संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय १२| भाग २ अध्याय १२ भाग १ भाग २ भाग ३ भाग ४ भाग ५ अर्थशास्त्रम् अध्याय १२ - भाग २ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग २ Translation - भाषांतर २.०१स चेत् संधौ न_अवतिष्ठेत, ब्रूयाद् एनं - "इमे शत्रु.षड्.वर्ग.वशगा राजानो विनष्टाः, तेषाम् अनात्मवतां न_अर्हसि मार्गम् अनुगन्तुम् ॥२.०२धर्मम् अर्थं च_अवेक्षस्व ॥२.०३मित्र.मुखा ह्य् अमित्रास् ते ये त्वा साहसम् अधर्मम् अर्थ.अतिक्रमं च ग्राहयन्ति ॥२.०४शूरैस् त्यक्त.आत्मभिः सह योद्धुं साहसम्, जन.क्षयम् उभयतः कर्तुम् अधर्मः, दृष्टम् अर्थं मित्रम् अदुष्टं च त्यक्तुम् अर्थ.अतिक्रमः ॥२.०५मित्रवांश् च स राजा, भूयश् च_एतेन_अर्थेन मित्राण्य् उद्योजयिष्यति यानि त्वा सर्वतो_अभियास्यन्ति ॥२.०६न च मध्यम.उदासीनयोर् मण्डलस्य वा परित्यक्तः, भवांस् तु परित्यक्तः यत्त्वा समुद्युक्तम् उपप्रेक्षन्ते "भूयः क्षय.व्ययाभ्यां युज्यताम्, मित्राच् च भिद्यताम्, अथ_एनं परित्यक्त.मूलं सुखेन_उच्छेत्स्यामः" इति ॥२.०७स भवान् न_अर्हति मित्र.मुखानाम् अमित्राणां श्रोतुम्, मित्राण्य् उद्वेजयितुम् अमित्रांश् च श्रेयसा योक्तुम्, प्राण.संशयम् अनर्थं च_उपगन्तुम्" इति यच्छेत् ॥२.०८तथा_अपि प्रतिष्ठमानस्य प्रकृति.कोपम् अस्य कारयेद् यथा संघ.वृत्ते व्याख्यातं योग.वामने च ॥२.०९तीक्ष्ण.रसद.प्रयोगं च ॥२.१०यद् उक्तम् आत्म.रक्षितके रक्ष्यं तत्र तीक्ष्णान् रसदांश् च प्रयुञ्जीत ॥२.११बन्धकी.पोषकाः परम.रूप.यौवनाभिः स्त्रीभिः सेना.मुख्यान् उन्मादयेयुः ॥२.१२बहूनाम् एकस्यां द्वयोर् वा मुख्ययोः कामे जाते तीक्ष्णाः कलहान् उत्पादयेयुः ॥२.१३कलहे पराजित.पक्षं परत्र.अपगमने यात्रा.साहाय्य.दाने वा भर्तुर् योजयेयुः ॥२.१४काम.वशान् वा सिद्ध.व्यञ्जनाः सांवदनिकीभिर् ओषधीभिर् अतिसंधानाय मुख्येषु रसं दापयेयुः ॥२.१५वैदेहक.व्यञ्जने वा राज.महिष्याः सुभगायाः प्रेष्याम् आसन्नां काम.निमित्तम् अर्थेन_अभिवृष्य परित्यजेत् ॥२.१६तस्य_एव परिचारक.व्यञ्जन.उपदिष्टः सिद्ध.व्यञ्जनः सांवदनिकीम् ओषधीं दद्यात् "वैदेहक.शरीरे_अवघातव्या" इति ॥२.१७सिद्धे सुभगाया अप्य् एनं योगम् उपदिशेत् "राज.शरीरे_अवधातव्या" इति ॥२.१८ततो रसेन_अतिसंदध्यात् ॥२.१९कार्तान्तिक.व्यञ्जनो वा महा.मात्रं "राज.लक्षण.सम्पन्नम्" क्रम.अभिनीतं ब्रूयात् ॥२.२०भार्याम् अस्य भिक्षुकी "राज.पत्नी राज.प्रसविनी वा भविष्यसि" इति ॥२.२१भार्या.व्यञ्जना वा महा.मात्रं ब्रूयात् "राजा किल माम् अवरोधयिष्यति, तव_अन्तिकाय पत्त्र.लेख्यम् आभरणं च_इदं परिव्राजिकया_आहृतम्" इति ॥२.२२सूद.आरालिक.व्यञ्जनो वा रस.प्रयोग.अर्थं राज.वचनम् अर्थं च_अस्य लोभनीयम् अभिनयेत् ॥२.२३तद् अस्य वैदेहक.व्यञ्जनः प्रतिसंदध्यात्, कार्य.सिद्धिं च ब्रूयात् ॥२.२४एवम् एकेन द्वाभ्यां त्रिभिर् इत्य् उपायैर् एक.एकम् अस्य महा.मात्रं विक्रमाय_अपगमनाय वा योजयेत् - इति ॥२.२५दुर्गेषु च_अस्य शून्य.पाल.आसन्नाः सत्त्रिणः पौर.जानपदेषु मैत्री.निमित्तम् आवेदयेयुः - "शून्य.पालेन_उक्ता योधाश् च_अधिकरणस्थाश् च "कृच्छ्र.गतो राजा जीवन्न् आगमिष्यति, न वा, प्रसह्य वित्तम् आर्जयध्वम्, अमित्रांश् च हत" इति ॥२.२६बहुली.भूते तीक्ष्णाः पौरान् निशास्व् आहारयेयुः, मुख्यांश् च_अभिहन्युः "एवं क्रियन्ते ये शून्य.पालस्य न शुश्रूषन्ते" इति ॥२.२७शून्य.पाल.स्थानेषु च सशोणितानि शस्त्र.वित्त.बन्धनान्य् उत्सृजेयुः ॥२.२८ततः सत्त्रिणः "शून्य.पालो घातयति विलोपयति च" इत्य् आवेदयेयुः ॥२.२९एवं जानपदान् समाहर्तुर् भेदयेयुः ॥२.३०समाहर्तृ.पुरुषांस् तु ग्राम.मध्येषु रात्रौ तीक्ष्णा हत्वा ब्रूयुः "एवं क्रियन्ते ये जन.पदम् अधर्मेण बाधन्ते" इति ॥२.३१समुत्पन्ने दोषे शून्य.पालं समाहर्तारं वा प्रकृति.कोपेन घातयेयुः ॥२.३२तत्.कुलीनम् अपरुद्धं वा प्रतिपादयेयुः ॥२.३३अन्तः.पुर.पुर.द्वारं द्रव्य.धान्य.परिग्रहान् ।२.३३दहेयुस् तांश् च हन्युर् वा ब्रूयुर् अस्य_आर्त.वादिनः ॥(सेना.मुख्य.वधह्<द्वितीयो भागह्> - मण्डल.प्रोत्साहनम्) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP