संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय १२| भाग ४ अध्याय १२ भाग १ भाग २ भाग ३ भाग ४ भाग ५ अर्थशास्त्रम् अध्याय १२ - भाग ४ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ४ Translation - भाषांतर ४.०१ये च_अस्य दुर्गेषु वैदेहकव्यञ्जनाः, ग्रामेसु गृहपतिक.व्यञ्जनाः, जन.पद.संधिषु गो.रक्षक.तापस.व्यञ्जनाः, ते सामन्त.आटविक.तत्.कुलीन.अपरुद्धानां पण्य.आगार.पूर्वं प्रेषयेयुः "अयं देशो हार्यः" इति ॥४.०२आगतांश् च_एषां दुर्गे गूढ.पुरुषान् अर्थ.मानाभ्याम् अभिसत्कृत्य प्रकृतिच्.छिद्राणि प्रदर्शयेयुः ॥४.०३तेषु तैः सह प्रहरेयुः ॥४.०४स्कन्ध.आवारे वा_अस्य शौण्डिक.व्यञ्जनः पुत्रम् अभित्यक्तं स्थापयित्वा_अवस्कन्द.काले रसेन प्रवासयित्वा "नैषेचनिकम्" इति मदन.रस.युक्तान् मद्यकुम्भान्_शतशः प्रयच्छेत् ॥४.०५शुद्धं वा मद्यं पाद्यं वा मद्यं दद्याद् एकम् अहः, उत्तरं रस्.सिद्धं प्रयच्छेत् ॥४.०६शुद्धं वा मद्यं दण्ड.मुख्येभ्यः प्रदाय मद.काले रस.सिद्धं प्रयच्छेत् ॥४.०७दण्ड.मुख्य.व्यञ्जनो वा पुत्रम् अभित्यक्तम् इति समानम् ॥४.०८पाक्व.मांसिक.औदनिक.औण्डिक.आपूपिक.व्यञ्जना वा पण्य.विशेषम् अवघोषयित्वा परस्पर.संघर्षेण कालिकं समर्घतरम् इति वा परान् आहूय रसेन स्व.पण्यान्य् अपचारयेयुः ॥४.०९सुरा.क्षीर.दधि.सर्पिस्.तैलानि वा तद्.व्यवहर्तृ.हस्तेषु गृहीता स्त्रियो बालाश् च रस.युक्तेषु स्व.भाजनेषु परिकिरेयुः ॥४.१०"अनेन_अर्घेण, विशिष्टं वा भूयो दीयताम्" इति तत्र_एव_अवाकिरेयुः ॥४.११एतान्य् एव वैदेहक.व्यञ्जनाः, पण्य.विरेयेण_आहर्तारो वा ॥४.१२हस्त्य्.अश्वानां विधा.यवसेषु रसम् आसन्ना दद्युः ॥४.१३कर्म.कर.व्यञ्जना वा रस.अक्तं यवसम् उदकं वा विक्रीणीरन् ॥४.१४चिर.संसृष्टा वा गो.वाणिजका गवाम् अज.अवीनां वा यूथान्य् अवस्कन्द.कालेषु परेषां मोह.स्थानेषु प्रमुञ्चेयुः, अश्व.खर.उष्ट्रमहिष.आदीनां दुष्टांश् च ॥४.१५तद्.व्यञ्जना वा चुच्छुन्दरी.शोणित.अक्त.अक्षान् ॥४.१६लुब्धक.व्यञ्जना वा व्याल.मृगान् पञ्जरेभ्यः प्रमुञ्चेयुः, सर्प.ग्राहा वा सर्पान् उग्र.विषान्, हस्ति.जीविनो वा हस्तिनः ॥४.१७अग्नि.जीविनो वा_अग्निम् अवसृजेयुः ॥४.१८गूढ.पुरुषा वा विमुखान् पत्त्य्.अश्व.रथ.द्विप.मुख्यान् अभिहन्युः, आदीपयेयुर् वा मुख्य.आवासान् ॥४.१९दूष्य.अमित्र.आटविक.व्यञ्जनाः प्रणिहिताः पृष्ठ.अभिघातम् अवस्कन्द.प्रतिग्रहं वा कुर्युः ॥४.२०वन.गूढा वा प्रत्यन्त.स्कन्धम् उपनिष्कृष्य_अभिहन्युः, एक.अयने वीवध.आसार.प्रसारान् वा ॥४.२१ससंकेतं वा रात्रि.युद्धे भूरि.तूर्यम् आहत्य ब्रूयुः "अनुप्रविष्टाः स्मो, लब्धं राज्यम्" इति ॥४.२२राज.आवासम् अनुप्रविष्टा वा संकुलेषु राजानं हन्युः ॥४.२३सर्वतो वा प्रयातम् एन(?एव?) म्लेच्छ.आटविक.दण्ट.चारिणः सत्त्र.अपाश्रयाः स्तम्भ.वाट.अपाश्रया वा हन्युः ॥४.२४लुब्धक.व्यञ्जना वा_अवस्कन्द.संकुलेषु गूढ.युद्ध.हेतुभिर् अभिहन्युः ॥४.२५एक.अयने वा शैल.स्तम्भ.वाट.खञ्जन.अन्तर्.उदके वा स्व.भूमि.बलेन_अभिहन्युः ॥४.२६नदी.सरस्.तटाक.सेतु.बन्ध.भेद.वेगेन वा प्लावयेयुः ॥४.२७धान्वन.वन.दुर्ग.निम्न.दुर्गस्थं वा योग.अग्नि.धूमाभ्यां नाशयेयुः ॥४.२८संकट.गतम् अग्निना, धान्वन.गतं धूमेन, निधान.गतं रसेन, तोय.अवगाढं दुष्ट.ग्राहैर् उदक.चरणैर् वा तीक्ष्णाः साधयेयुः, आदीप्त.आवासान् निष्पतन्तं वा ॥४.२९योग.वामन.योगाभ्यां योगेन_अन्यतमेन वा ।४.२९अमित्रम् अतिसंदध्यात् सक्तम् उक्तासु भूमिषु ॥(योग.अतिसम्धानम् - दण्ड.अतिसम्धानम् - एक.विजयह्) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP