संस्कृत सूची|शास्त्रः|तत्वज्ञानम्|न्यायसूत्र|द्वितीयः अध्यायः| द्वितीयम् आह्निकम् द्वितीयः अध्यायः प्रथमम् आह्निकम् द्वितीयम् आह्निकम् द्वितीयः अध्यायः - द्वितीयम् आह्निकम् शब्द, अनुमान, प्रत्यक्ष, आणि उपमान रूप हे न्यायसूत्राचे प्रसिद्ध चार भाग आहेत. Tags : न्यायसूत्रसंस्कृत द्वितीयम् आह्निकम् Translation - भाषांतर (प्रमाणचतुष्ट्वपरीक्षाप्रकरणम्]२.१ - न चतुष्ट्वम्, ऐतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात्(पूर्वपक्ष-सूत्र)२.२ - शब्दे ऐतिह्यानर्थान्तरभावात् अनुमाने अर्थापत्तिसम्भवाभावानर्थान्तर भावात् च अप्रतिषेधः(सिद्धान्त-सूत्र)२.३ - अर्थापत्तिः अप्रमाणम् अनैकान्तिकत्वात्(अर्थापत्तिप्रामाण्यपरीक्षा)२.४ - अनर्थापत्तौ अर्थापत्त्यभिमानात्(नानैकान्तिकत्वमर्थापत्तेः)२.५ - प्रतिषेधाप्रामाण्यं च अनैकान्तिकत्वात् (-)२.६ - तत्प्रामाण्ये वा न अर्थापत्त्यप्रामाण्यम्(सिद्धान्त-सूत्र) (अभावप्रामाण्यसिद्धिः - अवान्तरप्रकरणम्]२.७ - न अभावप्रामाण्यं प्रमेयासिद्धेः(पूर्वपक्ष-सूत्र)२.८ - लक्षितेष्वलक्षणलक्षितत्वात् अलक्षितानां तत्प्रमेयसिद्धेः(उदाहरण सूत्र)२.९ - असति अर्थे न अभावः इति चेत् न, अन्यलक्षणोपपत्तेः(सिद्धान्त-सूत्र)२.१० - तत्सिद्धेः अलक्षितेषु अहेतुः(पूर्वपक्ष-सूत्र)२.११ - न, लक्षणावस्थितापेक्षसिद्धेः(सिद्धान्त-सूत्र)२.१२ - प्राक् उत्पत्तेः अभावोपपत्तेः च(सिद्धान्त-सूत्र)(शब्दानित्यत्वपरीक्षाप्रकरणम्(१३-३९)२.१३ - आदिमत्वात् ऐन्द्रियकत्वात् कृतकवत् उपचारात् च(शब्दानित्यत्व-प्रतिपादन-सूत्र)२.१४ - न, घटाभावसामान्यनित्यत्वात् नित्येषु अपि अनित्यवत् उपचारात् च(सिद्धान्त-सूत्र)२.१५ - तत्त्वभाक्तयोः नानात्वविभागात् अव्यभिचारः(शब्दानित्यत्व-प्रतिपादन-सूत्र)(सिद्धान्त-सूत्र)२.१६ - सन्तानानुमानविशेषणात्(शब्दानित्यत्व-प्रतिपादन-सूत्र)(सिद्धान्त-सूत्र)२.१७ - कारणद्रव्यस्य प्रदेशशब्देनाभिधानात्(शब्दानित्यत्व-प्रतिपादन-सूत्र)(सिद्धान्त-सूत्र)२.१८ - प्राक् उच्चारणात् अनुपलब्धेः आवरणाद्यनुपलब्धेः च(शब्दानित्यत्व-प्रतिपादन-सूत्र)२.१९ - तदनुपलब्धेः अनुपलम्भात् आवरणोपपत्तिः(शब्दानित्यत्व-प्रतिपादन-सूत्र)२.२० - अनुपलम्भात् अनुपलब्धिसद्भावात् न आवरणानुपपत्तिः अनुपलम्भात्(सिद्धान्त-सूत्र)२.२१ - अनुपलम्भात्मकत्वात् अनुपलब्धेः अहेतुः(सिद्धान्त-सूत्र)२.२२ - अस्पर्शत्वात्(सिद्धान्त-सूत्र)२.२३ - न, कर्मानित्यत्वात्(सिद्धान्त-सूत्र)२.२४ - न, अणुनित्यत्वात्(सिद्धान्त-सूत्र)२.२५ - सम्प्रदानात्(सिद्धान्त-सूत्र)२.२६ - तदन्तरालानुपलब्धेः अहेतुः(सिद्धान्त-सूत्र)२.२७ - अध्यापनात् अप्रतिषेधः(सिद्धान्त-सूत्र)२.२८ - उभयोः पक्षयोः अन्यतरस्य अध्यापनात् अप्रतिषेधः(सिद्धान्त-सूत्र)२.२९ - अभ्यासात्(सिद्धान्त-सूत्र)२.३० - न अन्यत्वे अपि अभ्यासस्य उपचारात्(सिद्धान्त-सूत्र)२.३१ - अन्यत् अन्यस्मात् अनन्यत्वात् अनन्यत् इति अन्यताभावः(सिद्धान्त-सूत्र)२.३२ - तदभावे न अस्ति अनन्यता, तयोः इतरेतरापेक्षसिद्धेः(सिद्धान्त-सूत्र)२.३३ - विनाशकारणानुपलब्धेः(सिद्धान्त-सूत्र)२.३४ - अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः(सिद्धान्त-सूत्र)२.३५ - उपलभ्यमाने च अनुपलब्धेः असत्त्वात् अनपदेशः(सिद्धान्त-सूत्र)२.३६ - पाणिनिमित्तप्रश्लेषात् शब्दाभावे न अनुपलब्धिः(सिद्धान्त-सूत्र)२.३७ - विनाशकारणानुपलब्धेः च अवस्थाने तन्नित्यत्वप्रसङ्गः(सिद्धान्त-सूत्र)२.३८ - अस्पर्शत्वात् अप्रतिषेधः(सिद्धान्त-सूत्र)२.३९ - विभक्त्यन्तरोपपत्तेः च समासे(सिद्धान्त-सूत्र)(शब्दपरिणामपरीक्षाप्रकरणम्(४०-५६)२.४० - विकारादेशोपदेशात् संशयः(पूर्वपक्ष-सूत्र)२.४१ - प्रकृतिविवृद्धौ विकारविवृद्धेः(सिद्धान्त-सूत्र)२.४२ - न्यूनसमाधिकोपलब्धेः विकाराणाम् अहेतुः(सिद्धान्त-सूत्र)२.४३ - द्विविधस्य अपि हेतोः अभावात् असाधनं दृष्टान्तः(उदाहरणसूत्र)२.४४ - न, अतुल्यप्रकृतीनाम् विकारविकल्पात्(सिद्धान्त-सूत्र)२.४५ - द्रव्यविकारवैषम्यवत् वर्णविकारविकलः(पूर्वपक्ष-सूत्र)२.४६ - न, विकारधर्मानुपपत्तेः(सिद्धान्त-सूत्र)२.४७ - विकारप्राप्तानाम् अपुनरापत्तेः(सिद्धान्त-सूत्र)२.४८ - सुवर्णादीनां पुनरापत्तेः अहेतुः(पूर्वपक्ष-सूत्र)२.४९ - न, तद्विकाराणां सुवर्णभावाव्यतिरेकात्(सिद्धान्त-सूत्र)२.५० - वर्णत्वाव्यतिरेकात् वर्णविकाराणाम् अप्रतिषेधः(सिद्धान्त-सूत्र)२.५१ - सामान्यवतो धर्मयोगो न सामान्यस्य(सिद्धान्त-सूत्र)२.५२ - नित्यत्वे अविकारात् अनित्यत्वे च अनवस्थानात्(सिद्धान्त-सूत्र)२.५३ - नित्यानाम् अतीन्द्रियत्वात् तद्धर्मविकल्पात् च वर्णविकाराणाम् अप्रतिषेधः(पूर्वपक्ष-सूत्र)२.५४ - अनवस्थायित्वे च वर्णोपलब्धिवत् तद्विकारोपपत्तिः(पूर्वपक्ष-सूत्र)२.५५ - विकारधर्मित्वे नित्यत्वाभावात् कालान्तरे विकारोपपत्तेः च अप्रतिषेधः(सिद्धान्त-सूत्र)२.५६ - प्रकृत्यनियमात्(सिद्धान्त-सूत्र)२.५७ - अनियमे नियमात् न अनियमः(पूर्वपक्ष-सूत्र)२.५८ - नियमानियमविरोधात् अनियमे नियमात् च अप्रतिषेधः(सिद्धान्त-सूत्र)२.५९ - गुणान्तरापत्त्युपमर्द-ह्रास-वृद्धि-श्लेषेभ्यः तु विकारोपपत्तेः वर्णविकाराः(सिद्धान्त-सूत्र)(शब्दशक्तिपरीक्षाप्रकरणम्]२.६० - ते विभक्त्यन्ताः पदम्(पद-लक्षण-सूत्रम्)२.६१ - व्यक्त्याकृतिजातिसन्निधौ उपचारात् संशयः(पूर्वपक्ष-सूत्र)(व्यक्तिवाद-अवान्तरप्रकरणम्]२.६२ - याशब्द-समूह-त्याग-परिग्रह-सङ्ख्या-वृद्ध्यपचय-वर्ण-समासानुबन्धानाम् व्यक्तौ उपचारात् व्यक्तिः(पूर्वपक्ष-सूत्र)२.६३ - न, तत् अनवस्थानात्(सिद्धान्त-सूत्र)२.६४ - सहचरण-स्थान-तादर्थ्य-वृत्त-मान-धारण-सामीप्य-योग-साधनाधिपत्येभ्यः ब्राह्मण-मञ्च-कट-राज-सक्तु-चन्दन-गङ्गा-शाटकान्न-पुरुषेष्वतद्भावे अपि तदुपचारः(सिद्धान्त-सूत्र)(आकृतिवाद-अवान्तरप्रकरणम्]२.६५ - आकृतिः, तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः(पूर्वपक्ष-सूत्र)(जातिवाद-अवान्तरप्रकरणम्]२.६६ - व्यक्त्याकृतियुक्ते अपि अप्रसङ्गात् प्रोक्षणादिनां मृद्गवके जातिः(पूर्वपक्ष-सूत्र)२.६७ - न, आकृतिव्यक्त्यपेक्षत्वात् जात्यभिव्यक्तेः(सिद्धान्त-सूत्र)(सिद्धान्तवाद-अवान्तरप्रकरणम्]२.६८ - व्यक्त्याकृतिजातयः तु पदार्थः(सिद्धान्त-सूत्र)२.६९ - व्यक्तिः गुणविशेषाश्रयः मूर्तिः(सिद्धान्त-सूत्र)२.७० - आकृतिः जातिलिङ्गाख्या(सिद्धान्त-सूत्र)२.७१ - समानप्रसवात्मिका जातिः(सिद्धान्त-सूत्र)इति न्यायसूत्रे द्वितीयाध्यायस्य द्वितीयम् आह्निकम्समाप्तः च अयम् द्वितीयाध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP