संस्कृत सूची|संस्कृत साहित्य|समय-मातृका| पञ्चमः समयः समय-मातृका प्रथमः समयः द्वितीयः समयः तृतीयः समयः चतुर्थः समयः पञ्चमः समयः षष्ठः समयः सप्तमः समयः अष्टमः समयः उपसंहारः समय मातृका - पञ्चमः समयः क्षेमेंद्र के ग्रंथ समयमातृका का रचनाकाल १०५० ई है। यह एक हास्य प्रहसन का अत्युत्तम ग्रंथ है । Tags : kshemendrasamay matrukaक्षेमेन्द्रसंस्कृतसमय मातृका राग-विभागोपन्यासः Translation - भाषांतर अथ मन्मथ-मत्तानं करिणाम् इव कामिनाम् ।बन्धाय बन्धकी-शिक्षाम् आचचक्षे जरच्-छिखा ॥१॥श्रूयतां पुत्रि सर्वत्र विचित्रोपाय-वृत्तये ।मया दुहितृ-वात्सल्याद् अर्थ्यं किंचित् तद् उच्यते ॥२॥पूर्वं भाव-परीक्षैव कार्या यत्नेन कामिनाम् ।ज्ञात-राग-विभागानां कर्तव्यौ त्याग-सङ्ग्रहौ ॥३॥कुसुम्भ-रागः सिन्दूर-रागः कुङ्कुम-रागवान् ।लाक्षा-रागो’थ मञ्जिष्ठो रागः काषाय-राग-भृत् ॥४॥हारिद्रो नील-रागश् चेत्य् अष्टौ वर्णानुकारिणः ।सुवर्ण-रागस् ताम्राख्यो रीति-रागस् तथापरः ॥५॥रागः सीसक-संज्ञश् च लौहो मणि-समुद्भवः ।काच-रागस् तथा शैलो ह्य् अष्टौ धात्व्-अनुकारिणः ॥६॥सान्ध्य-रागस् तथा चान्द्रस् तथेन्द्रायुध एव च ।वैद्युताङ्गार-केत्व्-आख्य-रवि-रागस् तथैव च ॥७॥राहु-रागो’ष्टमश् चेति रागा गगन-सङ्गिनः ।श्रोत्र-रागो’क्षि-रागश् च रसना-संश्रयस् तथा ॥८॥त्वग्-रागो घ्राण-रागश् च मानसो बुद्धि-सम्भवः ।अहङ्काराभिधानश् चेत्य् अष्टाव् इन्द्रिय-संज्ञकाः ॥९॥वृष-रागो’श्व-रागश् च कृकलासाह्वयस् तथा ।मेष-रागः श्व-रागश् च खर-रागस् तथापरः ॥१०॥मार्जार-रागो हस्त्य्-आख्यश् चेत्य् अष्टौ प्राणि-भेद-जाः ।शुक-रागो हंस-रागस् तथा पारावताभिधः ॥११॥मायूरश् चेटकाख्यश् च कृकवाकु-समुद्भवः ।कोकिलो जीवजीवाख्यश् चेत्य् अष्टौ पक्षि-जातयः ॥१२॥केश-रागो’स्थि-रागश् च नखाख्यः पाणि-सङ्गतः ।दन्त-रागस् तथा पाद-रागस् तिलक-रागवान् ॥१३॥कर्णपूराभिधानश् चेत्य् अष्टाव् अङ्ग-विभाविनः ।छाया-रागस् तथा भूत-रागो’पस्मारवान् अपि ॥१४॥ग्रह-रागो’थ गान्धर्वो यक्षाख्यः क्षोभ-राग-भृत् ।पिशाच-राग इत्य् अष्टौ महा-रागाः प्रकीर्तिताः ॥१५॥कौसुमः कुम्भ-रागश् च नारङ्गाङ्को’थ दाडिमः ।मद्य-रागः कुष्ठ-रागो विसर्पाख्यश् चिताभिधः ॥१६॥भ्रामरो’प्य् अथ पातङ्गो वृश्चिकाख्यो ज्वराभिधः ।भ्रमाख्यः स्मृति-जन्मा च रति-रागो ग्रहाभिधः ॥१७॥रागो रुधिर-संज्ञश् च षोडशैते प्रकीर्णकाः ।संक्षिप्तं लक्षणं तेषां क्रमेण श्रूयताम् इदम् ॥१८॥कौसुम्भो रक्षितः स्थायी क्षणान् नाश्यत्य् उपेक्षितः ।स्वभाव-रूक्षः सैन्दूरः स्नेह-श्लेषेण धार्यते ॥१९॥अल्प-लीनः सुखायैव घनो दुःखाय कौङ्कुमः ।तप्तः श्लिष्यति लाक्षाङ्कः श्लेषं नायाति शीतलः ॥२०॥तप्तः शीतश् च माञ्जिष्ट् स्थिर-भोग-क्षमः समः ।स्थिरो रौक्ष्येण काषायः स्नेह-योगेन नश्यति ॥२१॥सुरक्षितो’पि हारिद्रः क्षणेनैव विरज्यते ।नीलो देह-क्षय-स्थायी वार्यमाणो’पि निश्चलः ॥२२॥सौवर्णश् छेद-निर्घर्ष-तापैस् तुल्य-रुचिः सदा ।मृज्यमानस्य वैमल्यं ताम्र-संज्ञस्य नान्यथा ॥२३॥रीति-नाम्नस् तु मालिन्यं स्नेहेनाप्य् उपजायते ।सैसस्यादौ च मध्ये च क्षये च मलिना रुचिः ॥२४॥तीक्ष्ण-स्वभावाल् लोहस्य काठिन्याच् च न नम्रता ।मणि-नामा च निर्व्याजः सहज-स्वच्छ-निश्चलः ॥२५॥स्वभाव-भिदुरः काच-संज्ञश् छल-निरीक्षकः ।शैलो’पि गौरव-स्थायी हृदयाभाव-नीरसः ॥२६॥सान्ध्यचलश् च नित्यश् च कल्प-दोषो दशाश्रयः ।चन्द्र-रागः प्रशान्तार्ति-शीतलः क्षय-वृद्धि-भाक् ॥२७॥ऐन्द्रायुधो बहु-रुचिर् वक्र-माया-विलास-भूः ।वैद्युतस् तरलारम्भ-दृष्ट-नष्ट-विकार-कृत् ॥२८॥अङ्गारः स्त्री-जनावज्ञा-ज्वलितो लोहिताननः ।केतु-संज्ञः स्फुटानर्थ-कारी बन्ध-वधादिभिः ॥२९॥आर्कस् तीक्ष्णतया नित्य-सन्तापः सततोदयः ।मित्र-क्षयैषी विषमो राहु-रागो महा-ग्रहः ॥३०॥श्रौत्रः कर्ण-सुखाभ्यासाद् गुणाकर्णन-तत्परः ।अक्षिजन्मा परं रूप-मात्रे परिणत-स्पृहः ॥३१॥रासनो विविधास्वाद-भोज्य-संहार-लौल्यवान् ।त्वङ्-मयः सर्वम् उत्सृज्य सर्वाङ्गालिङ्गनोत्सुकः ॥३२॥घ्राणाख्यः पुष्प-धूपादि-भूरि-सौरभ-लोभ-भृत् ।मानसः सतताभ्यस्त-स्पृहा-मात्र-मनोरथः ॥३३॥बुद्ध्याख्यो गुणवत् कान्तासक्ति-व्यसन-वर्जितः ।अहङ्काराभिधः श्लाघ्य-सङ्गमोन्नति-लक्षणः ॥३४॥वृष-संज्ञश् च तारुण्यात् काय-दर्प-बलोद्भवः ।अश्वस् तु रत-मात्रार्थी तत्-कालोद्यत-कातरः ॥३५॥कृकलासाभिधानश् च स्त्रैण-दर्शन-चञ्चलः ।मेषाक्यः शष्प-कवलाभ्यास-तुल्य-रति-स्पृहः ॥३६॥श्वाख्यो रत्य्-अन्त-विमुखः स्त्री-रहस्य-प्रकाशकः ।गार्दभः क्रूर-संमर्द-तृप्ति-मात्र-परायणः ॥३७॥मार्जार-जन्मा सातत्याद् अत्यन्त-निकट-स्थितिः ।कौञ्जरः क्लेश-बन्धादि-निरपेक्ष-समागमः ॥३८॥शुकाभिधो’न्तर् निःस्नेहः कामं मुख-सुख-स्थितिः ।हंस-संज्ञः सुख-स्थित्या गुण-दोष-विभाग-कृत् ॥३९॥पारावताख्यः स-स्नेह-हरति-सर्वस्व-लक्षणः ।मायूरः स्व-वपुः-स्फीत-रूप-प्रमद-नृत्तवान् ॥४०॥बहुशः सुरतासङ्ग-मात्रार्थी चटकाभिधः ।कृकवाकु-भवः कान्ता-क्लेश-लेश-विभागवान् ॥४१॥कोकिलो मधुरालापः प्रभूत-प्रसरत्-कथः ।जीवजीवक-संज्ञश् च परिचुम्बन-निश्चलः ॥४२॥केशाख्यः सप्त-दिवस-स्थायी कृच्छ्रानुरञ्जकः ।अस्थि-संस्थो’न्तर-स्थश् च प्रच्छन-स्नेह-जीवितः ॥४३॥नखाभिख्यो मास-मात्र-स्थायी याति शनैः शनैः ।प्राणि-नामा प्रबुद्धो’पि बद्ध-मुष्टेर् न लक्ष्यते ॥४४॥दन्ताभिधो यस् ताम्बूल-लीला-मात्र-रुचिः सदा ।पादाख्यश् चरणालीनः प्रणामैर् एव केवलम् ॥४५॥तिलक-प्रतिमो नीचस्योत्तम-स्त्री-समागमः ।कर्ण-पूरश् च कौटिल्यात् कर्ण-लग्नो’तिकत्थनः ॥४६॥सर्वत्रानुचरः शोष-कारी छाया-ग्रहाभिधः ।अज्ञात-चित्तः स्तब्धाख्यो भूत-संज्ञो विचेतनः ॥४७॥अपस्माराभिधः क्रूर-कोपाक्षेपः क्षणे क्षणे ।ग्रहो वस्त्राञ्चल-ग्राही सजने विजने पथि ॥४८॥गान्धर्वो गीत-नृत्तादि-रस-संसक्त-मानसः ।यक्षः क्षिप्तो न निर्याति गृहावृत्ति-विचक्षणः ॥४९॥यत् तत् प्रलाप-मुखरः क्षोभाखस् त्यक्त-यन्त्रणः ।पैशाचश् चाशुचि-रतस् तीव्र-क्षत-विदारणः ॥५०॥कौसुमः क्षणिकोदाः पूजा-मात्र-परिग्रहः ।भग्नो’पि कौम्भः शकल-श्लेषे श्लिष्ट इवेक्ष्यते ॥५१॥नारङ्गः सरसो’प्य् अन्तर् बहिस् तीक्ष्णः कटुः परम् ।बहु-गर्भतया रूढो हृदये दाडिमाभिधः ॥५२॥क्षण-क्षैब्योपमो माद्यः स्वस्थो वैलक्ष्य-लक्षणः ।बीभत्साचार-वैरस्यात् कुष्ठाख्यो’तिजुगुप्सितः ॥५३॥वैरूप्यं च समायाति च्छेदेनेवाङ्ग-मर्मणाम् ।चिताभिधानः सर्वाङ्ग-दाही वश्य-प्रयोगजः ॥५४॥भ्रामरः कौतुकास्वाद-मात्रो नव-नवोन्मुखः ।पातङ्गः कामिनी-दीप्ति-रसिकः क्षय-निर्भरः ॥५५॥वृश्चिकाख्यो व्यथा-दायी द्वेष्यो’प्य् अत्यन्त-निश्चलः ।त्यक्ताहारो’तिसन्ताप-नष्ट-च्छायो ज्वराभिधः ॥५६॥भ्रम-नामा मति-भ्रंशाच् चक्रारूढ इवाकुलः ।स्मरणाख्यः प्रिय-स्मृत्या कृतान्य-स्त्री-समागमः ॥५७॥रति-ग्रहः सदा स्वप्ने सम्प्राप्त-सुरतोत्सवः ।रौधिरः कलहे रक्त-पातैर् नीचस्य वर्धते ॥५८॥इत्य् अशीतिः समासेन राग-भेदाः प्रकीर्तिताः ।विस्तरेण पुनस् तेषां कः सङ्ख्यां कर्तुम् अर्हति ॥५९॥सुहृज् जनार्दनं कुर्यात् पूर्वं वार-विलासिनी ।वेश्यानां पद्मिनीनां च मित्रायत्ता विभूतयः ॥६०॥सुहृद्भिर् एव जानाति कामुकानां धनं गुणम् ।हृदय-ग्रहणोपायं शीलं रक्तापरक्तताम् ॥६१॥महा-धनस्य सुहृदां कामिनां प्रेम-शालिनाम् ।प्रच्छन्न-सुरतेनापि कुर्याद् आराधनं सदा ॥६२॥एको वित्तवतः सूनुः पितृ-हीनः सुयौवने ।मुग्धे भूभुजि कायस्थः कामि-स्पर्धी वणिक्-सुतः ॥६३॥नित्यातुरामात्य-वैद्य-प्रसिद्धस्य गुरोः सुतः ।प्रच्छन्न-कामो जाड्यः धनः ॥६४॥ नपुंसक-प्रवादस्य प्रशमर्थी फलाशनः ।मत्तो धूर्त-सहायश् च राज-सूनुर् निरङ्कुशः ॥६५॥ग्राम्यो धातृ-द्विज-सुतः प्रप्त-लाभश् च गायनः ।सद्यः सार्थ-पतिः प्राप्तः श्रीमान् दैव-परायणः ॥६६॥गतानुगतिको मूर्खः शास्त्रोन्मादश् च पण्डितः ।नित्य-क्षीबश् च वेश्यानां जङ्गमाः कल्प-पादपाः ॥६७॥प्रथमं प्रार्थिता वेश्या न क्षणो’स्तीत्य् उदाहरेत् ।जनस्यायं स्वभावो हि सुलभाम् अवमन्यते ॥६८॥शिरः-शूलादिकं व्याधिम् अनित्यम् अजुगुप्सितम् ।अवहारोपयोगाय पूर्वम् एव समादिशेत् ॥६९॥पत्नीव कुर्याद् अनुवृत्ति-पूर्वंपूर्वं महार्थस्य वरोपचारम् ।द्रव्यैस् त्वया मन्त्र-जपादिभिर् वावशीकृतास्मीति वदेच् च सर्वम् ॥७०॥स्वयं प्रदत्ते’पि नख-क्षते चशङ्केत तद्-भक्ति-विवाद-शीलम् ।निन्देत् प्रकामं जननीं विरुद्धांगच्छेत् स्वयं वेश्म च कामुकस्य ॥७१॥विदेश-यात्राम् अपि मन्त्रयेततेनैव सार्धं विहितानुबन्धा ।सुप्तस्य कुर्यात् परिचुम्बनम् चगुण-स्तुतिं चार्ध-विबोध-भाजः ॥७२॥स्वप्ने सदैव प्रलपेत् सरागंसर्वं च तन्-नाम-निबद्धम् एव ।न चास्य तृप्तिं सुरतेषु गच्छेद्व्ययस्य कुर्याच् च मुहुर् निषेधम् ॥७३॥तस्माच् च पुत्रार्थ-मनोरथा स्यात्प्राणात्ययं तद्-विरहे वदेच् च ।इत्य् आदिभिः स्वीकरणाद्य्-उपायैर्निबद्ध-बुद्धेर् द्रविणं लभेत ॥७४॥तावच् च तूर्णं धनम् आहरेतयावत् स रागेण विनष्ट-संज्ञः ।प्रशान्त-रागानल-शीतलस् तुस लोह-पिण्डी-कठिनत्वम् एति ॥७५॥याचेत सर्वं सुरतार्ति-कालेतम् ऊरु-बन्धेन निरुद्ध-कायम् ।प्रायेण तृप्ताय न रोचते हिविनम्र-शाखा-परिपक्वम् आम्रम् ॥७६॥सन्धारयेत् तं च विशेष-वित्तंयावन् न निःशेष-धनत्वम् एति ।पुनः पुनः स्नेह-लवार्द्र-वक्त्रादीपं यथा दीपक-दीप-वर्तिः ॥७७॥निष्पीत-सारं विरतोपकारंक्षुण्णेक्षु-शुल्क-प्रतिमं त्यजेत् तम् ।लब्धाधिवास-क्षय-कारि-शुष्कंपुष्पं त्यजत्य् एव हि केश-पाशः ॥७८॥हेमन्त-मार्जार इवातिलीनःस चेन् न निर्याति निरस्यमानः ।तद् एष कार्यस् तनु-मर्म-भेदीप्रवर्धमानः परुषोपचारः ॥७९॥शय्यावहारैर् वचन-प्रहारैःकोप-प्रकारैर् जननी-विकारैः ।कौटिल्य-सारैर् विविध-प्रसारैर्विपद्-विचारैर् गणितापचारैः ॥८०॥याच्ञा-विवादैर् अधनापवादैर्दत्तानुवादैः पर-साधु-वादैः ।निन्दा-प्रवादैः परुष-प्रवादैर्विट-प्रवादैः कथितावसादैः ॥८१॥मुहुः प्रवासैः कलहोपवासैर्माया-निवासैः कटुकाधिवासैः ।स-भ्रू-विलासैर् व्यसनोपवासैर्निष्कासनीयः स पृथु-प्रवासैः ॥८२॥स चेत् पुना राग-जतु-प्रसक्तस्तीव्रावमानैर् अपि न प्रयाति ।तदा तम् उत्क्षिप्त-भुजान्य-वक्त्रादासी वदेद् वित्त-वियोग-दीनम् ॥८३॥यत्राभवत्-कामुक-लोक-यात्राविचित्र-रूपा सततं विभूतिः ।गृहे चतुर्थं दिनम् अद्य तस्मिन्दृष्टस्य दृष्टस्य वधूत्सवस्य ॥८४॥क्लीबस्य यस्यास्ति न भोग-सम्पत्स किं भुजिष्याभवने करोति ।न यस्य हस्ते तर-मूल्यम् अस्तिस किं समारोहति नावम् अग्रे ॥८५॥प्रक्षीण-वित्तेन निरुद्यमेनकिं रूप-युक्तेन करोति वेश्या ।विच्छिन्न-दुग्धा न पुनः स-गर्भासा कस्य गौश् चारुतयोपयुक्ता ॥८६॥मिथ्यैव रिक्तः कुरुते जडानाम्आवर्जनं प्रेम-मयैर् वचोभिः ।क्षीर-क्षये चुम्बन-लालनेनबालस्य वृद्धिं विदधाति धात्री ॥८७॥इत्य् आदिभिस् तद्-वचनावमानैस्तस्मिन् गते ग्रीष्म-तुषार-तुल्ये ।क्षिणं निरस्तं पुनर् आप्त-वित्तंभजेत यत्नाहृत-वित्तम् अन्यत् ॥८८॥प्राप्ते कान्ते कथम् अपि धनादान-पात्रे च वित्तेत्वं मे सर्वं त्वम् असि हृदयं जीवितं च त्वम् एव ।इत्य् उक्त्वा तं क्षपित-विभवं कञ्चुकाभं भुजङ्गीत्यक्त्वा गच्छेत् स-धनम् अपरं वैशिको’यं समासः ॥८९॥उद्देश-लेशेन यद् एतद् उक्तंतत्-कार्य-काले विविध-प्रयोगम् ।तस्मिन् स्व-बुद्ध्यैव विचार्य कार्यम्उक्त्वेति तूष्णीं जरती चकार ॥९०॥इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां राग-विभागोपन्यासो नाम पञ्चमः समयः । N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP