संस्कृत सूची|शास्त्रः|तत्वज्ञानम्|न्यायसूत्र|द्वितीयः अध्यायः| प्रथमम् आह्निकम् द्वितीयः अध्यायः प्रथमम् आह्निकम् द्वितीयम् आह्निकम् द्वितीयः अध्यायः - प्रथमम् आह्निकम् शब्द, अनुमान, प्रत्यक्ष, आणि उपमान रूप हे न्यायसूत्राचे प्रसिद्ध चार भाग आहेत. Tags : न्यायसूत्रसंस्कृत प्रथमम् आह्निकम् Translation - भाषांतर (संशयपरीक्षाप्रकरणम्]१.१ - समानानेकधर्माध्यवसायात् अन्यतरधर्माध्यवसायात् वा न संशयः(संशय-)१.२ - विप्रत्तिपत्त्यव्यवस्थाध्यवसायात् च(संशय-)१.३ - विप्रत्तिपत्तौ च संप्रत्तिपत्तेः(संशय-)१.४ - अव्यवस्था आत्मनि व्यवस्थितत्वात् च अव्यवस्थायाः(संशय-)१.५ - तथा अत्यन्तसंशयः तद्धर्मसातत्योपपत्तेः(संशय-)१.६ - यथोक्ताध्यवसायात् एव तद्विशेषापेक्षात् संशये न असंशयः न अत्यन्तसंशयः वा(संशय-)१.७ - यत्र संशयः तत्र एवम् उत्तरोत्तरप्रसङ्गः(संशय-) (प्रमाणसामान्यपरीक्षाप्रकरणम्]१.८ - प्रत्यक्षादीनाम् अप्रामाण्यं त्रैकाल्यासिद्धेः(पूर्वपक्षसूत्रम्)१.९ - पूर्वं हि प्रमाणसिद्धौ न इन्द्रियार्थसन्निकर्षात् प्रत्यक्षोत्पत्तिः(पूर्वपक्षसूत्रम्)१.१० - पश्चात्सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः(पूर्वपक्षसूत्रम्)१.११ - युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावः बुद्धीनाम्(पूर्वपक्षसूत्रम्)१.१२ - त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः(पूर्वपक्षसूत्रम्)१.१३ - सर्वप्रमाणप्रतिषेधात् च प्रतिषेधानुपपत्तिः(पूर्वपक्षसूत्रम्)१.१४ - तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः(पूर्वपक्षसूत्रम्)१.१५ - त्रैकाल्याप्रतिषेधः च शब्दात् आतोद्यसिद्धिवत् तत्सिद्धेः(पूर्वपक्षसूत्रम्)१.१६ - प्रमेया च तुलाप्रामाण्यवत्(पूर्वपक्षसूत्रम्)१.१७ - प्रमाणतः सिद्धेः प्रमाणानाम् प्रमाणान्तरसिद्धिप्रसङ्गः(पूर्वपक्षसूत्रम्)१.१८ - तद्विनिवृत्तेः वा प्रमाणसिद्धिवत् प्रमेयसिद्धिः(पूर्वपक्षसूत्रम्)१.१९ - न, प्रदीपप्रकाशसिद्धिवत् तत्सिद्धेः(सिद्धान्तलक्षणम्)१.२० - क्वचित् निवृत्तिदर्शनात् अनिवृत्तिदर्शनात् च क्वचित् अनेकान्तः(सिद्धान्तलक्षणम्) (प्रत्यक्षपरीक्षाप्रकरणाम्]१.२१ - प्रत्यक्षलक्षणानुपपत्तिः असमग्रवचनात्(प्रत्यक्षलक्षण-)(प्रत्यक्षलक्षणपरीक्षा)१.२२ - न आत्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः (दो)१.२३ - दिग्देशकालाकाशेषु अपि एवं प्रसङ्गः (दो)१.२४ - ज्ञानलिङ्गत्वात् आत्मनः न अनवरोधः(प्रत्यक्षलक्षण-सिद्धान्त-सूत्रम्)१.२५ - तदयौगपद्यलिङ्गत्वात् च न मनसः(प्रत्यक्षलक्षण-सिद्धान्त-सूत्र)१.२६ - प्रत्यक्षनिमित्तत्वात् च इन्द्रियार्थयोः सन्निकर्षस्य स्वशब्देन वचनम्(प्रत्यक्षलक्षण-सिद्धान्त-सूत्र)१.२७ - सुप्तव्यासक्तमनसां च इन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात्(प्रत्यक्षलक्षण-सिद्धान्त-सूत्र)१.२८ - तैः च अपदेशः ज्ञानविशेषाणाम्(प्रत्यक्षलक्षण-सिद्धान्त-सूत्र)१.२९ - व्याहतत्वात् अहेतुः(प्रत्यक्षलक्षण-सिद्धान्त-सूत्र)१.३० - न अर्थविशेषप्राबल्यात्(प्रत्यक्षलक्षण-सिद्धान्त-सूत्र)(विषयपरीक्षा-प्रकरणाम्]१.३१ - प्रत्यक्षम् अनुमानम् एकदेशग्रहणात् उपलब्धेः(पूर्वपक्ष-सूत्र)१.३२ - न, प्रत्यक्षेण यावत् तावत् अपि उपलम्भात्(सिद्धान्त-सूत्र)१.३३ - न चैकदेशोपलब्धिरवयविसद्भावात्(सिद्धान्त-सूत्र) (प्रसङ्गोपात्ता अवयविपरीक्षा]१.३४ - साध्यत्वात् अवयविनि सन्देहः(पूर्वपक्ष-सूत्र)१.३५ - सर्वाग्रहणम् अवयव्यसिद्धेः(सिद्धान्त-सूत्र)१.३६ - धारणाकर्षणोपपत्तेः च(सिद्धान्त-सूत्र)१.३७ - सेनावनवत् ग्रहणम् इति चेत् न अतीन्द्रियत्वात् अणूनाम्(सिद्धान्त-सूत्र)(अनुमानपरीक्षाप्रकरणम्]१.३८ - रोधोपघातसादृश्येभ्यः व्यभिचारात् अनुमानम् अप्रमाणम्(पूर्वपक्ष-सूत्र)१.३९ - न, एकदेशत्राससादृश्येभ्यः अर्थान्तरभावात्(सिद्धान्त-सूत्र)(वर्तमानकालपरीक्षा)१.४० - वर्तमानाभावः, पततः पतितपतितव्यकालोपपत्तेः(पूर्वपक्ष-सूत्र)१.४१ - तयोः अपि अभावः वर्तमानाभावे, तदपेक्षत्वात्(सिद्धान्त-सूत्र)१.४२ - न अतीतानागतयोः इतरेतरापेक्षा सिद्धिः(सिद्धान्त-सूत्र)१.४३ - वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः(सिद्धान्त-सूत्र)१.४४ - कृतताकर्त्तव्यतोपपत्तेः तु उभयथा ग्रहणम्(सिद्धान्त-सूत्र)(उपमानपरीक्षाप्रकरणम्]१.४५ - अत्यन्तप्रायैकदेशसाधर्म्यात् उपमानासिद्धिः(सिद्धान्त-सूत्र)१.४६ - प्रसिद्धसाधर्म्यात् उपमानसिद्धेः यथोक्तदोषानुपपत्तिः(पूर्वपक्ष-सूत्र)१.४७ - प्रत्यक्षेण अप्रत्यक्षसिद्धेः(सिद्धान्त-सूत्र)१.४८ - न अप्रत्यक्षे गवये प्रमाणार्थम् उपमानस्य पश्यामः(सिद्धान्त-सूत्र)१.४९ - तथा इति उपसंहारात् उपमानसिद्धेः न अविशेषः(सिद्धान्त-सूत्र)(शब्दसामान्यपरीक्षाप्रकरणम्]१.५० - शब्दः अनुमानम् अर्थस्य अनुपलब्धेः अनुमेयत्वात्(पूर्वपक्ष-सूत्र)१.५१ - उपलब्धेः अद्विप्रवृत्तित्वात्(पूर्वपक्ष-सूत्र)१.५२ - सम्बन्धात् च(पूर्वपक्ष-सूत्र)१.५३ - आप्तोपदेशसामर्थ्यात् शब्दात् अर्थसम्प्रत्ययः(सिद्धान्त-सूत्र)१.५४ - पूरणप्रदाहपाटनानुपलब्धेः च सम्बन्धाभावः(सिद्धान्त-सूत्र)१.५५ - शब्दार्थव्यवस्थानात् अप्रतिषेधः(सिद्धान्त-सूत्र)१.५६ - न, सामयिकत्वात् शब्दार्थसम्प्रत्ययस्य(सिद्धान्त-सूत्र)१.५७ - जातिविशेषे च अनियमात्(सिद्धान्त-सूत्र) (शब्दविशेषपरीक्षाप्रकरणम्]१.५८ - तदप्रामाण्यम् अनृतव्याघातपुनरुक्तदोषेभ्यः(सिद्धान्त-सूत्र)१.५९ - न, कर्मकर्तृसाधनवैगुण्यात्(सिद्धान्त-सूत्र)१.६० - अभ्युपेत्य कालभेदे दोषवचनात्(सिद्धान्त-सूत्र)१.६१ - अनुवादोपपत्तेः च(सिद्धान्त-सूत्र)१.६२ - वाक्यविभागस्य च अर्थग्रहणात्(सिद्धान्त-सूत्र)१.६३ - विध्यर्थवादानुवादवचनविनियोगात्(सिद्धान्त-सूत्र)१.६४ - विधिः विधायकः(सिद्धान्त-सूत्र)१.६५ - स्तुतिः निन्दा परकृतिः पुराकल्पः इति अर्थवादः(सिद्धान्त-सूत्र)(अर्थवाद-भेदः)१.६६ - विधिविहितस्य अनुवचनम् अनुवादः(अर्थवाद-)१.६७ - न अनुवादपुनरुक्तयोः विशेषः, शब्दाभ्यासोपपत्तेः(सिद्धान्त-सूत्र)१.६८ - शीघ्रतरगमनोपदेशवत् अभ्यासात् न अविशेषः(सिद्धान्त-सूत्र)१.६९ - मन्त्रायुर्वेदप्रामाण्यवत् च तत्प्रामाण्यम्, आप्तप्रामाण्यात्(सिद्धान्त-सूत्र)इति न्यायसूत्रे द्वितीयाध्यायस्य प्रथमम् आह्निकम् N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP