संस्कृत सूची|संस्कृत साहित्य|समय-मातृका| उपसंहारः समय-मातृका प्रथमः समयः द्वितीयः समयः तृतीयः समयः चतुर्थः समयः पञ्चमः समयः षष्ठः समयः सप्तमः समयः अष्टमः समयः उपसंहारः समय मातृका - उपसंहारः क्षेमेंद्र के ग्रंथ समयमातृका का रचनाकाल १०५० ई है। यह एक हास्य प्रहसन का अत्युत्तम ग्रंथ है । Tags : kshemendrasamay matrukaक्षेमेन्द्रसंस्कृतसमय मातृका उपसंहारः Translation - भाषांतर सालङ्कारतया विभक्ति-रुचिर-च्छाया विशेषाश्रयावक्रा सादर-चर्वणा रसवती मुग्धार्थ-लब्धा परम् ।आश्चर्योचित-वर्णना-नव-नवास्वाद-प्रमोदार्चितावेश्या सत्-कवि-भारतीव हरति प्रौढा कला-शालिनी ॥१॥संवत्सरे पञ्चविंशे पौष-ऊक्लादि-वासरे ।श्रीमतां भूति-रक्षायै रचितो’यं स्मितोत्सवः ॥२॥अदिर्-च्छिद्र-विनिद्र-रौद्र-फ्णिनाम् अत्रास्ति कालं कुलंमत्तास् तत्र वसन्ति दन्ति-पतयः सिंहाश्रयेयं गुहा ।इत्य् आर्ति-प्रतिबद्ध-वृद्ध-शबरी वर्गेण मार्गाग्रगायद् वैरि-प्रमदाः सदा वन-मही-गाढ-ग्रहे वारिताः ॥३॥वीरस्यार्त-दया-विधेय-मनसः शील-व्रतालङ्कृतेर्निस्त्रिंशः पर-दार-कृज्-जय-विधौ यस्यैक-कार्यः सुहृत् ।तस्यानन्त-मही-पतेर् विरजसः प्राज्याधिराज्योदयेक्षेमेन्द्रेण सुभाषितं कृतम् इदं सत्-पक्ष-रक्षा-क्षमम् ॥४॥इति श्री-क्षेमेन्द्र-कृता समय-मातृका समाप्ता ॥ N/A References : N/A Last Updated : November 29, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP