संस्कृत सूची|शास्त्रः|तत्वज्ञानम्|न्यायसूत्र|पञ्चमः अध्यायः| प्रथमम् आह्निकम् पञ्चमः अध्यायः प्रथमम् आह्निकम् द्वितीयम् आह्निकम् पञ्चमः अध्यायः - प्रथमम् आह्निकम् शब्द, अनुमान, प्रत्यक्ष, आणि उपमान रूप हे न्यायसूत्राचे प्रसिद्ध चार भाग आहेत. Tags : न्यायसूत्रसंस्कृत प्रथमम् आह्निकम् Translation - भाषांतर (सत्प्रतिपक्षदेशनाभासप्रकर्णम्(१-३)१.१ - साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्य् अप्राप्तिप्रषङ्गप्रतिदृऋष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्था पत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकआर्यसमाः(सिद्धान्त-सूत्र)१.२ - साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ(सिद्धान्त-सूत्र)१.३ - गोत्वाद् गोसिद्धिवत् तत्सिद्धिः(सिद्धान्त-सूत्र)(उत्कर्षसमादिजातिषट्कप्रकरणम्(४-६)१.४ - साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्ष वर्ण्यविकल्पसाध्यसमाः(सिद्धान्त-सूत्र)१.५ - किञ्चित्साधर्म्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः(सिद्धान्त-सूत्र)१.६ - साध्यातिदेशाच्च दृष्टान्तोपप्त्तेः(सिद्धान्त-सूत्र) (प्राप्त्यप्राप्तिसमजातिद्वयप्रकरणम्(७-८)१.७ - प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वादप्राप्त्यासाधाक त्वाच्च प्राप्त्यप्राप्तिसमौ(सिद्धान्त-सूत्र)१.८ - घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारादप्रतिषेधः(सिद्धान्त-सूत्र)(प्रसङ्गप्रतिदृष्टान्तसमप्रकरणम्(९-११)१.९ - दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ(सिद्धान्त-सूत्र)१.१० - प्रदीपोपादानप्रसङ्गनिवृत्तिवत् तद्विनिवृत्तिः(सिद्धान्त-सूत्र)१.११ - प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः(सिद्धान्त-सूत्र)(अनुत्पत्तिसमप्रकरणम्(१२-१३)१.१२ - प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः(सिद्धान्त-सूत्र)१.१३ - तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः(सिद्धान्त-सूत्र)(संशयसमप्रकरणम्(१४-१५)१.१४ - सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात् संशयसमः(सिद्धान्त-सूत्र)१.१५ - साधर्म्यात्संशये न संशयो वैधर्म्यादुभयथा वा संशये ऽत्यन्त संशयप्रसङ्गो नित्यत्वानभ्यूपगमाच्च सामान्यस्याप्रतिषेधः(सिद्धान्त-सूत्र)(प्रकरणसमप्रकरणम्(१६-१७)१.१६ - उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः(सिद्धान्त-सूत्र)१.१७ - प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः(सिद्धान्त-सूत्र)(अहेतुसमप्रकरणम्(१८-२०)१.१८ - त्रैकाल्यासिद्धेर्हेतोरहेतुसमः(सिद्धान्त-सूत्र)१.१९ - न हेतुतः साध्यसिद्धेस्त्रैकाल्यास्सिद्धिः(सिद्धान्त-सूत्र)१.२० - प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः(सिद्धान्त-सूत्र)(अर्थापत्तिसमप्रकरणम्(२१-२२)१.२१ - अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः(सिद्धान्त-सूत्र)१.२२ - अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्वाच् चार्थापत्तेः(सिद्धान्त-सूत्र)(अविशेषसमप्रकरणम्(२३-२४)१.२३ - एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात्सद्भाबोपपत्तेर्- अविशेषसमः(सिद्धान्त-सूत्र)१.२४ - क्वचिद्धर्मानुपपत्तेः क्वचिच्चोपपत्तेः प्रतिषेधाभावः(सिद्धान्त-सूत्र)(उअपपत्तिसमप्रकरणम्(२५-२६)१.२५ - उभयोकारणोपपत्तेरुपपत्तिसमः(सिद्धान्त-सूत्र)१.२६ - उअपपत्तिकारणाभ्यनिञ्जानादप्रतिषेधः(सिद्धान्त-सूत्र)(उपलब्धिसमप्रकरणम्(२७-२८)१.२७ - निर्दिष्टकारणाभावे ऽप्युपलम्भादुपलब्धिसमः(सिद्धान्त-सूत्र)१.२८ - कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः(सिद्धान्त-सूत्र) (अनुपलब्धिसमप्रकरणम्(२९-३१)१.२९ - तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेर् अनुपलब्धिसमः(सिद्धान्त-सूत्र)१.३० - अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः(सिद्धान्त-सूत्र)१.३१ - ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम्(सिद्धान्त-सूत्र)(अनित्यसमप्रकरणम्(३२-३४)१.३२ - साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः(सिद्धान्त-सूत्र)१.३३ - साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्याच्च(सिद्धान्त-सूत्र)१.३४ - दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य तस्य्स चोभयथा भावान्नाविशेषः(सिद्धान्त-सूत्र)(अनित्यसमप्रकरणम्(३५-३६)१.३५ - नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः(सिद्धान्त-सूत्र)१.३६ - प्रतिषेध्ये नित्यमनित्यभावादनित्ये ऽनित्यत्वोपपत्तेः प्रतिषेधाभावः(सिद्धान्त-सूत्र)(कार्यसमप्रकरणम्(३७-३८)१.३७ - प्रयत्नकार्यानेकत्वात् कार्यसमः(सिद्धान्त-सूत्र)१.३८ - कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः(सिद्धान्त-सूत्र)(षट्पक्षीप्रकरणम्(३९-४०)१.३९ - प्रतिषेधे ऽपि समानदोषः(सिद्धान्त-सूत्र)१.४० - सर्वत्रैवम्(सिद्धान्त-सूत्र)१.४१ - प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद् दोषः(सिद्धान्त-सूत्र)१.४२ - प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा(सिद्धान्त-सूत्र)१.४३ - स्वपक्षलक्षनापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषा भ्युपगमात् समानो दोष इति(सिद्धान्त-सूत्र)इति न्यायसूत्रे पञ्चमाध्यायस्य प्रथमम् आह्निकम् N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP