संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|दैवज्ञ वल्लभा| शत्रुगमागम दैवज्ञ वल्लभा प्रश्नावतार शुभाऽशुभ लाभाऽलाभ सामान्यगमाऽऽगम शत्रुगमागम प्रवासचिन्ता जयपराजय रोगशुभ नष्टलाभाऽलाभ मनोमुष्टिचिन्ता वृष्टिनिर्णय विवाहविचार स्त्रीपुंजन्म प्रकीर्ण लग्नचिन्ता दैवज्ञ वल्लभा - शत्रुगमागम दैवज्ञ वल्लभा म्हणजे ज्योतिषशास्त्रासंबंधी वराहमिहीराने लिहीलेला एक अत्यंत उपयुक्त ग्रंथ. Tags : daivadnya vallabhajyotishavarahamihirज्योतिषदैवज्ञ वल्लभावराहमिहिर शत्रुगमागम Translation - भाषांतर पापै रिपुस्थैर्यदि वा सुतस्थैर्निवर्तते वर्त्मत एव शत्रुः।चतुर्थगैरन्तिकसंगतोऽपि पराङ्मुखो गच्छति भग्नसैन्यः ॥१॥चतुर्थगैरलिमीनकर्कटैः पराजयो भवति शुभैर्विलोकनात्।चतुष्पदैः पुनरिह तुर्यवर्तिभिः पलायते नियतमरातिरागतः ॥२॥चरोदये भवति यदा शुभग्रहस्तदा भृशं जनयति यायिनां शुभम्।चरोदये त्वशुभसमन्विते शुभं स्थिरोदये भवति शुभं व्यवस्थया ॥३॥स्थिरे शशांके चरराशिलग्ने नवांशके वाऽस्यरिपुस्तदैति।चरे शशांके स्थिरराशिलग्ने नवांशके तस्य तु वा गमः स्यात् ॥४॥शीतगौ द्वितनुराशिसंस्थते लग्नतामुपगतो यदि स्थिरः।शत्रुरेत्य विनिवर्ततेऽरिभे ज्ञेज्तशुक्रसहिते विनश्यति ॥५॥लग्ने स्थिरे गुरुशनैश्चरदृष्टिदृष्टे शत्रोर्नवा गमनमागमनं न वा स्यात्।पापास्त्रिपंचरिपुगा रिपुसंगमाय तुर्ये स्थिताः पुनररातिनिवर्तनाय ॥६॥चन्द्रश्चरे द्वितनुलग्नमथो पथोऽर्धमागत्यगच्छति रिपुर्द्वितनौ च चन्द्रे।लग्ने चरे रिपुरुपैति बलद्वयेन पापेक्षणाद्भवति तस्य पराजयोऽपि ॥७॥चन्द्रार्कौ यदि हिबुके स्थितौ भवेतामत्युग्रं न हि परचक्रमभ्युपैति।आक्रान्तं गुरुबुधभार्गवैश्चतुर्थं स्थानं चेत्त्वरितमुपैत्यरिस्तदानीम् ॥८॥सिंहाजकोदंडवृषा भवन्ति विलग्नगा वापि चतुर्थगा वा।ग्रहेण युक्ता यदि वा वियुक्ता ध्रुवं तदा तिष्ठति नैव शत्रुः ॥९॥रवौ गुरौ वा स्थिरलग्नगामिनि स्थितो रिपुः स्वाश्रम एव निश्चलः।रवौ गुरौ वाथ चरोदयस्थिते वदेदरातेरचिरात्समागमम् ॥१०॥सुराचार्यदेवद्विषन्मन्त्रिणौ द्वौ द्वितीये तृतीये यथा वा तथा वा।तदा क्षिप्रमायात्यरातिः स्थिरस्थैर्न लग्नेशधर्मेशकर्मेशभेशैः ॥११॥यावत्संख्यं भवति रजनीनाथगेहं विलग्ना--न्नैकोऽपिस्यान्नियतमनयोर्मध्यवर्ती ग्रहश्चेत्।तावत्संख्यैरपि गतदिनैः शत्रुरागच्छतीतिज्योतिर्विद्याविपुलगणकग्रामणीरुद्गृणाति ॥१२॥ N/A References : N/A Last Updated : January 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP