संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय १३| भाग १ अध्याय १३ भाग १ भाग २ भाग ३ भाग ४ भाग ५ अर्थशास्त्रम् अध्याय १३ - भाग १ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १ Translation - भाषांतर (उपजापह्)१.०१विजिगीषुः पर.ग्रामम् अवाप्तु.कामः सर्वज्ञ.दैवत.सम्योग.ख्यापनाभ्यां स्व.पक्षम् उद्धर्षयेत्, पर.पक्षं च_उद्वेजयेत् ॥१.०२सर्वज्ञ.ख्यापनं तु - गृह.गुह्य.प्रवृत्ति.ज्ञानेन प्रत्यादेशो मुख्यानाम्, कण्टक.शोधन.अपसर्प.अवगमेन प्रकाशनं राज.द्विष्ट.कारिणाम्, विज्ञाप्य.उपायन.ख्यापनम् अदृष्ट.संसर्ग.विद्या.संज्ञा.आदिभिः, विदेश.प्रवृत्ति.ज्ञानं तद् अहर् एव गृह.कपोतेन मुद्रा.सम्युक्तेन ॥१.०३दैवत.सम्योग.ख्यापनं तु - सुरुङ्गा.मुखेन_अग्नि.चैत्य.दैवत.प्रतिमाच्.छिद्रान् अनुप्रविष्टैर् अग्नि.चैत्य.दैवत.व्यञ्जनैः सम्भाषणं पूजनं च, उदकाद् उत्थितैर् वा नाग.वरुण.व्यञ्जनैः सम्भाषणं पूजनं च, रात्राव् अन्तर्.उदके समुद्र.वालुका.कोशं प्रणिधाय_अग्नि.माला.दर्शनम्, शिला.शिक्य.अवगृहीते प्लवके स्थानम्, उदक.बस्तिना जरायुणा वा शिरो_अवगूढ.नासः पृषत.अन्त्र.कुलीर.नक्र.शिंशुमार.उद्रवसाभिर् वा शत.पाक्यं तैलं नस्तः प्रयोगः ॥१.०४तेन रात्रि.गणश् चरति ॥१.०५इत्य् उदक.चरणानि ॥१.०६तैर् वरुण.नाग.कन्या.वाक्य.क्रिया सम्भाषणं च, कोप.स्थानेषु मुखाद् अग्नि.धूम.उत्सर्गः ॥१.०७तद् अस्य स्व.विषये कार्तान्तिक.नैमित्तिक.मौहूर्तिक.पौराणिक.इक्षणिक.गूढ.पुरुषाः साचिव्य.करास् तद्.दर्शिनश् च प्रकाशयेयुः ॥१.०८परस्य विषये दैवत.दर्शनं दिव्य.कोश.दण्ड.उत्पत्तिं च_अस्य ब्रूयुः ॥१.०९दैवत.प्रश्न.निमित्त.वायस.अङ्ग.विद्या.स्वप्न.मृग.पक्षि.व्याहारेषु च_अस्य विजयं ब्रूयुः, विपरीतम् अमित्रस्य ॥१.१०सदुन्दुभिम् उल्कां च परस्य नक्षत्रे दर्शयेयुः ॥१.११परस्य मुख्यान् मित्रत्वेन_उपदिशन्तो दूत.व्यञ्जनाः स्वामि.सत्कारं ब्रूयुः, स्व.पक्ष.बल.आधानं पर.पक्ष.प्रतिघातं च ॥१.१२तुल्य.योग.क्षेमम् अमात्यानाम् आयुधीयानां च कथयेयुः ॥१.१३तेषु व्यसन.अभ्युदय.अवेक्षणम् अपत्य.पूजनं च प्रयुञ्जीत ॥१.१४तेन पर.पक्षम् उत्साहयेद् यथा.उक्तं पुरस्तात् ॥१.१५भूयश् च वक्ष्यामः ॥१.१६साधारण.गर्दभेन दक्षान्, लकुट.शाखा.हननाभ्यां दण्ड.चारिणः, कुल.एडकेन च_उद्विग्नान्, अशनि.वर्षेण विमानितान्, विदुलेन_अवकेशिना वायस.पिण्डेन कैतवज.मेघेन_इति विहत.आशान् दुर्भग.अलंकारेण द्वेषिणा_इति पूजा.फलान्, व्याघ्र.चर्मणा मृत्यु.कूटेन च_उपहितान्, पीलु.विखादनेन करक.योष्ट्रया गर्दभी.क्षीरा.अभिमन्थनेन_इति ध्रुव.उपकारिण इति ॥१.१७प्रतिपन्नान् अर्थ.मानाभ्यां योजयेत्१.१८द्रव्य.भक्तच्.छिद्रेषु च_एनान् द्रव्य.भक्त.दानैर् अनुगृह्णीयात् ॥१.१९अप्रतिगृह्णतां स्त्री.कुमार.अलंकारान् अभिहरेयुः ॥१.२०दुर्भिक्ष.स्तेन.अटव्य्.उपघातेषु च पौर.जानपदान् उत्साहयन्तः सत्त्रिणो ब्रूयुः "राजानम् अनुग्रहं याचामहे_ निरनुग्रहाः परत्र गच्छामः" इति ॥१.२१तथा_इति प्रतिपन्नेषु द्रव्य.धान्यान्य् अपरिग्रहैः ।१.२१साचिव्यं कार्यम् इत्य् एतद् उपजापाद् भूतं महत् ॥(योग.वामनम्) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP