संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|दैवज्ञ वल्लभा| प्रश्नावतार दैवज्ञ वल्लभा प्रश्नावतार शुभाऽशुभ लाभाऽलाभ सामान्यगमाऽऽगम शत्रुगमागम प्रवासचिन्ता जयपराजय रोगशुभ नष्टलाभाऽलाभ मनोमुष्टिचिन्ता वृष्टिनिर्णय विवाहविचार स्त्रीपुंजन्म प्रकीर्ण लग्नचिन्ता दैवज्ञ वल्लभा - प्रश्नावतार दैवज्ञ वल्लभा म्हणजे ज्योतिषशास्त्रासंबंधी वराहमिहीराने लिहीलेला एक अत्यंत उपयुक्त ग्रंथ. Tags : daivadnya vallabhajyotishavarahamihirज्योतिषदैवज्ञ वल्लभावराहमिहिर प्रश्नावतार Translation - भाषांतर नत्वोद्गिरन्तमनलं भैरवमद्वैतमीश्वरं नृहरिम्।वराहेणैषा क्रियते प्रश्ने दैवज्ञवल्लभारचना ॥१॥दीप्ताद्यं दशभेदं व्योमचराणां निरूप्य भावफलम्।पृष्टो यद्यत्कथयति शुभाशुभं तत्तदन्यथा नोक्तम् ॥२॥दीप्तो दीनः स्वस्थो मुदितः सुप्तः प्रपीडितो मुषितः।परिहीयमानवीर्यः प्रवृद्धवीर्योऽधिवीर्यश्च ॥३॥स्वोच्चे दीप्तो नीचे दीनः स्वगृहे व्यवस्थितः स्वस्थः।मुदितो मित्रगृहस्थो रिपुगेहस्थो भवेत्सुप्तः ॥४॥अन्यैर्विजितो युद्धे निपीडितोऽस्तंगतो मुषितः।परिहीयमानवीर्यो नीचाभिमुखं प्रसर्पश्च ॥५॥गच्छन् स्वोच्चाभिमुखं प्रवृधवीर्यः समाख्यातः।शुभवर्गस्थः खेटोऽधिकवीर्यो विपुलरश्मिश्च ॥६॥दीप्ते सिद्धिरनुत्तमा नरपतेर्दीने च दैन्यागमःस्वस्थे स्वे मनसि स्थितं च भवति श्रीकीर्तिसौख्यादिकम्।आमोदो मुदिते यथेप्सितफलप्राप्तिः प्रसुप्ते विप--त्पीडाशत्रुकृता प्रपीडिततनौ मोषं गतेऽर्थक्षयः ॥७॥भवति प्रवृद्धवीर्ये गजतुरंगसुवर्णभूलाभः।तद्वदधिवीर्ययुक्ते शक्तित्रयसंपदादिबाहुल्यम् ॥८॥पुष्पैः फलैः कनकरत्नयुतैः स्वभूमौनक्षत्रजातिसहितं ग्रहराशिचक्रम्।श्रद्धां अभ्यर्च्यं भक्तिभरबंधुकंधराग्रःविधाय निजचेतसि निर्विकल्पे ॥९॥प्रातः पुमान्विहितदेवगुरुप्रणामः पाणौवहन् कुसुमरत्नफलाक्षताश्च।सत्कृत्य दैवविदमादरमादधानःपृच्छेत्सकृच्छुभमनाः शुभदिङ्मुखस्थः ॥१०॥प्रश्नाक्षरैरुदयहेतुभिरुल्लसद्भिर्बाह्यस्थितैश्चशकुनैरधिगम्य सम्यक।प्रष्टुः शुभं च यदि वाप्यशुभं प्रयत्नात्तत्कालजंतदिह दैवविदाऽभिधेयम् ॥११॥फलभरकुसुमाभिरामभूमिरुहभुवि गोमयपुष्पतोयवत्याम्।चरणसुखकृति प्रपृच्छतां स्यादभिमतसिद्धिरसंशयेन पुंसाम् ॥१२॥दृक्चेतसोः सुखकरी यदि भूमिरस्तिमांगल्यवस्तुविषये शुभदर्शने चेत्।प्रच्छाविधौ शुभमुपस्थितमादरेणतत्रापि वाच्यमिति वक्ति मयो मणित्थः ॥१३॥ N/A References : N/A Last Updated : January 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP