संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|लघुसिद्धान्तकौमुदी| भाग ६ लघुसिद्धान्तकौमुदी भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ लघुसिद्धान्तकौमुदी - भाग ६ ‘लघुसिद्धान्तकौमुदी’ पाणिनीय संस्कृत व्याकरणाची एक (अष्टाध्यायी) परम्परागत प्रवेशिका आहे. A Complete introduction to Panini Sutras for the use of beginners. Tags : grammerlaghusiddhantakaumudipaniniपाणिनीलघुसिद्धान्तकौमुदीवरदराजव्याकरण अथ नामधातवः Translation - भाषांतर अथ नामधातवःसुप आत्मनः क्यच्॥ लसक_७२३ = पा_३,१.८॥इषिकर्मण एषितुः संबन्धिनः सुबन्तादिच्छायामर्थे क्यच् प्रत्ययो वा स्यात्॥सुपो धातुप्रातिपदिकयोः॥ लसक_७२४ = पा_२,४.७१॥एतयोरवयवस्य सुपो लुक्॥क्यचि च॥ लसक_७२५ = पा_७,४.३३॥अवर्णस्य ईः। आत्मनः पुत्रमिच्छति पुत्रीयति॥नः क्ये॥ लसक_७२६ = पा_१,४.१५॥क्यचि क्यङि च नान्तमेव पदं नान्यत्। नलोपः। राजीयति। नान्तमेवेति किम्? वाच्यति। हलि च। गीर्यति। पूर्यति। धातोरित्येव। नेह - दिवमिच्छति दिव्यति॥क्यस्य विभाषा॥ लसक_७२७ = पा_६,४.५०॥हलः परयोः क्यच्क्यङारेलोपो वार्धधातुके। आदेः परस्य। अतो लोपः। तस्य स्थानिवत्त्वाल्लघूपधगुणो न। समिधिता, समिध्यिता॥काम्यच्च॥ लसक_७२८ = पा_३,१.९॥उक्तविषये काम्यच् स्यात्। पुत्रमात्मन इच्छति पुत्रकाम्यति। पुत्रकाम्यिता॥उपमानादाचारे॥ लसक_७२९ = पा_३,१.१०॥उपमानात्कर्मणः सुबन्तादाचारेर्ऽथे क्यच्। पुत्रमिवाचरति पुत्रीयति छात्रम्। विष्णूयति द्विजम्॥ (सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः)। अतो गुणे। कृष्ण इवाचरति कृष्णति। स्व इवाचरति स्वति। सस्वौ॥अनुनासिकस्य क्विझलोः क्ङिति॥ लसक_७३० = पा_६,४.१५॥अनुनासिकान्तस्योपधाया दीर्घः स्यात्क्वौ झलादौ च क्ङिति। इदमिवाचरति इदामति। राजेव राजानति। पन्था इव पथीनति॥कष्टाय क्रमणे॥ लसक_७३१ = पा_२,१.१४॥चतुर्थ्यन्तात् कष्टशब्दादुत्साहेर्ऽथे क्यङ् स्यात्। कष्टाय क्रमते कष्टायते। पापं कर्तुमुत्सहत इत्यर्थः॥शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे॥ लसक_७३२ = पा_३,१.१७॥एभ्यः कर्मभ्यः करोत्यर्थे क्यङ् स्यात्। शब्दं करोति शब्दायते॥ (ग.सू) तत्करोति तदाचष्टे॑ इति णिच्॥ (ग.सू) प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च। प्रातिपदिकाद्धात्वर्थे णिच् स्यात्, इष्ठे यथा प्रातिपदिकस्य पुंवद्भाव-रभाव-टिलोप- विन्मतुब्लोप-यणादिलोप-प्रस्थस्फाद्यादेश-भसंज्ञास्तद्वण्णावपि स्युः। इत्यल्लोपः। घटं करोत्याचष्टे वा घटयति॥इति नामधातवः*अथ कण्ड्वादयः॥कण्ड्वादिभ्यो यक्॥ लसक_७३३ = पा_३,१.२७॥एभ्यो धातुभ्यो नित्यं यक् स्यात्स्वार्थे। कण्डूञ् गात्रविघर्षणे॥ १॥ कण्डूयति। कण्डूयत इत्यादि॥इति कण्ड्वादयः॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP