संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ९| भाग ५ अध्याय ९ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ अर्थशास्त्रम् अध्याय ०९ - भाग ५ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ५ Translation - भाषांतर ५.०१संध्य्.आदीनाम् अयथा.उद्देश.अवस्थापनम् अपनयः ॥५.०२तस्माद् आपदः सम्भवन्ति ॥५.०३बाह्य.उत्पत्तिर् अभ्यन्तर.प्रतिजापा, अभ्यन्तर.उत्पत्तिर् बाह्य.प्रतिजापा, बाह्य.उत्पत्तिर् बाह्य.प्रतिजापा, अभ्यन्तर.उत्पत्तिर् अभ्यन्तर.प्रतिजापा - इत्य् आपदः ॥५.०४यत्र बाह्या अभ्यन्तर.अनुपजपन्ति, अभ्यन्तरा वा बाह्यान्, तत्र.उभय.योगे प्रतिजपतः सिद्धिर् विशेषवती ॥५.०५सुव्याजा हि प्रतिजपितारो भवन्ति, न_उपजपितारः ॥५.०६तेषु प्रशान्तेषु न_अन्यान्_शक्नुयुर् उपजपितुम् उपजपितारः ॥५.०७कृच्छ्र.उपजापा हि बाह्यानाम् अभ्यन्तरास् तेषाम् इतरे वा ॥५.०८महतश् च प्रयत्नस्य वधः परेषाम्, अर्थ.अनुबन्धश् च_आत्मन इति ॥५.०९अभ्यन्तरेषु प्रतिजपत्सु साम.दाने प्रयुञ्जीत ॥५.१०स्थान.मान.कर्म सान्त्वम् ॥५.११अनुग्रह.परिहारौ कर्मस्व् आयोगो वा दानम् ॥५.१२बाह्येषु प्रतिजपत्सु भेद.दण्डौ प्रयुञ्जीत ॥५.१३सत्त्रिणो मित्र.व्यञ्जना वा बाह्यानां चारम् एषां ब्रूयुः "अयं वो राजा दूष्य.व्यञ्जनैर् अतिसंधातु.कामः, बुध्यध्वम्" इति ॥५.१४दूष्येषु वा दूष्य.व्यञ्जनाः प्रणिहिता दूष्यान् बाह्यैर् भेदयेयुः, बाह्यान् वा दूष्यैः ॥५.१५दूष्यान् अनुप्रविष्टा वा तीक्ष्णाः शस्त्र.रसाभ्यां हन्युः ॥५.१६आहूय वा बाह्यान् घातयेयुः ॥५.१७यत्र बाह्या बाह्यान् उपजपन्ति, अभ्यन्तरान् अभ्यन्तरा वा, तत्र_एकान्त.योग उपजपितुः सिद्धिर् विशेषवती ॥५.१८दोष.शुद्धौ हि दूष्या न विद्यन्ते ॥५.१९दूष्य.शुद्धौ हि दोषः पुनर् अन्यान् दूषयति ॥५.२०तस्माद् बाह्येषु_उपजपत्सु भेद.दण्डौ प्रयुञ्जीत ॥५.२१सत्त्रिणो मित्र.व्यञ्जना वा ब्रूयुः "अयं वो राजा स्वयम् आदातु.कामः, विगृहीताः स्थानेन राज्ञा, बुध्यध्वम्" इति ॥५.२२प्रतिजपितुर् वा दूत.दण्डान् अनुप्रविष्टास् तीक्ष्णाः शस्त्र.रस.आदिभिर् एषां छिद्रेषु प्रहरेयुः ॥५.२३ततः सत्त्रिणः प्रतिजपितारम् अभिशंसेयुः ॥५.२४अभ्यन्तरान् अभ्यन्तरेषु_उपजपत्सु यथा.अर्हम् उपायं प्रयुञ्जीत ॥५.२५तुष्ट.लिङ्गम् अतुष्टं विपरीतं वा साम प्रयुञ्जीत ॥५.२६शौच.सामर्थ्य.अपदेशेन व्यसन.अभ्युदय.अवेक्षणेन वा प्रतिपूजनम् इति दानम् ॥५.२७मित्र.व्यञ्जनो वा ब्रूयाद् एतान् "चित्त.ज्ञान.अर्थम् उपधास्यति वो राजा, तद् अस्य_आख्यातव्यम् इति ॥५.२८परस्पराद् वा भेदयेद् एनान् "असौ च_असौ च वो राजन्य् एवम् उपजपति" - इति भेदः ॥५.२९दाण्डकर्मिकवच् च दण्डः ॥५.३०एतासां चतसृणाम् आपदाम् अभ्यन्तराम् एव पूर्वं साधयेत् ॥५.३१अहि.भयाद् अभ्यन्तर.कोपो बाह्य.कोपात् पापीयान् इत्य् उक्तं पुरस्ताद् ॥५.३२पूर्वां पूर्वां विजानीयाल् लघ्वीम् आपदम् आपदाम् ।५.३२उत्थितां बलवद्भ्यो वा गुर्वीं लघ्वीं विपर्यये ॥(दूष्य.शत्रु.सम्युक्ताह् <आपदह्>) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP