रयत्वात् सिद्धम् इति ।

२० - २२ - कथम् ।

२१ - २२ - णौ एते विधयः ।

२२ - २२ - णेः ल्यपि अयादेशः ।

१ - ८ - इङादेशस्य प्रतिषेधः वक्तव्यः ।

२ - ८ - अध्याप्य गतः ।

३ - ८ - आपः सानुबन्धकनिर्देशात् इङि सिद्धम् ।

४ - ८ - आपः सानुबन्धकनिर्देशः करिष्यते ।

५ - ८ - तेन इङादेशस्य न भविष्यति ।

६ - ८ - सः तर्हि सानुबन्धकनिर्देशः कर्तव्यः ।

७ - ८ - न कर्तव्यः ।

८ - ८ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् न भविष्यति ।

१ - १७ - भावकर्मणोः इति कथम् इदम् विज्ञायते ।

२ - १७ - भावकर्मणोः ये स्यादयः इति , आहोस्वित् भावकर्मवाचिनि परतः ये स्यादयः इति ।

३ - १७ - किम् च अतः ।

४ - १७ - यदि विज्ञायते भावकर्मणोः ये स्यादयः इति सीयुट् विशेषितः स्यसिच्तासयः अविशेषिताः ।

५ - १७ - अथ विज्ञायते भावकर्मवाचिनि परतः ये स्यादयः इति स्यसिच्तासयः विशेषिताः सीयुट् अविशेषितः ।

६ - १७ - यथा इच्छसि तथा अस्तु ।

७ - १७ - अस्तु तावत् भावकर्मणोः ये स्यादयः इति ।

८ - १७ - स्यसिच्तासयः च विशेषिताः ।

९ - १७ - ननु च उक्तम् सीयुट् विशेषितः स्यसिच्तासयः अविशेषिताः इति ।

१० - १७ - स्यसिच्तासयः च विशेषिताः ।

११ - १७ - कथम् ।

१२ - १७ - भावकर्मणोः यक् भवति इति अत्र स्यादयः अपि अनुवर्तिष्यन्ते ।

१३ - १७ - अथ वा पुनः अस्तु भावकर्मवाचिनि परतः ये स्यादयः इति ।

१४ - १७ - ननु च उक्तम् स्यसिच्तासयः विशेषिताः सीयुट् अविशेषितः इति ।

१५ - १७ - सीयुट् च विशेषितः ।

१६ - १७ - कथम् ।

१७ - १७ - भावकर्मवाचिनि परतः सीयुट् न अस्ति इति कृत्व भावकर्मवाचिनि सीयुटि कार्यम् विज्ञास्यते ।

१ - ४० - अथ इट् च इति उच्यते ।

२ - ४० - कस्य अयम् इट् भवति ।

३ - ४० - अङ्गस्य इति वर्तते ।

४ - ४० - यदि एवम् आदितः इट् प्राप्नोति अडाड्वत् ।

५ - ४० - तत् यथा अडाटौ टित्त्वात् आदितः भवतः तद्वत् ।

६ - ४० - एवम् तर्हि स्यादीनाम् एव भविष्यन्ति ।

७ - ४० - एवम् अपि षष्ठ्यभावात् न प्राप्नोति ।

८ - ४० - ननु च भावकर्मणोः इति एषा षष्ठी ।

९ - ४० - न एषा षष्ठी ।

१० - ४० - किम् तर्हि अर्थिनिर्देशे एषा सप्तमी भावे च अर्थे कर्मणि च इति ।

११ - ४० - एवम् तर्हि भावकर्मणोः इति एषा सप्तमी स्यादिषु इति सप्तम्याः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति ।

१२ - ४० - एवम् अपि न सिध्यति ।

१३ - ४० - किम् कारणम् ।

१४ - ४० - न हि अर्थेन पौर्वापर्यम् अस्ति ।

१५ - ४० - अर्थे असम्भवात् तद्वाचिनि शब्दे कार्यम् विज्ञास्यते ।

१६ - ४० - एवम् अपि सीयुटः न प्राप्नोति ।

१७ - ४० - एवम् तर्हि सप्तमे योगविभागः करिष्यते ।

१८ - ४० - आर्धधातुकस्य इट् ।

१९ - ४० - यावान् इट् नाम सः सर्वः आर्धधातुकस्य इट् भवति ।

२० - ४० - ततः वलादेः ।

२१ - ४० - वलादेः आर्धधातुकस्य इट् भवति इति ।

२२ - ४० - यदि एवम् स्यसिच्सीयुट्तासिषु इट् भवति चिण्वद्भावः अविशेषितः भवति ।

२३ - ४० - तत्र कः दोषः ।

२४ - ४० - स्यसिच्सीयुट्तासिषु इट् भवति अज्झनग्रहदृशाम् वा चिण्वत् इति क्व चित् एव चिण्वद्भावः स्यात् ।

२५ - ४० - एवम् तर्हि स्यादीन् अपेक्षिष्यामहे ।

२६ - ४० - स्यसिच्सीयुट्तासिषु इट् भवति अज्झनग्रहदृशाम् वा चिण्वत् स्यादिषु इति ।

२७ - ४० - अथ के पुनः इमम् इटम् प्रयोजयन्ति ।

२८ - ४० - ये अनुदात्ताः ।

२९ - ४० - अथ ये उदात्ताः तेषाम् कथम् ।

३० - ४० - सिद्धम् तेन एव परत्वात् ।

३१ - ४० - उदात्तेभ्यः अपि वा अनेन एव इट् एषितव्यः ।

३२ - ४० - किम् प्रयोजनम् ।

३३ - ४० - कारयतेः कारिष्यते , हारयतेः हारिष्यते ।

३४ - ४० - इटः असिद्धत्वात् अनिटि इति णिलोपः यथा स्यात् ।

३५ - ४० - कथम् पुनः इच्छता अपि भवता उदात्तेभ्यः अनेन एव इट् लभ्यः न पुनः अनेन अस्तु तेन वा इति तेन एव स्यात् विप्रतिषेधेन ।

३६ - ४० - ननु च नित्यः अयम् कृते अपि तस्मिन् प्राप्नोति अकृते अपि प्राप्नोति ।

३७ - ४० - न तु अस्मिन् कृते अपि सः प्राप्नोति ।

३८ - ४० - किम् कारणम् ।

३९ - ४० - अवलादित्वात् ।

४० - ४० - तस्मात् अनेन एव भविष्यति इट् ।

१ - १६ - कानि पुनः अस्य योगस्य प्रयोजनानि ।

२ - १६ - वृद्धिः चिण्वत् युक् च हन्तेः च घत्वम् दीर्घः च उक्तः यः मिताम् वा चिणि इति ।

३ - १६ - वृद्धिः प्रयोजनम् ।

४ - १६ - चेष्यते चायिष्यते ।

५ - १६ - युक् च प्रयोजनम् ।

६ - १६ - ग्लास्यते , ग्लायिष्यते ।

७ - १६ - हन्तेः च घत्वम् प्रयोजनम् ।

८ - १६ - हनिष्यते घानिष्यते ।

९ - १६ - दीर्घः च उक्तः यः मिताम् वा चिणि इति सः च प्रयोजनम् ।

१० - १६ - शमिष्यते शामिष्यते तमिष्यते तामिष्यते ।

११ - १६ - इट् च असिद्धः तेन मे लुप्यते णिः नित्यः च अयम् वल्निमित्तः विघाती ।

१२ - १६ - इटः असिद्धत्वात् णेः अनिटि इति णिलोपः यथा स्यात् ।

१३ - १६ - कथम् पुनः अयम् नित्यः ।

१४ - १६ - कृताकृतप्रसङ्गित्वात् ।

१५ - १६ - कृते अपि तस्मिन् इटि साप्तमिके आर्धधातुकस्य इट् वलादेः इति पुनः अयम् भवति ।

१६ - १६ - अस्मिन् तु विहिते वलादित्वस्य निमित्तस्य विहतत्वात् साप्तमिकः न भवति

१ - ६ - अथ उपदेशग्रहणम् किमर्थम् ।

२ - ६ - चिण्वद्भावे उपदेशवचनम् ऋकारगुणबलीयस्त्वात् ।

३ - ६ - चिण्वद्भावे उपदेशवचनम् क्रियते ऋकारगुणस्य बलीयस्त्वात् ।

४ - ६ - कारिष्यते ।

५ - ६ - परत्वात् गुणे कृते रपरत्वे च अनजन्तत्वात् चिण्वद्भावः न प्राप्नोति ।

६ - ६ - उपदेशग्रहणात् भविष्यति ।

१ - १४ - वधिभावात् सीयुटि चिण्वद्भावः विप्रतिषेधेन ।

२ - १४ - वधिभावात् सीयुटि चिण्वद्भावः भवति विप्रतिषेधेन ।

३ - १४ - वधिभावस्य अवकाशः वध्यात् , वध्यास्ताम् , वध्यासुः ।

४ - १४ - चिण्वद्भावस्य अवकाशः घानिष्यते , अघानिष्यत ।

५ - १४ - इह उभयम् प्राप्नोति घानिषीष्ट घानिषीयास्ताम् घानिषीरन् ।

६ - १४ - चिण्वद्भावः भवति विप्रतिषेधेन ।

७ - १४ - अथ इदानीम् चिण्वद्भावे कृते पुनःप्रसङ्गविज्ञानात् वधिभावः कस्मात् न भवति ।

८ - १४ - सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति ।

९ - १४ - हनिणिङादेशप्रतिषेधः च ।

१० - १४ - हनिणिङादेशानाम् च प्रतिषेधः वक्तव्यः ।

११ - १४ - हनिष्यते , घानिष्यते , एष्यते , आयिष्यते , अध्येष्यते , अध्यायिष्यते ।

१२ - १४ - लुङि इति हनिणिङादेशाः प्राप्नुवन्ति ।

१३ - १४ - अङ्गस्य इति तु प्रकरणात् अङ्गशास्त्रातिदेशात् सिद्धम् ।

१४ - १४ - आङ्गम् यत् कार्यम् तत् प्रतिनिर्दिश्यते न च हनिणिङादेशाः आङ्गाः ।भवन्ति इति ।

१ - २६ - अथ इड्ग्रहणम् किमर्थम् ।

२ - २६ - इड्ग्रहणम् अक्ङिदर्थम् ।

३ - २६ - इड्ग्रहणम् क्रियते अक्ङिति लोपः यथा स्यात् पपिथ तस्थिथ इति ।

४ - २६ - सार्वधातुके च आदि इति आर्धधातुकाधिकारात् उपसङ्ख्यानम् ।

५ - २६ - सार्वधातुके च आदि इति आर्धधातुकाधिकारात् उपसङ्ख्यानम् कर्तव्यम् ।

६ - २६ - इषम् ऊर्जम् अहम् इतः आदि ।

७ - २६ - ननु च क्ङिति इति वर्तमाने यथा एव इड्ग्रहणम् अक्ङिदर्थम् एवम् आर्धधातुके इति अपि वर्तमाने इड्ग्रहणम् सार्वधातुकार्थम् भविष्यति ।

८ - २६ - न सिध्यति ।

९ - २६ - किम् कारणम् ।

१० - २६ - न हि क्ङिता अच् विशेष्यते अचि भवति ।

११ - २६ - कतरस्मिन् ।

१२ - २६ - क्ङिति इति ।

१३ - २६ - किम् तर्हि अचा क्ङित् विशेष्यते क्ङिति भवति ।

१४ - २६ - कतरस्मिन् ।

१५ - २६ - अचि इति ।

१६ - २६ - किम् पुनः कारणम् अचा क्ङित् विशेष्यते ।

१७ - २६ - यथा इट् अपि अज्ग्रहणेन विशेष्यते ।

१८ - २६ - अस्ति च इदानीम् क्व चित् इट् अनजादिः यदर्थः विधिः स्यात् ।

१९ - २६ - अस्ति इति आह दासीय धासीय ।

२० - २६ - तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।

२१ - २६ - न कर्तव्यम् ।

२२ - २६ - आर्धधातुकग्रहणात् सिद्धम् ।

२३ - २६ - कथम् ।

२४ - २६ - आर्धधातुकत्वम् ।

२५ - २६ - उभयथा छन्दसि इति वचनात् ।

२६ - २६ - अन्ये अपि धातुप्रत्ययाः उभयथा छन्दसि दृश्यन्ते ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP