संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ९| भाग ४ अध्याय ९ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ अर्थशास्त्रम् अध्याय ०९ - भाग ४ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ४ Translation - भाषांतर ४.०१युग्य.पुरुष.अपचयः क्षयः ॥४.०२हिरण्य.धान्य.अपचयो व्ययः ॥४.०३ताभ्यां बहु.गुण.विशिष्टे लाभे यायात् ॥४.०४आदेयः प्रत्यादेयः प्रसादकः प्रकोपको ह्रस्व.कालस् तनु.क्षयो_अल्प.व्ययो महान् वृद्ध्य्.उदयः कल्यो धर्म्यः पुरोगश् च_इति लाभ.सम्पत् ॥४.०५सुप्राप्य.अनुपाल्यः परेषाम् अप्रत्यादेय इत्य् आदेयः ॥४.०६विपर्यये प्रत्यादेयः ॥४.०७तम् आददानस् तत्रस्थो वा विनाशं प्राप्नोति ॥४.०८यदि वा पश्येत् "प्रत्यादेयम् आदाय कोश.दण्ड.निचय.रक्षा.विधानान्य् अवस्रावयिष्यामि, खनि.द्रव्य.हस्ति.वन.सेतु.बन्ध.वणिक्.पथान् उद्धृत.सारान् करिष्यामि, प्रकृतीर् अस्य कर्शयिष्यामि, अपवाहयिष्यामि, आयोगेन_आराधयिष्यामि वा, ताः परं प्रतियोगेन कोपयिष्यति, प्रतिपक्षे वा_अस्य पण्यम् एनं करिष्यामि, मित्रम् अपरुद्धं वा_अस्य प्रतिपादयिष्यामि, मित्रस्य स्वस्य वा देशस्य पीडाम् अत्रस्थस् तस्करेभ्यः परेभ्यश् च प्रतिकरिष्यामि, मित्रम् आश्रयं वा_अस्य वैगुण्यं ग्राहयिष्यामि, तद् अमित्र.विरक्तं तत्.कुलीनं प्रतिपत्स्यते, सत्कृत्य वा_अस्मै भूमिं दास्यामि इति संहित.समुत्थितं मित्रं मे चिराय भविष्यति" इति प्रत्यादेयम् अपि लाभम् आददीत ॥४.०९इत्य् आदेय.प्रत्यादेयौ व्याख्यातौ ॥४.१०अधार्मिकाद् धार्मिकस्य लाभो लभ्यमानः स्वेषां परेषां च प्रसादको भवति ॥४.११विपरीतः प्रकोपक इति ॥४.१२मन्त्रिणाम् उपदेशाल् लाभो_अलभ्यमानः कोपको भवति "अयम् अस्माभिः क्षय.व्ययौ ग्राहितः" इति ॥४.१३दूष्य.मन्त्रिणाम् अनादराल् लाभो लभ्यमानः कोपको भवति "सिद्ध.अर्थो_अयम् अस्मान् विनाशयिष्यति" इति ॥४.१४विपरीतः प्रसादकः ॥४.१५इति प्रसादक.कोपकौ व्याख्यातौ४.१६गमन.मात्र.साध्यत्वाद् ह्रस्व.कालह्४.१७मन्त्र.साध्यत्वात् तनु.क्षयः ॥४.१८भक्त.मात्र.व्ययत्वाद् अल्प.व्ययह्४.१९तदात्व.वैपुल्यान् महान् ॥४.२०अर्थ.अनुबन्धकत्वाद् वृद्ध्य्.उदयः ॥४.२१निराबाधकत्वात् कल्यः ॥४.२२प्रशस्त.उपादानाद् धर्म्यः ॥४.२३सामवायिकानाम् अनिर्बन्ध.गामित्वात् पुरोगः - इति ॥४.२४तुल्ये लाभे देश.कालौ शक्त्य्.उपायौ प्रिय.अप्रियौ जव.अजवौ सामीप्य.विप्रकर्षौ तदात्व.अनुबन्धौ सारत्व.सातत्ये बाहुल्य.बाहु.गुण्ये च विमृश्य बहु.गुण.युक्तं लाभम् आददीत ॥४.२५लाभ.विघ्नाः - कामः कोपः साध्वसं कारुण्यं ह्रीर् अनार्य.भावो मानः सानुक्रोशता पर.लोक.अपेक्षा धार्मिकत्वम् अत्यागित्वं दैन्यम् असूया हस्त.गत.अवमानो दौरात्म्यम् अविश्वासो भयम् अप्रतीकारः शीत.उष्ण.वर्षाणाम् आक्षम्यं मङ्गल.तिथि.नक्षत्र.इष्टित्वम् इति ॥४.२६नक्षत्रम् अति पृच्छन्तं बालम् अर्थो_अतिवर्तते ।४.२६अर्थो ह्य् अर्थस्य नक्षत्रं किं करिष्यन्ति तारकाः ॥४.२७न_अधनाः प्राप्नुवन्त्य् अर्थान् नरा यत्न.शतैर् अपि ।४.२७अर्थैर् अर्था प्रबध्यन्ते गजाः प्रजिगजैर् इव ॥(बाह्य.अभ्यन्तराश् च_आपदह्) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP