TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

लघुसिद्धान्तकौमुदी - भाग ११

‘लघुसिद्धान्तकौमुदी’ पाणिनीय संस्कृत व्याकरणाची एक (अष्टाध्यायी) परम्परागत प्रवेशिका आहे.
A Complete introduction to Panini Sutras for the use of beginners.


रक्ताद्यर्थकाः
अथ रक्ताद्यर्थकाः

तेन रक्तं रागात्॥ लसक_१०३६ = पा_४,२.१॥
अण् स्यात्। रज्यते ऽनेनेति रागः। काषायेण रक्तं वस्त्रं काषायम्॥

नक्षत्रेण युक्तः कालः॥ लसक_१०३७ = पा_४,२.३॥
अण् स्यात्। (तिष्यपुष्ययोर्नक्षत्राणि यलोप इति वाच्यम्)। पुष्येण युक्तं पौषमहः॥

लुबविशेषे॥ लसक_१०३८ = पा_४,२.४॥
पूर्वेण विहितस्य लुप् स्यात् षष्टिदण्डात्मकस्य कालस्यावान्तरविशेषश्चेन्न गम्यते। अद्य पुष्यः॥

दृष्टं साम॥ लसक_१०३९ = पा_४,२.७॥
तेनेत्येव। वसिष्ठेन दृष्टं वासिष्ठं साम॥

वामदेवाड्ड्यड्ड्यौ॥ लसक_१०४० = पा_४,२.९॥
वामदेवेन दृष्टं साम वामदेव्यम्॥

परिवृतो रथः॥ लसक_१०४१ = पा_४,२.१०॥
अस्मिन्नर्थे ऽण् प्रत्ययो भवति। वस्त्रेण परिवृतो वास्त्रो रथः॥

तत्रोद्धृतममत्रेभ्यः॥ लसक_१०४२ = पा_४,२.१४॥
शरावे उद्धृतः शाराव ओदनः॥

संस्कृतं भक्षाः॥ लसक_१०४३ = पा_४,२.१६॥
सप्तम्यन्तादण् स्यात्संस्कृतेर्ऽथे यत्संस्कृतं भक्षाश्चेत्ते स्युः। भ्राष्ट्रेषु संस्कृता भ्राष्ट्रा यवाः॥

सास्य देवता॥ लसक_१०४४ = पा_४,२.२४॥
इन्द्रो देवतास्येति ऐन्द्रं हविः। पाशुपतम्। बार्हस्पत्यम्॥

शुक्राद्घन्॥ लसक_१०४५ = पा_४,२.२६॥
शुक्रियम्॥

सोमाट्ट्यण्॥ लसक_१०४६ = पा_४,२.३०॥
सौम्यम्॥

वाय्वृतुपित्रुषसो यत्॥ लसक_१०४७ = पा_४,२.३१॥
वायव्यम्। ऋतव्यम्॥

रीङ् ऋतः॥ लसक_१०४८ = पा_७,४.२७॥
अकृद्यकारे असार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य रीङादेशः। यस्येति च। पित्र्यम्। उषस्यम्॥

पितृव्यमातुलमातामहपितामहाः॥ लसक_१०४९ = पा_४,२.३६॥
एते निपात्यन्ते। पितुर्भ्राता पितृव्यः। मातुर्भ्राता मातुलः। मातुः पिता मातामहः। पितुः पिता पितामहः॥

तस्य समूहः॥ लसक_१०५० = पा_४,२.३७॥
काकानां समूहः काकम्॥

भिक्षादिभ्यो ऽण्॥ लसक_१०५१ = पा_६,४.१४६॥
भिक्षाणां समूहो भैक्षम्। गर्भिणीनां समूहो गार्भिणम्। इह (भस्याढे तद्धिते)। इति पुंवद्भावे कृते - .

इनण्यनपत्ये॥ लसक_१०५२ = पा_४,२.३७॥
अनपत्यार्थे ऽणि परे इन् प्रकृत्या स्यात्। तेन नस्तद्धित इति टिलोपो न। युवतीनां समूहो यौवनम्॥

ग्रामजनबन्धुभ्यस्तल्॥ लसक_१०५३ = पा_४,२.४३॥
तलन्तं स्त्रियाम्। ग्रमता। जनता। बन्धुता। (गजसहायाभ्यां चेति वक्तव्यम्)। गजता। सहायता। (अह्नः खः क्रतौ)। अहीनः॥

अचित्तहस्तिधेनोष्ठक्॥ लसक_१०५४ = पा_४,२.४७॥

इसुसुक्तान्तात्कः॥ लसक_१०५५ = पा_७,३.५१॥
इस् उस् उक्तान्तात्परस्य ठस्य कः। साक्तुकम्। हास्तिकम्। धैनुकम्॥

तदधीते तद्वेद॥ लसक_१०५६ = पा_४,२.५९॥

न य्वाभ्याम् पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्॥ लसक_१०५७ = पा_७,३.३॥
पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः किंतु ताभ्यां पूर्वौ क्रमादैजावागमौ स्तः/ व्याकरणमधीते वेद वा वैयाकरणः॥

क्रमादिभ्यो वुन्॥ लसक_१०५८ = पा_४,२.६१॥
क्रमकः। पदकः। शिक्षकः। मीमांसकः॥

इति रक्ताद्यर्थकाः॥ ३॥
*
अथ चातुरर्थिकाः

तदस्मिन्नस्तीति देशे तन्नाम्नि॥ लसक_१०५९ = पा_४,२.६७॥
उदुम्बराः सन्त्यस्मिन्देशे औदुम्बरो देशः॥

तेन निर्वृत्तम्॥ लसक_१०६० = पा_४,२.६८॥
कुशाम्बेन निर्वृत्ता नगरी कौशाम्बी॥

तस्य निवासः॥ लसक_१०६१ = पा_४,२.६९॥
शिबीनां निवासो देशः शैबः॥

अदूरभवश्च॥ लसक_१०६२ = पा_४,२.७०॥
विदिशाया अदूरभवं नगरं वैदिशम्॥

जनपदे लुप्॥ लसक_१०६३ = पा_१,२.५१॥
जनपदे वाच्ये चातुरर्थिकस्य लुप्॥

लुपि युक्तवद्व्यक्तिवचने॥ लसक_१०६४ = पा_१,२.५१॥
लुपि सति प्रकृतिवल्लिङ्गवचने स्तः। पञ्चालानां निवासो जनपदः पञ्चालाः/ कुरवः। अङ्गाः/ वङ्गाः। कलिङ्गाः॥

वरणादिभ्यश्च॥ लसक_१०६५ = पा_४,२.८२॥
अजनपदार्थ आरम्भः। वरणानामदूरभवं नगरं वरणाः॥

कुमुदनडवेतसेभ्यो ड्मतुप्॥ लसक_१०६६ = पा_४,२.८७॥

झयः॥ लसक_१०६७ = पा_८,२.१०॥
झयन्तान्मतोर्मस्य वः। कुमुद्वान्। नड्वान्॥

मादुपधायाश्च मतोर्वो ऽयवादिभ्यः॥ लसक_१०६८ = पा_८,२.९॥
मवर्णावर्णान्तान्मवर्णावर्णोपधाच्च यवादिवर्जितात्परस्य मतोर्मस्य वः। वेतस्वान्॥

नडशादाड्ड्वलच्॥ लसक_१०६९ = पा_४,२.८८॥
नड्वलः। शाद्वलः॥

शिखाया वलच्॥ लसक_१०७० = पा_४,२.८९॥
शिखावलः॥

इति चातुरर्थिकाः॥ ४॥
*
अथ शैषिकाः

शेषे॥ लसक_१०७१ = पा_४,१.९२॥
अपत्यादिचतुरर्थ्यन्तादन्योर्ऽथः शेषस्तत्राणादयः स्युः। चक्षुषा गृह्यते चाक्षुषं रूपम्। श्रावणः शब्दः। औपनिषदः पुरुषः। दृषदि पिष्टा दार्षदाः सक्तवः। चतुर्भिरुह्यं चातुरं शकटम्। चतुर्दश्यां दृश्यते चातुर्दशं रक्षः। "तस्य विकारः&८२१७॑ इत्यतः प्राक् शेषाधिकारः॥

राष्ट्रावारपाराद्घखौ॥ लसक_१०७२ = पा_४,२.९३॥
आभ्यां क्रमाद् घखौ स्तः शेषे। राष्ट्रे जातादिः राष्ट्रियः/ अवारपारीणः/ (अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम्)। अवारीणः/ पारीणः/ पारावारीणः/ इह प्रकृतिविशेषाद् घादयष्ट्युट्युलन्ताः प्रत्यया उच्यन्ते तेषां जातादयोर्ऽथविशेषाः समर्थ विभक्तयश्च वक्ष्यन्ते॥

ग्रामाद्यखञौ॥ लसक_१०७३ = पा_४,२.९४॥
ग्राम्यः। ग्रामीणः॥

नद्यादिभ्यो ढक्॥ लसक_१०७४ = पा_४,२.९७॥
नादेयम्। माहेयम्। वाराणसेयम्॥

दक्षिणापश्चात्पुरसस्त्यक्॥ लसक_१०७५ = पा_४,२.९८॥
दाक्षिणात्यः। पाश्चात्यः। पौरस्त्यः॥

द्युप्रागपागुदक्प्रतीचो यत्॥ लसक_१०७६ = पा_४,२.१०१॥
दिव्यम्। प्राच्यम्। अपाच्यम्। उदीच्यम्। प्रतीच्यम्॥

अव्ययात्त्यप्॥ लसक_१०७७ = पा_४,२.१०४॥
(अमेहक्वतसित्रेभ्य एव)। अमात्यः। इहत्यः। क्वत्यः। ततस्त्यः। तत्रत्यः। (त्यब्नेर्ध्रुव इति वक्तव्यम्)। नित्यः॥

वृद्धिर्यस्याचामादिस्तद्वृद्धम्॥ लसक_१०७८ = पा_१,१.७३॥
यस्य समुदायस्याचां मध्ये आदिर्वृद्धिस्तद्वृद्धसंज्ञं स्यात्॥

त्यदादीनि च॥ लसक_१०७९ = पा_१,१.७४॥
वृद्धसंज्ञानि स्युः॥

वृद्धाच्छः॥ लसक_१०८० = पा_४,२.११४॥
शालीयः। मालीयः। तदीयः। (वा नामधेयस्य वृद्धसंज्ञा वक्तव्या)। देवदत्तीयः, दैवदत्तः॥

गहादिभ्यश्च॥ लसक_१०८१ = पा_४,२.१३८॥
गहीयः॥

युष्मदस्मदोरन्यतरस्यां खञ् च॥ लसक_१०८२ = पा_४,३.१॥
चाच्छः। पक्षे ऽण्। युवयोर्युष्माकं युष्मदीयः, अस्मदीयः॥

तस्मिन्नणि च युष्माकास्माकौ॥ लसक_१०८३ = पा_४,३.२॥
युष्मदस्मदोरेतावादेशौ स्तः खञ्यणि च। यौष्माकीणः। आस्माकीनः। यौष्माकः। आस्माकः॥

तवकममकावेकवचने॥ लसक_१०८४ = पा_४,३.३॥
एकार्थवाचिनोर्युष्मदस्मदोस्तवकममकौ स्तः खञि अणि च। तावकीनः। तावकः। मामकीनः। मामकः। छे तु - .

प्रत्ययोत्तरपदयोश्च ॥ लसक_१०८५ = पा_७,२.९८॥
मपर्यन्तयोरेतयोरेकार्थवाचिनोस्त्वमौ स्तः प्रत्यये उत्तरपदे च परतः। त्वदीयः। मदीयः। त्वत्पुत्रः। मत्पुत्रः॥

मध्यान्मः॥ लसक_१०८६ = पा_४,३.८॥
मध्यमः॥

कालाट्ठञ्॥ लसक_१०८७ = पा_४,३.११॥
कालवाचिभ्यष्ठञ् स्यात्। कालिकम्। मासिकम्। सांवत्सरिकम्। (अव्ययानां भमात्रे टिलोपः)। सायम्प्रातिकः। पौनः पुनिकः॥

प्रावृष एण्यः॥ लसक_१०८८ = पा_४,३.१७॥
प्रावृषेण्यः॥

सायञ्चिरम्प्राह्णेप्रगे ऽव्ययेभ्यष्ट्युट्युलौ तुट् च॥ लसक_१०८९ = पा_४,३.२३॥
सायमित्यादिभ्यश्चतुर्भ्यो ऽव्ययेभ्यश्च कालवाचिभ्यष्ट्युट्युलौ स्तस्तयोस्तुट् च। सायन्तनम्। चिरन्तनम्। प्राह्णे प्रगे अनयोरेदन्तत्वं निपात्यते। प्राह्णेतनम्। प्रगेतनम्। दोषातनम्॥

तत्र जातः॥ लसक_१०९० = पा_४,३.२५॥
सप्तमीसमर्थाज्जात इत्यर्थे ऽणादयो घादयश्च स्युः। स्रुग्घ्ने जातः स्रौग्घ्नः। उत्से जात औत्सः। राष्ट्रे जातो राष्ट्रियः। अवारपारे जातः अवारपारीणः, इत्यादि//

प्रावृषष्ठप्॥ लसक_१०९१ = पा_४,३.२६॥
एण्यापवादः। प्रावृषिकः॥

प्रायभवः॥ लसक_१०९२ = पा_४,३.३९॥
तत्रेत्येव। स्रुग्घ्ने प्रायेण बाहुल्येन भवति स्रौग्घ्नः॥

सम्भूते॥ लसक_१०९३ = पा_४,३.४१॥
स्रुग्घ्ने संभवति स्रौग्घ्नः॥

कोशाड्ढञ्॥ लसक_१०९४ = पा_४,३.४२॥
कौशेयम् वस्त्रम्॥

तत्र भवः॥ लसक_१०९५ = पा_४,३.५३॥
स्रुग्घ्ने भवः स्रौग्घ्नः। औत्सः। राष्ट्रियः॥

दिगादिभ्यो यत्॥ लसक_१०९६ = पा_४,३.५४॥
दिश्यम्। वर्ग्यम्॥

शरीरावयवाच्च॥ लसक_१०९७ = पा_४,३.५५॥
दन्त्यम्। कण्ठ्यम्। (अध्यात्मादेष्ठञिष्यते) अध्यात्मं भवमाध्यात्मिकम्॥

अनुशतिकादीनां च॥ लसक_१०९८ = पा_७,३.२०॥
एषामुभयपदवृद्धिर्ञिति णिति किति च/ आधिदैविकम्/ आधिभौतिकम्/ ऐहलौकिकम्/ पारलोकिकम्/ आकृतिगणो ऽयम्॥

जिह्वामूलाङ्गुलेश्छः॥ लसक_१०९९ = पा_४,३.६२॥
जिह्वामूलीयम्। अङ्गुलीयम्॥

वर्गान्ताच्च॥ लसक_११०० = पा_४,३.६३॥
कवर्गीयम्॥

तत आगतः॥ लसक_११०१ = पा_४,३.७४॥
स्रुग्घ्नादागतः स्रौग्घ्नः॥

ठगायस्थानेभ्यः॥ लसक_११०२ = पा_४,३.७५॥
शुल्कशालाया आगतः शौल्कशालिकः॥

विद्यायोनिसंबन्धेभ्यो वुञ्॥ लसक_११०३ = पा_४,३.७७॥
औपाध्यायकः। पैतामहकः॥

हेतुमनुष्येभ्यो ऽन्यतरस्यां रूप्यः॥ लसक_११०४ = पा_४,३.८१॥
समादागतं समरूप्यम्। पक्षे - गहादित्वाच्छः। समीयम्। विषमीयम्। देवदत्तरूप्यम्। दैवदत्तम्॥

मयट् च॥ लसक_११०५ = पा_४,३.८२॥
सममयम्। देवदत्तमयम्॥

प्रभवति॥ लसक_११०६ = पा_४,३.८३॥
हिमवतः प्रभवति हैमवती गङ्गा॥

तद्गच्छति पथिदूतयोः॥ लसक_११०७ = पा_४,३.८५॥
स्रुग्घ्नं गच्छति स्रौग्ध्नः पन्था दूतो वा॥

अभिनिष्क्रामति द्वारम्॥ लसक_११०८ = पा_४,३.८६॥
स्रुग्घ्नमभिनिष्क्रामति स्रौग्घ्नं कान्यकुब्जद्वारम्॥

अधिकृत्य कृते ग्रन्थे॥ लसक_११०९ = पा_४,३.८७॥
शारीरकमधिकृत्य कृतो ग्रन्थः शारीरकीयः॥

सो ऽस्य निवासः॥ लसक_१११० = पा_४,३.८९॥
स्रुग्घ्नो निवासो ऽस्य स्रौग्घ्नः॥

तेन प्रोक्तम्॥ लसक_११११ = पा_४,३.१०१॥
पाणिनिना प्रोक्तं पाणिनीयम्॥

तस्येदम्॥ लसक_१११२ = पा_४,३.१२०॥
उपगोरिदम् औपगवम्॥

इति शैषिकाः॥ ५॥
*
अथ विकारार्थकाः

तस्य विकारः॥ लसक_१११३ = पा_४,३.१३४॥
(अश्मनो विकारे टिलोपो वक्तव्यः)। अश्मनो विकारः आश्मः। भास्मनः। मार्त्तिकः॥

अवयवे च प्राण्योषधिवृक्षेभ्यः॥ लसक_१११४ = पा_४,३.१३५॥
चाद्विकारे। मयूरस्यावयवो विकारो वा मायूरः। मौर्वं काण्डं भस्म वा। पैप्पलम्॥

मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः॥ लसक_१११५ = पा_४,३.१४३॥
प्रकृतिमात्रान्मयड्वा स्यात् विकारावयवयोः/ अश्ममयम्, आश्मनम्/ अभक्ष्येत्यादि किम्? मौद्गः सूपः/ कार्पासमाच्छादनम्॥

नित्यं वृद्धशरादिभ्यः॥ लसक_१११६ = पा_४,३.१४४॥
आम्रमयम्। शरमयम्॥

गोश्च पुरीषे॥ लसक_१११७ = पा_४,३.१४५॥
गोः पुरीषं गोमयम्॥

गोपयसोर्यत्॥ लसक_१११८ = पा_४,३.१६०॥
गव्यम्। पयस्यम्॥

इति विकारार्थाः। (प्राग्दीव्यतीयाः)॥ ६॥
*
अथ ठगधिकारः

प्राग्वहतेष्ठक्॥ लसक_१११९ = पा_४,४.१॥
तद्वहतीत्यतः प्राक् ठगधिक्रियते॥

तेन दीव्यति खनति जयति जितम्॥ लसक_११२० = पा_४,४.२॥
अक्षैर्दीव्यति खनति जयति जितो वा आक्षिकः॥

संस्कृतम्॥ लसक_११२१ = पा_४,४.३॥
दध्ना संस्कृतम् दाधिकम्। मारीचिकम्॥

तरति॥ लसक_११२२ = पा_४,४.५॥
तेनेत्येव। उडुपेन तरति औडुपिकः॥

चरति॥ लसक_११२३ = पा_४,४.८॥
तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक् स्यात्। हस्तिना चरति हास्तिकः। दध्ना चरति दाधिकः॥

संसृष्टे॥ लसक_११२४ = पा_४,४.२२॥
दध्ना संसृष्टं दाधिकम्॥

उञ्छति॥ लसक_११२५ = पा_४,४.३२॥
बदराण्युञ्छति बादरिकः॥

रक्षति॥ लसक_११२६ = पा_४,४.३३॥
समाजं रक्षति सामाजिकः॥

शब्ददर्दुरं करोति॥ लसक_११२७ = पा_४,४.३४॥
शब्दं करोति शाब्दिकः। दर्दुरं करोति दार्दुरिकः॥

धर्मं चरति॥ लसक_११२८ = पा_४,४.४१॥
धार्मिकः (अधर्माच्चेति वक्तव्यम्)। आधर्मिकः॥

शिल्पम्॥ लसक_११२९ = पा_४,४.५५॥
मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः॥

प्रहरणम्॥ लसक_११३० = पा_४,४.५७॥
तदस्येत्येव। असिः प्रहरणमस्य आसिकः। धानुष्कः॥

शीलम्॥ लसक_११३१ = पा_४,४.६१॥
अपूपभक्षणं शीलमस्य आपूपिकः॥

निकटे वसति॥ लसक_११३२ = पा_४,४.७३॥
नैकटिको भिक्षुकः॥

इति ठगधिकारः। (प्राग्वहतीयाः)॥ ७॥
*
अथ यदधिकारः

प्राग्घिताद्यत्॥ लसक_११३३ = पा_४,४.७५॥
तस्मै हितमित्यतः प्राग् यदधिक्रियते॥

तद्वहति रथयुगप्रासङ्गम्॥ लसक_११३४ = पा_४,४.७६॥
रथं वहति रथ्यः। युग्यः। प्रासङ्ग्यः॥

धुरो यड्ढकौ॥ लसक_११३५ = पा_४,४.७७॥
हलि चेति दीर्घे प्राप्ते - .

न भकुर्छुराम्॥ लसक_११३६ = पा_८,२.७९॥
भस्य कुर्छुरोश्चोपधाया इको दीर्घो न स्यात्। धुर्यः। धौरेयः॥

नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसंमितेषु॥ लसक_११३७ = पा_४,४.९१॥
नावा तार्यं नाव्यं जलम्। वयसा तुल्यो वयस्यः। धर्मेण प्राप्यं धर्म्यम्। विषेण वध्यो विष्यः। मूलेन आनाम्यं मूल्यम्। मूलेन समो मूल्यः। सीतया समितं सीत्यं क्षेत्रम्। तुलया संमितम् तुल्यम्॥

तत्र साधुः॥ लसक_११३७ = पा_४,४.९८॥
अग्रे साधुः - अग्र्यः। सामसु साधुः सामन्यः। ये चाभावकर्मणोरिति प्रकृति भावः। कर्मण्यः। शरण्यः॥

सभाया यः॥ लसक_११३९ = पा_४,४.१०५॥
सभ्यः॥

इति यतो ऽवधिः। (प्राग्घितीयाः)॥ ८॥
*
अथ छयतोरधिकारः

प्राक् क्रीताच्छः॥ लसक_११४० = पा_५,१.१॥
तेन क्रीतमित्यतः प्राक् छो ऽधिक्रियते॥

उगवादिभ्यो यत्॥ लसक_११४१ = पा_५,१.२॥
प्राक् क्रीतादित्येव। उवर्णान्ताद्गवादिभ्यश्च यत् स्यात्। छस्यापवादः। शङ्कवे हितं शङ्कव्यं दारु। गव्यम्। (नाभि नभं च)। नभ्यो ऽक्षः। नभ्यमञ्जनम्॥
तस्मै हितम्॥ लसक_११४२ = पा_५,१.५॥
वत्सेभ्यो हितो वत्सीयो गोधुक्॥

शरीरावयवाद्यत्॥ लसक_११४३ = पा_५,१.६॥
दन्त्यम्। कण्ठ्यम्। नस्यम्॥

आत्मन्विश्वजनभोगोत्तरपदात्खः॥ लसक_११४४ = पा_५,१.९॥

आत्माध्वानौ खे॥ लसक_११४५ = पा_६,४.१६९॥
एतौ खे प्रकृत्या स्तः। आत्मने हितम् आत्मनीनम्। विश्वजनीनम्। मातृभोगीणः॥

इति छयतोरवधिः। (प्राक्क्रीतीयाः)॥ ९॥
*
अथ ठञधिकारः

प्राग्वतेष्ठञ्॥ लसक_११४६ = पा_५,१.१८॥
तेन तुल्यमिति वतिं वक्ष्यति, ततः प्राक् ठञधिक्रियते॥

तेन क्रीतम्॥ लसक_११४७ = पा_५,१.३७॥
सप्तत्या क्रीतं साप्ततिकम्। प्रास्थिकम्॥

सर्वभूमिपृथिवीभ्यामणञौ॥ लसक_११४८ = पा_५,१.४१॥

तस्येश्वरः॥ लसक_११४९ = पा_५,१.४२॥
सर्वभूमिपृथिवीभ्यामणञौ स्तः। अनुशतिकादीनां च। सर्वभूमेरीश्वरः सार्वभौमः। पार्थिवः॥

पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्॥ लसक_११५० = पा_५,१.५९॥
एते रूढिशब्दा निपात्यन्ते॥

तदर्हति॥ लसक_११५१ = पा_५,१.६३॥
लब्धुं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठञादयः स्युः। श्वेतच्छत्रमर्हति श्वैतच्छत्रिकः॥

दण्डादिभ्यो यत्॥ लसक_११५२ = पा_५,१.६६॥
एभ्यो यत् स्यात्। दण्डमर्हति दण्ड्यः। अर्घ्यः। वध्यः॥

तेन निर्वृत्तम्॥ लसक_११५३ = पा_५,१.७९॥
अह्ना निर्वृत्तम् आह्निकम्॥

इति ठञो ऽवधिः। (प्राग्वतीयाः)॥ १०॥
*
अथ त्वतलोरधिकारः

तेन तुल्यं क्रिया चेद्वतिः॥ लसक_११५४ = पा_५,१.११५॥
ब्राह्मणेन तुल्यं ब्राह्मणवत् अधीते। क्रिया चेदिति किम् ? गुणतुल्ये मा भूत्। पुत्रेण तुल्यः स्थूलः॥

तत्र तस्येव॥ लसक_११५५ = पा_५,१.११६॥
मथुरायामिव मथुरावत् स्रुग्ध्ने प्रकारः। चैत्रस्येव चैत्रवन्मैत्रस्य गावः॥

तस्य भावस्त्वतलौ॥ लसक_११५६ = पा_५,१.११९॥
प्रकृतिजन्यबोधे प्रकारो भावः। गोर्भावो गोत्वम्। गोता। त्वान्तं क्लीबम्॥

आ च त्वात्॥ लसक_११५७ = पा_५,१.१२०॥
ब्रह्मणस्त्व इत्यतः प्राक् त्वतलावधिक्रियेते। अपवादैः सह समावेशार्थमिदम्। चकारो नञ्स्नञ्भ्यामपि समावेशार्थः। स्त्रिया भावः - स्त्रैणम्। स्त्रीत्वम्। स्त्रीता। पौस्नम्। पुंस्त्वम्। पुंस्ता॥

पृथ्वादिभ्य इमनिज्वा॥ लसक_११५८ = पा_५,१.१२२॥
वावचनमणादिसमावेशार्थम्॥

र ऋतो हलादेर्लघोः॥ लसक_११५९ = पा_६,४.१६१॥
हलादेर्लघोरृकारस्य रः स्यादिष्ठेयस्सु परतः। पृथुमृदुभृशकृशदृढपरिवृढा नामेव रत्वम्॥

टेः॥ लसक_११६० = पा_६,४.१५५॥
भस्य टेर्लोप इष्ठेमेयस्सु। पृथोर्भावः प्रथिमा - .

इगन्ताच्च लघुपूर्वात्॥ लसक_११६१ = पा_५,१.१३१॥
इगन्ताल्लघुपूर्वात् प्रातिपदिकाद्भावे ऽण् प्रत्ययः। पार्थवम्। म्रदिमा, मार्दवम्॥

वर्णदृढादिभ्यः ष्यञ्च॥ लसक_११६२ = पा_५,१.१२३॥
चादिमनिच्। शौक्ल्यम्। शुक्लिमा। दार्ढ्यम्। द्रढिमा॥

गुणवचनब्राह्मणादिभ्यः कर्मणि च॥ लसक_११६३ = पा_५,१.१२४॥
चाद्भावे। जडस्य भावः कर्म वा जाड्यम्। मूढस्य भावः कर्म वा मौढ्यम्। ब्राह्मण्यम्। आकृतिगणो ऽयम्॥

सख्युर्यः॥ लसक_११६४ = पा_५,१.१२६॥
सख्युर्भावः कर्म वा सख्यम्॥

कपिज्ञात्योर्ढक्॥ लसक_११६५ = पा_५,१.१२७॥
कापेयम्। ज्ञातेयम्।

पत्यन्तपुरोहितादिभ्यो यक्॥ लसक_११६६ = पा_५,१.१२८॥
सैनापत्यम्। पौरोहित्यम्॥

इति त्वतलोरधिकारः॥ ११॥
*
अथ भवनाद्यर्थकाः

धान्यानां भवने क्षेत्रे खञ्॥ लसक_११६७ = पा_५,२.१॥
भवत्यस्मिन्निति भवनम्। मुद्गानां भवनं क्षेत्रं मौद्गीनम्॥

व्रीहिशाल्योर्ढक्॥ लसक_११६८ = पा_५,२.२॥
व्रैहेयम्। शालेयम्॥

हैयङ्गवीनं संज्ञायाम्॥ लसक_११६९ = पा_५,२.२३॥
ह्योगोदोहशब्दस्य हियङ्गुरादेशः विकारार्थे खञ्च निपात्यते। दुह्यत इति दोहः क्षीरम्। ह्योगोदोहस्य विकारः - हैयङ्गवीनं नवनीतम्॥

तदस्य संजातं तारकादिभ्य इतच्॥ लसक_११७० = पा_५,२.३६॥
तारकाः संजाता अस्य तारकितं नभः। पण्डितः। आकृतिगणो ऽयम्॥

प्रमाणे द्वयसज्दघ्नञ्मात्रचः॥ लसक_११७१ = पा_५,२.३७॥
तदस्येत्यनुवर्तते। ऊरू प्रमाणमस्य - ऊरुद्वयसम्। ऊरुदघ्नम्। ऊरुमात्रम्॥

यत्तदेतेभ्यः परिमाणे वतुप्॥ लसक_११७२ = पा_५,२.३९॥
यत्परिमाणमस्य यावान्। तावान्। एतावान्॥

किमिदंभ्यां वो घः॥ लसक_११७३ = पा_५,२.४०॥
आभ्यां वतुप् स्याद् वकारस्य घश्च॥

इदंकिमोरीश्की॥ लसक_११७४ = पा_६,३.९०॥
दृग्दृशवतुषु इदम ईश् किमः किः। कियान्। इयान्॥

संख्याया अवयवे तयप्॥ लसक_११७५ = पा_५,२.३९॥
पञ्च अवयवा अस्य पञ्चतयम्॥

द्वित्रिभ्यां तयस्यायज्वा॥ लसक_११७६ = पा_५,२.४३॥
द्वयम्। द्वितयम्। त्रयम्। त्रितयम्॥

उभादुदात्तो नित्यम्॥ लसक_११७७ = पा_५,२.४४॥
उभशब्दात्तयपो ऽयच् स्यात् स चाद्युदात्तः। उभयम्॥

तस्य पूरणे डट्॥ लसक_११७८ = पा_५,२.४८॥
एकादशानां पूरणः एकादशः॥

नान्तादसंख्यादेर्मट्॥ लसक_११७९ = पा_५,२.४९॥
डटो मडागमः। पञ्चानां पूरणः पञ्चमः। नान्तात्किम् ? .

ति विंशतेर्डिति॥ लसक_११८० = पा_६,४.१४२॥
विंशतेर्भस्य तिशब्दस्य लोपो डिति परे। विंशः। असंख्यादेः किम् ? एकादशः॥

षट्कतिकतिपयचतुरां थुक्॥ लसक_११८१ = पा_५,२.५१॥
एषां थुगागमः स्याड्डटि/ षण्णां षष्ठः/ कतिथः/ कतिपयशब्दस्यासंख्यात्वे ऽप्यत एव ज्ञापकाड्डट्/ कतिपयथः/ चतुर्थः॥

द्वेस्तीयः॥ लसक_११८२ = पा_५,२.५४॥
डटो ऽपवादः। द्वयोः पूरणो द्वितीयः॥

त्रेः संप्रसारणं च॥ लसक_११८३ = पा_५,२.५५॥
तृतीयः॥

श्रोत्रियंश्छन्दो ऽधीते॥ लसक_११८४ = पा_५,२.८४॥
श्रोत्रियः। वेत्यनुवृत्तेश्छान्दसः॥

पूर्वादिनिः॥ लसक_११८५ = पा_५,२.८६॥
पूर्वं कृतमनेन पूर्वी॥

सपूर्वाच्च॥ लसक_११८६ = पा_५,२.८७॥
कृतपूर्वा॥

इष्टादिभ्यश्च॥ लसक_११८७ = पा_५,२.८८॥
इष्टमनेन इष्टी। अधीती॥

इति भवनाद्यर्थकाः॥ १२॥
*
अथ मत्वर्थीयाः

तदस्यास्त्यस्मिन्निति मतुप्॥ लसक_११८८ = पा_५,२.९४॥
गावो ऽस्यास्मिन्वा सन्ति गोमान्॥

तसौ मत्वर्थे॥ लसक_११८९ = पा_१,४.१९॥
तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे। गरुत्मान्। वसोः संप्रसारणं। विदुष्मान्। (गुणवचनेभ्यो मतुपो लुगिष्टः)। शुक्लो गुणो ऽस्यास्तीति शुक्लः पटः। कृष्णः॥

प्राणिस्थादातो लजन्यतरस्याम्॥ लसक_११९० = पा_५,२.९६॥
चूडालः। चूडावान्। प्राणिस्थात्किम् ? शिखावान्दीपः। प्राण्यङ्गादेव। मेधावान्॥

लोमादिपामादिपिच्छादिभ्यः शनेलचः॥ लसक_११९१ = पा_५,२.१००॥
लोमादिभ्यः शः। लोमशः। लोमवान्। रोमशः। रोमवान्। पामादिभ्यो नः। पामनः। (ग. सू.) अङ्गात्कल्याणे। अङ्गना। (ग. सू.) लक्ष्म्या अच्च। लक्ष्मणः। पिच्छादिभ्य इलच्। पिच्छिलः। पिच्छवान्॥

दन्त उन्नत उरच्॥ लसक_११९२ = पा_५,२.१०६॥
उन्नता दन्ताः सन्त्यस्य दन्तुरः॥

केशाद्वो ऽन्यतरस्याम्॥ लसक_११९३ = पा_५,२.१०९॥
केशवः। केशी। केशिकः। केशवान्। (अन्येभ्यो ऽपि दृश्यते)। मणिवः। (अर्णसो लोपश्च)। अर्णवः॥

अत इनिठनौ॥ लसक_११९४ = पा_५,२.११५॥
दण्डी। दण्डिकः॥

व्रीह्यादिभ्यश्च॥ लसक_११९५ = पा_५,२.११६॥
व्रीही। व्रीहिकः॥

अस्मायामेधास्रजो विनिः॥ लसक_११९६ = पा_५,२.१२१॥
यशस्वी। यशस्वान्। मायावी। मेधावी। स्रग्वी॥

वचो ग्मिनिः॥ लसक_११९७ = पा_५,२.१२४॥
वाग्ग्मी॥

अर्शआदिभ्यो ऽच्॥ लसक_११९८ = पा_५,२.१२७॥
अर्शो ऽस्य विद्यते अर्शसः। आकृतिगणो ऽयम्॥

अहंशुभमोर्युस्॥ लसक_११९९ = पा_५,२.१४०॥
अहंयुः अहङ्कारवान्। शुभंयुस्तु शुभान्वितः॥

इति मत्वर्थीयाः॥ १३॥
*
अथ प्राग्दिशीयाः

प्राग्दिशो विभक्तिः॥ लसक_१२०० = पा_५,३.१॥
दिक्छब्देभ्य इत्यतः प्राग्वक्ष्यमाणाः प्रत्यया विभक्तिसंज्ञाः स्युः॥

किंसर्वनामबहुभ्यो ऽद्व्यादिभ्यः॥ लसक_१२०१ = पा_५,३.२॥
किमः सर्वनाम्नो बहुशब्दाच्चेति प्राग्दिशो ऽधिक्रियते॥

पञ्चम्यास्तसिल्॥ लसक_१२०२ = पा_५,३.७॥
पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल् वा स्यात्॥

कु तिहोः॥ लसक_१२०३ = पा_७,२.१०४॥
किमः कुः स्यात्तादौ हादौ च विभक्तौ परतः। कुतः, कस्मात्॥

इदम इश्॥ लसक_१२०४ = पा_५,३.२॥
प्राग्दिशीये परे। इतः॥

अन्॥ लसक_१२०५ = पा_६,४.१६७॥
एतदः प्राग्दिशीये। अनेकाल्त्वात्सर्वादेशः। अतः। अमुतः। यतः। ततः। बहुतः। द्व्यादेस्तु द्वाभ्याम्॥

पर्यभिभ्यां च॥ लसक_१२०६ = पा_५,३.९॥
आभ्यां तसिल् स्यात्। परितः। सर्वत इत्यर्थः। अभितः। उभयत इत्यर्थः॥

सप्तम्यास्त्रल्॥ लसक_१२०७ = पा_५,३.१०॥
कुत्र। यत्र। तत्र। बहुत्र॥

इदमो हः॥ लसक_१२०८ = पा_५,३.११॥
त्रलो ऽपवादः। इह॥

किमो ऽत्॥ लसक_१२०९ = पा_५,३.१२॥
वाग्रहणमपकृष्यते। सप्तम्यन्तात्किमो ऽद्वा स्यात् पक्षे त्रल्॥

क्वाति॥ लसक_१२१० = पा_७,२.१०५॥
किमः क्वादेशः स्यादति। क्व। कुत्र॥

इतराभ्यो ऽपि दृश्यन्ते॥ लसक_१२११ = पा_५,३.१४॥
पञ्चमीसप्तमीतरविभक्त्यन्तादपि तसिलादयो दृश्यन्ते। दृशिग्रहणाद्भवदादियोग एव। स भवान्। ततो भवान्। तत्र भवान्। तम्भवन्तम्। ततो भवन्तम्। तत्र भवन्तम्। एवं दीर्घायुः, देवानाम्प्रियः, आयुष्मान्॥

सर्वैकान्यकिंयत्तदः काले दा॥ लसक_१२१२ = पा_५,३.१५॥
सप्तम्यन्तेभ्यः कालार्थेभ्यः स्वार्थे दा स्यात्॥

सर्वस्य सो ऽन्यतरस्यां दि॥ लसक_१२१३ = पा_५,३.६॥
दादौ प्राग्दिशीये सर्वस्य सो वा स्यात्। सर्वस्मिन् काले सदा सर्वदा। अन्यदा। कदा। यदा। तदा। काले किम् ? सर्वत्र देशे॥

इदमो र्हिल्॥ लसक_१२१४ = पा_५,३.१६॥
सप्तम्यन्तात् काल इत्येव॥

एतेतौ रथोः॥ लसक_१२१५ = पा_५,३.४॥
इदम्शब्दस्य एत इत् इत्यादेशौ स्तौ रेफादौ थकारादौ च प्राग्दिशीये परे/ अस्मिन् काले एतर्हि/ काले किम्? इह देशे॥

अनद्यतने र्हिलन्यतरस्याम्॥ लसक_१२१६ = पा_५,३.२१॥
कर्हि, कदा। यर्हि, यदा। तर्हि, तदा॥

एतदः॥ लसक_१२१७ = पा_५,३.५॥
एत इत् एतौ स्तौ रेफादौ थादौ च प्राग्दिशीये। एतस्मिन् काले एतर्हि॥

प्रकारवचने थाल्॥ लसक_१२१८ = पा_५,३.२३॥
प्रकारवृत्तिभ्यः किमादिभ्यस्थाल् स्यात् स्वार्थे। तेन प्रकारेण तथा। यथा॥

इदमस्थमुः॥ लसक_१२१९ = पा_५,३.२४॥
थालो ऽपवादः। (एतदो ऽपि वाच्यः)। अनेन एतेन वा प्रकारेण इत्थम्॥

किमश्च॥ लसक_१२२० = पा_५,३.२५॥
केन प्रकारेण कथम्॥

इति प्राग्दिशीयाः॥ १४॥
*
अथ प्रागिवीयाः

अतिशायने तमबिष्ठनौ॥ लसक_१२२१ = पा_५,३.५५॥
अतिशयविशिष्टार्थवृत्तेः स्वार्थ एतौ स्तः। अयमेषामतिशयेनाढ्यः आढ्यतमः। लघुतमः, लघिष्ठः॥

तिङश्च॥ लसक_१२२२ = पा_५,३.५६॥
तिङन्तादतिशये द्योत्ये तमप् स्यात्॥

तरप्तमपौ घः॥ लसक_१२२३ = पा_१,१.२२॥
एतौ घसंज्ञौ स्तः॥

किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे॥ लसक_१२२४ = पा_५,४.११॥
किम एदन्तात्तिङोऽव्ययाच्च यो घस्तदन्तादामुः स्यान्न तु द्रव्यप्रकर्षे। किन्तमाम्। प्राह्णेतमाम्। पचतिमाम्। उच्चैस्तमाम्। द्रव्यप्रकर्षे तु उच्चैस्तमस्तरुः॥

द्विवचनविभज्योपपदे तरबीयसुनौ॥ लसक_१२२५ = पा_५,३.५७॥
द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः। पूर्वयोरपवादः। अयमनयोरतिशयेन लघुः लघुतरो लघीयान्। उदीच्याः प्राच्येभ्यः पटुतराः पटीयांसः॥

प्रशस्यस्य श्रः॥ लसक_१२२६ = पा_५,३.६०॥
अस्य श्रादेशः स्यादजाद्योः परतः॥

प्रकृत्यैकाच्॥ लसक_१२२७ = पा_६,४.१६३॥
इष्ठादिष्वेकाच् प्रकृत्या स्यात्। श्रेष्ठः, श्रेयान्॥

ज्य च॥ लसक_१२२८ = पा_५,३.६१॥
प्रशस्यस्य ज्यादेशः स्यादिष्ठेयसोः। ज्येष्ठः॥

ज्यादादीयसः॥ लसक_१२२९ = पा_६,४.१६०॥
आदेः परस्य। ज्यायान्॥

बहोर्लोपो भू च बहोः॥ लसक_१२३० = पा_६,४.१५८॥
बहोः परयोरिमेयसोर्लोपः स्याद्बहोश्च भूरादेशः। भूमा। भूयान्॥

इष्ठस्य यिट् च॥ लसक_१२३१ = पा_६,४.१५९॥
बहोः परस्य इष्ठस्य लोपः स्याद् यिडागमश्च। भूयिष्ठः॥

विन्मतोर्लुक्॥ लसक_१२३२ = पा_५,३.६५॥
विनो मतुपश्च लुक् स्यादिष्ठेयसोः। अतिशयेन स्रग्वी स्रजिष्ठः। स्रजीयान्। अतिशयेन त्वग्वान् त्वचिष्ठः। त्वचीयान्॥

ईषदसमाप्तौ कल्पब्देश्यदेशीयरः॥ लसक_१२३३ = पा_५,३.६७॥
ईषदूनो विद्वान् विद्वत्कल्पः। विद्वद्देश्यः। विद्वद्देशीयः। पचतिकल्पम्॥

विभाषा सुपो बहुच् पुरस्तात्तु॥ लसक_१२३४ = पा_५,३.६८॥
ईषदसमाप्तिविशिष्टेर्ऽथे सुबन्ताद्बहुज्वा स्यात्स च प्रागेव न तु परतः। ईषदूनः पटुर्बहुपटुः। पटुकल्पः। सुपः किम् ? जयति कल्पम्॥

प्रगिवात्कः॥ लसक_१२३५ = पा_५,३.७०॥
इवे प्रतिकृतावित्यतः प्राक्काधिकारः॥

अव्ययसर्वनाम्नामकच् प्राक् टेः॥ लसक_१२३६ = पा_५,३.७१॥
कापवादः। तिङश्चेत्यनुवर्तते॥

अज्ञाते॥ लसक_१२३७ = पा_५,३.७३॥
कस्यायमश्वो ऽश्वकः/ उच्चकैः/ नीचकैः/ सर्वके। (ओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच्, अन्यत्र सुबन्तस्य)/ युष्मकाभिः। युवकयोः। त्वयका॥

कुत्सिते॥ लसक_१२३८ = पा_५,३.७४॥
कुत्सितो ऽश्वो ऽश्वकः॥

किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच्॥ लसक_१२३९ = पा_५,३.९२॥
अनयोः कतरो वैष्णवः। यतरः। ततरः॥

वा बहूनां जातिपरिप्रश्ने डतमच्॥ लसक_१२४० = पा_५,३.९३॥
जातिपरिप्रश्न इति प्रत्याख्यातमाकरे। बहूनां मध्ये एकस्य निर्धारणे डतमज्वा स्यात्। कतमो भवतां कठः। यतमः। ततमः। वाग्रहणमकजर्थम्। यकः। सकः॥

इति प्रागिवीयाः॥ १५॥
*
अथ स्वार्थिकाः

इवे प्रतिकृतौ॥ लसक_१२४१ = पा_५,३.९६॥
कन् स्यात्। अश्व इव प्रतिकृतिरश्वकः। (सर्वप्रातिपदिकेभ्यः स्वार्थे कन्)। अश्वकः॥

तत्प्रकृतवचने मयट्॥ लसक_१२४२ = पा_५,४.२१॥
प्राचुर्येण प्रस्तुतं प्रकृतम्, तस्य वचनं प्रतिपादनम्। भावे अधिकरणे वा ल्युट्। आद्ये प्रकृतमन्नमन्नमयम्। अपूपमयम्। द्वितीये तु अन्नमयो यज्ञः। अपूपमयं पर्व॥

प्रज्ञादिभ्यश्च॥ लसक_१२४३ = पा_५,४.३८॥
अण् स्यात्। प्रज्ञ एव प्राज्ञः। प्राज्ञी स्त्री। दैवतः। बान्धवः॥

बह्वल्पार्थाच्छस्कारकादन्यतरस्याम्॥ लसक_१२४४ = पा_५,४.४२॥
बहूनि ददाति बहुशः। अल्पशः। (आद्यादिभ्यस्तसेरुपसंख्यानम्)। आदौ आदितः। मध्यतः। अन्ततः। पृष्ठतः। पार्श्वतः। आकृतिगणो ऽयम्। स्वरेण, स्वरतः। वर्णतः॥

कृभ्वस्तियोगे संपद्यकर्तरि च्विः॥ लसक_१२४५ = पा_५,४.५०॥
(अभूततद्भाव इति वक्तव्यम्)/ विकारात्मतां प्राप्नुवत्यां प्रकृतौ वर्तमानाद्विकारशब्दात् स्वार्थे च्विर्वा स्यात्करोत्यादिभिर्योगे//

अस्य च्वौ॥ लसक_१२४६ = पा_७,३.३२॥
अवर्णस्य ईत्स्यात् च्वौ। वेर्लोपे च्व्यन्तत्वादव्ययत्वम्। अकृष्णः कृष्णः संपद्यते तं करोति कृष्णीकरोति। ब्रह्मीभवति। गङ्गीस्यात्। (अव्ययस्य च्वावीत्वं नेति वाच्यम्)। दोषाभूतमहः। दिवाभूता रात्रिः॥

विभाषा साति कार्त्स्न्ये॥ लसक_१२४७ = पा_५,४,५२॥
च्विविषये सातिर्वा स्यात्साकल्ये॥

सात्पदाद्योः॥ लसक_१२४८ = पा_८,३.१११॥
सस्य षत्वं न स्यात्। कृत्स्नं शस्त्रमग्निः संपद्यते ऽग्निसाद्भवति। दधि सिञ्चति॥

च्वौ च॥ लसक_१२४९ = पा_७,४.२६॥
च्वौ परे पूर्वस्य दीर्घः स्यात्। अग्नीभवति॥

अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच्॥ लसक_१२५० = पा_५,४.५७॥
द्व्यजेवावरं न्यूनं न तु ततो न्यूनमनेकाजिति यावत्। तादृशमर्धं यस्य तस्माड्डाच् स्यात् कृभ्वस्तिभिर्योगे / (डाचि विवक्षिते द्वे बहुलम्)। इति डाचि विवक्षिते द्वित्वम्। (नित्यमाम्रेडिते डाचीति वक्तव्यम्)। डाच्परं यदाम्रेडितं तस्मिन्परे पूर्वपरयोर्वर्णयोः पररूपं स्यात्। इति तकारपकारयोः पकारः। पटपटाकरोति। अव्यक्तानुकरणात्किम् ? ईषत्करोति। द्व्यजवरार्धात्किम् ? श्रत्करोति। अवरेति किम् ? खरटखरटाकरोति। अनितौ किम् ? पटिति करोति॥

इति स्वार्थिकाः॥ १६॥
इति तद्धिताः॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-17T19:36:13.2500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

clasping

  • वेष्टक, परिवेष्टी 
  • अंशतः किंवा पूर्णपणे वेढणारा (अवयव) उदा. काही आमरांची वायवीमुळे, गवतांच्या पानांचे तळभाग 
  • leaf sheath. 
  • आश्लेषी 
RANDOM WORD

Did you know?

गांवे, नद्या, समुद्र, देवदेवता किंवा अन्य नांवांची उत्पत्ती काय असेल? नांवे कशी पडली असतील?
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.