संस्कृत सूची|शास्त्रः|तत्वज्ञानम्|न्यायसूत्र|पञ्चमः अध्यायः| द्वितीयम् आह्निकम् पञ्चमः अध्यायः प्रथमम् आह्निकम् द्वितीयम् आह्निकम् पञ्चमः अध्यायः - द्वितीयम् आह्निकम् शब्द, अनुमान, प्रत्यक्ष, आणि उपमान रूप हे न्यायसूत्राचे प्रसिद्ध चार भाग आहेत. Tags : न्यायसूत्रसंस्कृत द्वितीयम् आह्निकम् Translation - भाषांतर २.१ - प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासन्न्यासो हेत्वन्तरम् अर्थान्तरं निरर्थकम् अविज्ञातार्थम् अपार्थकम् अप्राप्त कालं न्यूनम् अधिकं पुनरुक्तम् अननुभाषणम् अज्ञानम् अप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगो ऽपसिद्धान्तो हेत्वा भासाश्च निग्रहस्थानानि(निग्रहस्थान-उद्देश-सूत्रम्)(निग्रहस्थानपञ्चकप्रकरणम्(२-६)२.२ - प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः(प्रतिज्ञाहानिः लक्षण-सूत्रम्)२.३ - प्रतिज्ञातार्थप्रतिषेधधर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तर.(प्रतिज्ञान्तर-लक्षण-सूत्रम्)२.४ - प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः(प्रतिज्ञाविरोधः लक्षण-सूत्रम्)२.५ - पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासन्न्यासः(प्रतिज्ञासन्न्यासः लक्षण-सूत्रम्)२.६ - अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम्(हेत्वन्तरम् लक्षण-सूत्रम्)(निग्रहस्थानचतुष्कप्रकरणम्(७-१०)२.७ - प्रकृतादर्थादप्रतिसम्ब्द्धार्थमर्थान्तरम्(अर्थान्तरम् लक्षण-सूत्रम्)२.८ - वर्णक्रमनिर्देशवन्निरर्थकम्(निरर्थकम् लक्षण-सूत्रम्)२.९ - परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम्(अविज्ञातार्थम् लक्षण-सूत्रम्)२.१० - पौर्वापर्यायोगादप्रतिसम्बद्धार्थमपार्थकम्(अपार्थकम् लक्षण-सूत्रम्)(निग्रहस्थानत्रिकप्रकरणम्(११-१३)२.११ - अवयवविपर्यासवचनमप्राप्तकालम्(अप्राप्तकालम् लक्षण-सूत्रम्)२.१२ - हीनमन्यतमेनाप्यवयवेन न्यूनम्(न्यूनम् लक्षण-सूत्रम्)२.१३ - हेतूदाहरणाधिकम् अधिकम्(अधिकम् लक्षण-सूत्रम्)(पुनरुक्तिनिग्रहस्थानप्रकरणम्(१४-१६)२.१४ - शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्र अनुवादात्(पुनरुक्तम् लक्षण-सूत्रम्)२.१५ - अनुवादे तु अपुनरुक्तं शब्दाभ्यासात् अर्थविशेषोपपत्तेः(पुनरुक्तम् लक्षणापवादसूत्रम्)२.१६ - अर्थात् आपन्नस्य स्वशब्देन पुनर्वचनम्(पुनरुक्तम् लक्षणापवादसूत्रम्)(उत्तरविरोधिनिग्रहस्थानचतुष्कप्रकरणम्(१७-२०)२.१७ - विज्ञातस्य परिषदा त्रिः अभिहितस्य अपि अप्रत्युच्चारणम् अननुभाषणम्(अननुभाषणम् लक्षण-सूत्रम्)२.१८ - अविज्ञातम् च अज्ञानम्(अज्ञानम् लक्षण-सूत्रम्)२.१९ - उत्तरस्य अप्रतिपत्तिः अप्रतिभा(अप्रतिभा लक्षण-सूत्रम्)२.२० - कार्यव्यासङ्गात् कथाविच्छेदः विक्षेपः(विक्षेपः लक्षण-सूत्रम्)(मतानुज्ञादिनिग्रहस्थानत्रिकप्रकरणम्(२१-२३)२.२१ - स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसङ्गः मतानुज्ञा(मतानुज्ञा लक्षण-सूत्रम्)२.२२ - निग्रहस्थानप्राप्तस्य अनिग्रहः पर्यनुयोज्योपेक्षणम्(पर्यनुयोज्योपेक्षणम् लक्षण-सूत्रम्)२.२३ - अनिग्रहस्थाने निग्रहस्थानाभियोगः निरनुयोज्यानुयोगः(निरनुयोज्यानुयोग लक्षण-सूत्रम्)(कथकान्योक्तिनिरूप्यनिग्रहस्थानद्वयप्रकरणम्-२४-२५)२.२४ - सिद्धान्तम् अभ्युपेत्य अनियमात् कथाप्रसङ्गः अपसिद्धान्तः(अपसिद्धान्त लक्षण-सूत्रम्)२.२५ - हेत्वाभासाः च यथोक्ताः(हेत्वाभास निरूपणम्)इति न्यायसूत्रे पञ्चमाध्यायस्य द्वितीयम् आह्निकम्समाप्तश्चायम् पञ्चमाध्यायःन्यायदर्शनं समाप्तम् N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP