अर्थशास्त्रम् अध्याय ०९ - भाग १

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


१.०१
विजिगीषुर् आत्मनः परस्य च बल.अबलं शक्ति.देश.काल.यात्रा.काल.बल.समुद्दान.काल.पश्चात्.कोप.क्षय.व्यय.लाभ.आपदां ज्ञात्वा विशिष्ट.बलो यायात्, अन्यथा_आसीत ॥

१.०२
"उत्साह.प्रभावयोर् उत्साहः श्रेयान् ॥

१.०३
स्वयं हि राजा शूरो बलवान् अरोगः कृत.अस्त्रो दण्ड.द्वितीयो_अपि शक्तः प्रभाववन्तं राजानं जेतुम् ॥

१.०४
अल्पो_अपि च_अस्य दण्डस् तेजसा कृत्य.करो भवति ॥

१.०५
निरुत्साहस् तु प्रभाववान् राजा विक्रम.अभिपन्नो नश्यति" इत्य् आचार्याः ॥

१.०६
न_इति कौटिल्यः ॥

१.०७
प्रभाववान् उत्साहवन्तं राजानं प्रभावेन_अतिसंधत्ते तद्.विशिष्टम् अन्यं राजानम् आवाह्य भृत्वा क्रीत्वा प्रवीर.पुरुषान् ॥

१.०८
प्रभूत.प्रभाव.हय.हस्ति.रथ.उपकरण.सम्पन्नश् च_अस्य दण्डः सर्वत्र_अप्रतिहतश् चरति ॥

१.०९
उत्साहवतश् च प्रभाववन्तो जित्वा क्रीत्वा च स्त्रियो बालाः पङ्गवो_अन्धाश् च पृथिवीं जिग्युर् इति ॥

१.१०
"प्रभाव.मन्त्रयोः प्रभावः श्रेयान् ॥

१.११
मन्त्र.शक्ति.सम्पन्नो हि वन्ध्य.बुद्धिर् अप्रभावो भवति ॥

१.१२
मन्त्र.कर्म च_अस्य निश्चितम् अप्रभावो गर्भ.धान्यम् अवृष्टिर् इव_उपहन्ति" इत्य् आचार्याः ॥

१.१३
न_इति कौटिल्यः ॥

१.१४
मन्त्र.शक्तिः श्रेयसी ॥

१.१५
प्रज्ञा.शास्त्र.चक्षुर् हि राजा_अल्पेन_अपि प्रयत्नेन मन्त्रम् आधातुं शक्तः परान् उत्साह.प्रभाववतश् च साम.आदिभिर् योग.उपनिषद्भ्यां च_अतिसंधातुम् ॥

१.१६
एवम् उत्साह.प्रभाव.मन्त्र.शक्तीनाम् उत्तर.उत्तर.अधिको_अतिसंधत्ते ॥

१.१७
देशः पृथिवी ॥

१.१८
तस्यां हिमवत्.समुद्र.अन्तरम् उदीचीनं योजन.सहस्र.परिमाणं तिर्यक् चक्र.वर्ति.क्षेत्रम् ॥

१.१९
तत्र_अरण्यो ग्राम्यः पर्वत औदको भौमः समो विषम इति विशेषाः ॥

१.२०
तेषु यथा.स्व.बल.वृद्धि.करं कर्म प्रयुञ्जीत ॥

१.२१
यत्र.आत्मनः सैन्य.व्यायामानां भूमिः, अभूमिः परस्य, स उत्तमो देशः, विपरीतो_अधमः, साधारणो मध्यमः ॥

१.२२
कालः शीत.उष्ण.वर्ष.आत्मा ॥

१.२३
तस्य रात्रिर् अहः पक्षो मास ऋतुर् अयनं संवत्सरो युगम् इति विशेषाः ॥

१.२४
तेषु यथा.स्व.बल.वृद्धि.करं कर्म.प्रयुञ्जीत ॥

१.२५
यत्र.आत्मनः सैन्य.व्यायामानाम् ऋतुः अनृतुः परस्य, स उत्तमः कालः, विपरीतो_अधमः, साधारणो मध्यमः ॥

१.२६
"शक्ति.देश.कालानां तु शक्तिः श्रेयसी" इत्य् आचार्याः ॥

१.२७
शक्तिमान् हि निम्न.स्थलवतो देशस्य शीत.उष्ण.वर्षवतश् च कालस्य शक्तः प्रतीकारे भवति ॥

१.२८
"देशः श्रेयान्" इत्य् एके ॥

१.२९
"स्थल.गतो हि श्वा नक्रं विकर्षति, निम्न.गतो नक्रः श्वानम्" इति ॥

१.३०
"कालः श्रेयान्" इत्य् एके ॥

१.३१
"दिवा काकः कौशिकं हन्ति, रात्रौ कौशिकः काकम्" इति ॥

१.३२
न_इति कौटिल्यः ॥

१.३३
परस्पर.साधका हि शक्ति.देश.कालाः ॥

१.३४
तैर् अभ्युच्चितस् तृतीयं चतुर्थं वा दण्डस्य_अंशं मूले पार्ष्ण्यां प्रत्यन्त.अटवीषु च रक्षा विधाय कार्य.साधन.सहं कोश.दण्डं च_आदाय क्षीण.पुराण.भक्तम् अगृहीत.नव.भक्तम् असंस्कृत.दुर्गम.मित्रं वार्षिकं च_अस्य सस्यं हैमनं च मुष्टिम् उपहन्तुं मार्गशीर्षीं यात्रां यायात् ॥

१.३५
हैमानं च_अस्य सस्यं वासन्तिकं च मुष्टिम् उपहन्तुं चैत्रीं यात्रां यायात् ॥

१.३६
क्षीण.कृण.काष्ठ.उदकम् असंस्कृत.दुर्गम.मित्रं वासन्तिकं च_अस्य सस्यं वार्षिकीं च मुष्टिम् उपहन्तुं ज्येष्ठामूलीयां यात्रां यायात् ॥

१.३७
अत्युष्णम् अल्प.यवस.इन्धन.उदकं वा देशं हेमन्ते यायात् ॥

१.३८
तुषार.दुर्दिनम् अगाध.निम्न.प्रायं गहन.तृण.वृक्षं वा देशं ग्रीष्मे यायात् ॥

१.३९
स्व.सैन्य.व्यायाम.योग्यं परस्य_अयोग्यं वर्षति यायात् ॥

१.४०
मार्गशीर्षीं तैषीं च_अन्तरेण दीर्घ.कालां यात्रां यायात्, चैत्रीं वैशाखीं च_अन्तरेण मध्यम.कालाम्, ज्येष्ठामूलीयाम् आषाढीं च_अन्तरेण ह्रस्व.कालाम्, उपोषिष्यन् व्यसने चतुर्थीम् ॥

१.४१
व्यसन.अभियानं विगृह्य.याने व्याख्यातम् ॥

१.४२
प्रायशश् च_आचार्याः "पर.व्यसने यातव्यम्" इत्य् उपदिशन्ति ॥

१.४३
शक्त्य्.उदये यातव्यम् अनैकान्न्तिकत्वाद् व्यसनानाम् इति कौटिल्यः ॥

१.४४
यदा वा प्रयातः कर्शयितुम् उच्छेतुं वा शक्नुयाद् अमित्रं तदा यायात् ॥

१.४५
अत्युष्ण.उपक्षीणे काले हस्ति.बल.प्रायो यायात् ॥

१.४६
हस्तिनो ह्य् अन्तः.स्वेदाः कुष्ठिनो भवन्ति ॥

१.४७
अनवगाहमानास् तोयम् अपिबन्तश् च_अन्तर्.अवक्षाराच् च_अन्धी.भवन्ति ॥

१.४८
तस्मात् प्रभूत.उदके देशे वर्षति च हस्ति.बल.प्रायो यायात् ॥

१.४९
विपर्यये खर.उष्ट्र.अश्व.बल.प्रायो देशम् अल्प.वर्ष.पङ्कम् ॥

१.५०
वर्षति मरु.प्रायं चतुर्.अङ्ग.बलो यायात् ॥

१.५१
सम.विषम.निम्न.स्थल.ह्रस्व.दीर्घ.वशेन वा_अध्वनो यात्रां विभजेत् ॥

१.५२
सर्वा वा ह्रस्व.कालाः स्युर् यातव्याः कार्य.लाघवात् ।

१.५२
दीर्घाः कार्य.गुरुत्वाद् वा वर्षा.वासः परत्र च ॥

(बल.उपादान.कालाह् -सम्नाह.गुणाह् -प्रतिबल.कर्म)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP