संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय १२| भाग १ अध्याय १२ भाग १ भाग २ भाग ३ भाग ४ भाग ५ अर्थशास्त्रम् अध्याय १२ - भाग १ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १ Translation - भाषांतर (दूत.कर्म)१.०१"बलीयसा_अभियुक्तो दुर्बलः सर्वत्र_अनुप्रणतो वेतस.धर्मा तिष्ठेत् ॥१.०२इन्द्रस्य हि स प्रणमति यो बलीयसो नमति" इति भारद्वाजः ॥१.०३"सर्व.संदोहेन बलानां युध्येत ॥१.०४पराक्रमो हि व्यसनम् अपहन्ति ॥१.०५स्व.धर्मश् च_एष क्षत्रियस्य, युद्धे जयः पराजयो वा" इति विशाल.अक्षः ॥१.०६न_इति कौटिल्यः ॥१.०७सर्वत्र_अनुप्रणतः कुलैडक इव निराशो जीविते वसति ॥१.०८युध्यमानश् च_अल्प.सैन्यः समुद्रम् इव_अप्लवो_अवगाहमानः सीदति ॥१.०९तद्.विशिष्टं तु राजानम् आश्रितो दुर्गम् अविषह्यं वा चेष्टेत ॥१.१०त्रयो_अभियोक्तारो धर्म.लोभ.असुर.विजयिन इति ॥१.११तेषाम् अभ्यवपत्त्या धर्म.विजयी तुष्यति ॥१.१२तम् अभ्यवपद्येत, परेषाम् अपि भयात् ॥१.१३भूमि.द्रव्य.हरणेन लोभ.विजयी तुष्यति ॥१.१४तम् अर्थेन_अभ्यवपद्येत ॥१.१५भूमि.द्रव्य.पुत्र.दार.प्राण.हरणेन_असुर.विजयी ॥१.१६तं भूमि.द्रव्याभ्याम् उपगृह्य_अग्राह्यः प्रतिकुर्वीत ॥१.१७तेषाम् अन्यतमम् उत्तिष्ठमानं संधिना मन्त्र.युद्धेन कूट.युद्धेन वा प्रतिव्यूहेत ॥१.१८शत्रु.पक्षम् अस्य साम.दानाभ्याम्, स्व.पक्षं भेद.दण्डाभ्याम् ॥१.१९दुर्गं राष्ट्रं स्कन्ध.आवारं वा_अस्य गूढाः शस्त्र.रस.अग्निभिः साधयेयुः ॥१.२०सर्वतः पार्ष्णिम् अस्य ग्राहयेत् ॥१.२१अटवीभिर् वा राज्यं घातयेत्, तत्.कुलीन.अपरुद्धाभ्यां वा हारयेत् ॥१.२२अपकार.अन्तेषु च_अस्य दूटं प्रेषयेत् ॥१.२३अनपकृत्य वा संधानम् ॥१.२४तथा_अप्य् अभिप्रयान्तं कोश.दण्डयोः पाद.उत्तरम् अहो.रात्र.उत्तरं वा संधिं याचेत ॥१.२५स चेद् दण्ड.संधिं याचेत, कुण्ठम् अस्मै हस्त्य्.अश्वं दद्याद्, उत्साहितं वा गर.युक्तम् ॥१.२६पुरुष.संधिं याचेत, दूष्य.अमित्र.अटवी.बलम् अस्मै दद्याद् योग.पुरुष.अधिष्ठितम् ॥१.२७तथा कुर्याद् यथा_उभय.विनाशः स्यात् ॥१.२८तीक्ष्ण.बलं वा_अस्मै दद्याद् यद् अवमानितं विकुर्वीत, मौलम् अनुरक्तं वा यद् अस्य व्यसने_अपकुर्यात् ॥१.२९कोश.संधिं याचेत, सारम् अस्मै दद्याद् यस्य क्रेतारं न_अधिगच्छेत्, कुप्यम् अयुद्ध.योग्यं वा ॥१.३०भूमि.संधिं याचेत, प्रत्यादेयां नित्य.अमित्राम् अनपाश्रयां महा.क्षय.व्यय.निवेशां वा_अस्मै भूमिं दद्यात् ॥१.३१सर्व.स्वेन वा राज.धानी.वर्जेन संधिं याचेत बलीयसः ॥१.३२यत् प्रसह्य हरेद् अन्यस् तत् प्रयच्चेद् उपायतः ।१.३२रक्षेत् स्व.देहं न धनं का ह्य् अनित्ये धने दया ॥(मन्त्र.युद्ध) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP