अर्थशास्त्रम् अध्याय १३ - भाग २

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


२.०१
मुण्डो जटिलो वा पर्वत.गुह.आवासी चतुर्.वर्ष.शत.आयुर् ब्रुवाणः प्रभूत.जटिल.अन्ते.वासी नगर.अभ्याशे तिष्ठेत् ॥

२.०२
शिष्याश् च_अस्य मूल.फल.उपगमनैर् अमात्यान् राजानं च भगवद्.दर्शनाय योजयेयुः ॥

२.०३
समागताश् च राज्ञा पूर्व.राज.देश.अभिज्ञानानि कथयेत्, "शते शते च वर्षाणां पूर्णे_अहम् अग्निं प्रविश्य पुनर् बालो भवामि, तद् इह भवत् समीपे चतुर्थम् अग्निं प्रवेक्ष्यामि, अवश्यं मे भवान् मानयितव्यः, त्रीन् वरान् वृणीष्ण(वृषीष्व)" इति ॥

२.०४
प्रतिपन्नं ब्रूयात् "सप्त.रात्रम् इह सपुत्र.दारेण प्रेक्षा.प्रहवण.पूर्वं वस्तव्यम्" इति ॥

२.०५
वसन्तम् अवस्कन्देत ॥

२.०६
मुण्डो वा जटिलो वा स्थानिक.व्यञ्जनः प्रभूत.जटिल.अन्ते.वासी वस्त.शोणित.दिग्धां वेणु.शलाकां सुवर्ण.चूर्णेन_अवलिप्य वल्मीके निदध्याद् उपजिह्विक.अनुसरण.अर्थम्, स्वर्ण.नालिकां वा ॥

२.०७
ततः सत्त्री राज्ञः कथयेत् "असौ सिद्धः पुष्पितं निधिं जानाति" इति ॥

२.०८
स राज्ञा पृष्ठः "तथा" इति ब्रूयात्, तच् च_अभिज्ञानं दर्शयेत्, भूयो वा हिरण्यम् अन्तर्.आधाय ॥

२.०९
ब्रूयाच् च_एनं "नाग.रक्षितो_अयं निधिः प्रणिपात.साध्यः" इति ॥

२.१०
प्रतिपन्नं ब्रूयात् "सप्त.रात्रम्" इति समानम् ॥

२.११
स्थानिक.व्यञ्जनं वा रात्रौ तेजन.अग्नि.युक्तम् एकान्ते तिष्ठन्तं सत्त्रिणः क्रम.अभीनीतं राज्ञः कथयेयुः "असौ सिद्धः सामेधिकः" इति ॥

२.१२
तं राजा यम् अर्थं याचेत तम् अस्य करिष्यमाणः "सप्त.रात्रम्" इति समानम् ॥

२.१३
सिद्ध.व्यञ्जनो वा राजानं जम्भक.विद्याभिः प्रलोभयेत् ॥

२.१४
तं राजा_इति समानम् ॥

२.१५
सिद्ध.व्यञ्जनो वा देश.देवताम् अभ्यर्हिताम् आश्रित्य प्रहवणैर् अभीक्ष्णं प्रकृति.मुख्यान् अभिसंवास्य क्रमेण राजानम् अतिसंदध्यात् ॥

२.१६
जटिल.व्यञ्जनम् अन्तर्.उदक.वासिनं वा सर्व.श्वेतं तट.सुरुङ्गा.भूमि.गृह.अपसरणं वरुणं नाग.राजं वा सत्त्रिणः क्रम.अभिनीतं राज्ञः कथयेयुः ॥

२.१७
तं राजा_इति समानम् ॥

२.१८
जन.पद.अन्ते.वासी सिद्ध.व्यञ्जनो वा राजानं शत्रु.दर्शनाय योजयेत् ॥

२.१९
प्रतिपन्नं बिम्बं कृत्वा शत्रुम् आवाहयित्वा निरुद्धे देशे घातयेत् ॥

२.२०
अश्व.पण्य.उपयाता वैदेहक.व्यञ्जनाः पण्य.उपायन.निमित्तम् आहूय राजानं पण्य.परीक्षायाम् आसक्तम् अश्व.व्यतिकीर्णं वा हन्युः, अश्वैश् च प्रहरेयुः ॥

२.२१
नगर.अभ्याशे वा चैत्यम् आरुह्य रात्रौ तीक्ष्णाः कुम्भेषु नालीन् वा विदुलानि धमन्तः "स्वामिनो मुख्यानां वा मांसानि भक्षयिष्यामः, पूजा नो वर्तताम्" इत्य् अव्यक्तं ब्रूयुः ॥

२.२२
तद् एषां नैमित्तिक.मौहूर्तिक.व्यञ्जनाः ख्यापयेयुः ॥

२.२३
मङ्गल्ये वा ह्रदे तटाक.मध्ये वा रात्रौ तेजन.तैल.अभ्यक्ता नाग.रूपिणः शक्ति.मुसलान्य् अयोमयानि निष्पेषयन्तस् तथैव ब्रूयुः ॥

२.२४
ऋक्ष.चर्म.कञ्चुकिनो वा_अग्नि.धूम.उत्सर्ग.युक्ता रक्षो.रूपं वहन्तस् त्रिर् अपसव्यं नगरं कुर्वाणाः श्व.सृगाल.वाशित.अन्तरेषु तथैव ब्रूयुः ॥

२.२५
चैत्य.दैवत.प्रतिमां वा तेजन.तैलेन_अभ्र.पटलच्.छन्नेन_अग्निना वा रात्रौ प्रज्वाल्य तथैव ब्रूयुः ॥

२.२६
तद् अन्ये ख्यापयेयुः ॥

२.२७
दैवत.प्रतिमानाम् अभ्यर्हितानां वा शोणितेन प्रस्रावम् अतिमात्रं कुर्युः ॥

२.२८
तद् अन्ये देव.रुधिर.संस्रावे संग्रामे पराजयं ब्रूयुः ॥

२.२९
संधि.रात्रिषु श्मशान.प्रमुखे वा चैत्यम् ऊर्ध्व.भक्षितैर् मनुष्यैः प्ररूपयेयुः ॥

२.३०
ततो रक्षो.रूपी मनुष्यकं याचेत ॥

२.३१
यश् च_अत्र शूर.वादिको_अन्यतमो वा द्रष्टुम् आगच्छेत् तम् अन्ये लोह.मुसलैर् हन्युः, यथा रक्षोभिर् हत इति ज्ञायेत ॥

२.३२
तद् अद्भुतं राज्ञस् तद्.दर्शिनः सत्त्रिणश् च कथयेयुः ॥

२.३३
ततो नैमितित्क.मौहूर्तिक.व्यञ्जनाः शान्तिं प्रायश्.चित्तं ब्रूयुः "अन्यथा महद् अकुशलं राज्ञो देशस्य च" इति ॥

२.३४
प्रतिपन्नं "एतेषु सप्त.रात्रम् एक.एक.मन्त्र.बलि.होमं स्वयं राज्ञा कर्तव्यम्" इति ब्रूयुः ॥

२.३५
ततः समानम् ॥

२.३६
एतान् वा योगान् आत्मनि दर्शयित्वा प्रतिकुर्वीत परेषाम् उपदेश.अर्थम् ॥

२.३७
ततः प्रयोजयेद् योगान् ॥

२.३८
योग.दर्शन.प्रतीकारेण वा कोश.अभिसंहरणं कुर्यात् ॥

२.३९
हस्ति.कामं वा नाग.वन.पाला हस्तिना लक्षण्येन प्रलोभयेयुः ॥

२.४०
प्रतिपन्नं गहनम् एक.अयनं वा_अतिनीय घातयेयुः, बद्ध्वा वा_अपहरेयुः ॥

२.४१
तेन मृगया.कामो व्याख्यातः ॥

२.४२
द्रव्य.स्त्री.लोलुपम् आढ्य.विधवाभिर् वा परम.रूप.यौवनाभिः स्त्रीभिर् दाय.निक्षेप.अर्थम् उपनीताभिः सत्त्रिणः प्रलोभयेयुः ॥

२.४३
प्रतिपन्नं रात्रौ सत्त्रच्.छन्नाः समागमे शस्त्र.रसाभ्यां घातयेयुः ॥

२.४४
सिद्ध.प्रव्रजित.चैत्य.स्तूप.दैवत.प्रतिमानाम् अभीक्ष्ण.अभिगमनेषु वा भूमि.गृह.सुरुङ्ग.आरूढ.भित्ति.प्रविष्टास् तीक्ष्णाः परम् अभिहन्युः ॥

२.४५
येषु देशेषु याः प्रेक्षाः प्रेक्षते पार्थिवः स्वयम् । KआK१३.२.४५
यात्रा.विहारे रमते यत्र क्रीडति वा_अम्भसि ॥

२.४६
धिग्.उक्त्य्.आदिषु सर्वेषु यज्ञ.प्रहवणेषु वा ।

२.४६
सूतिका.प्रेत.रोगेषु प्रीति.शोक.भयेषु वा ।

२.४७
प्रमादं याति यस्मिन् वा विश्वासात् स्व.जन.उत्सवे ॥

२.४७
यत्र_अस्य_आरक्षि.संचारो दुर्दिने संकुलेषु वा ।

२.४८
विप्र.स्थाने प्रदीप्ते वा प्रविष्टे निर्जने_अपि वा ।

२.४८
वस्त्र.आभरण.माल्यानां फेलाभिः शयन.आसनैः ॥

२.४९
मद्य.भोजन.फेलाभिस् तूर्यैर् वा_अभिगताः सह ।

२.४९
प्रहरेयुर् अरिं तीक्ष्णाः पूर्व.प्रणिहितैः सह ॥

२.५०
यथैव प्रविशेयुश् च द्विषतः सत्त्र.हेतुभिः ।

२.५०
तथैव च_अपगच्छेयुर् इत्य् उक्तं योग.वामनम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP