संस्कृत सूची|संस्कृत साहित्य|कथा-संग्रहः|हितोपदेशम्| मंगलाचरणम् हितोपदेशम् मित्रलाभः सुहृद्-भेदः विग्रहः संधिः मंगलाचरणम् कथा-मुखम् हितोपदेशम् - मंगलाचरणम् हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं। Tags : hitopadeshakathastoryकथासंस्कृतहितोपदेश मंगलाचरणम् Translation - भाषांतर सिढिः साध्ये सताम् अस्तु प्रसादात् तस्य धूर्जटेः । जाह्नवी-फेन-लेखेव यन्-मूर्ध्नि शशिनः कला ॥१॥श्रुतो हितोपदेशो यं पाटवं संस्कृतोक्तिषु । वाचां सर्वत्र वैचित्र्यं नीति-विद्यां ददाति च ॥२॥[सम्पादयतु] विद्या-प्रशंसाअजरामरवत् प्राज्ञो विद्यामर्थं च चिंतयेत् । गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥३॥सर्व-द्रव्येषु विद्यैव द्रव्यम् आहुर् अनुत्तमम् । अहार्यत्वाद् अनर्घत्वाद् अक्षयत्वाच् च सर्वदा ॥४॥संयोजयति विद्यैव नीचगापि नरं सरित् । समुद्रम् इव दुर्घर्षं नृपं भाग्यम् अतः परम् ॥५॥विद्या ददाति विनयं विनयाद् याति पात्रताम् । पात्रत्वात् धनम् आप्नोति धनाद् धर्मं ततः सुखम् ॥६॥विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये । आद्या हास्यय वृढत्वे द्वितीयाद्रियते सदा ॥७॥यन् नवे भाजने लग्नः संस्कारो नांयथा भवेत् । कथा-च्छलेन बालानां नीतिस् तद् इह कथ्यते ॥८॥मित्र-लाभः सुहृद्-भेदो विग्रहः संधिर् एव च । पञ्च-तंत्रात् तथांयस्माद् ग्रंथाद् आकृष्य लिख्यते ॥९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP