सूर्य सिद्धांत - चंद्रशृंगोन्नत्यधिकारः

सूर्य सिद्धांत म्हणजे भारतीय खगोलशास्त्रावरील टीका आहे . हा ग्रंथ वराहमिहीरने लिहीला . याचे प्राचीन उल्लेख बौद्ध काळी तिसर्‍या शतकात मिळतात .


उदयास्तविधिः प्राग्वत् कर्तव्यः शीतगोर् अपि ।

भागैर् द्वादशभिः पश्चाद् दृश्यः प्राग् यात्य् अदृश्यताम् ॥१॥

रवीन्द्वोः षड्भयुतयोः प्राग्वल् लग्नान्तरासवः ।

एकराशौ रवीन्द्वोश् च कार्या विवरलिप्तिकाः ॥२॥

तन्नाडिकाहते भुक्ती रवीन्द्वोः षष्टिभाजिते ।

तत्फलान्वितयोर् भूयः कर्तव्या विवरासवः ॥३॥

एवम् यावत् स्थिरीभूता रवीन्द्वोर् अन्तरासवः ।

तैः प्राणैर् अस्तमेतीन्दुः शुक्ले अर्कास्तमयात् परम् ॥४॥

भगणार्धम् रवेर् दत्त्वा कार्यास् तद्विवरासवः ।

तैः प्राणैः कृष्णपक्षे तु शीताम्शुर् उदयम् व्रजेत् ॥५॥

अर्केन्द्वोः क्रान्तिविश्लेषो दिक्साम्ये युतिर् अन्यथा ।

तज्ज्येन्दुर् अर्काद् यत्रासौ विज्ञेया दक्षिणोत्तरा ॥६॥

मध्याह्नेन्दुप्रभाकर्णसङ्गुणा यदि सोत्तरा ।

तदार्कघ्नाक्षजीवायाम् शोध्या योज्या च दक्षिणा ॥७॥

शेषम् लम्बज्यया भक्तम् लब्धो बाहुः स्वदिङ्मुखः ।

कोटिः शङ्कुस् तयोर् वर्गयुतेर् मूलम् श्रुतिर् भवेत् ॥८॥

सूर्योनशीतगोर् लिप्ताः शुक्लम् नवशतोद्धृताः ।

चन्द्रबिम्बाङ्गुलाभ्यस्तम् हृतम् द्वादशभिः स्फुटम् ॥९॥

दत्त्वार्कसम्ज्ञितम् बिन्दुम् ततो बाहुम् स्वदिङ्मुखम् ।

ततः पश्चान् मुखी कोटिम् कर्णम् कोट्यग्रमध्यगम् ॥१०॥

कोटिकर्णयुताद् बिन्दोर् बिम्बम् तात्कालिकम् लिखेत् ।

कर्णसूत्रेण दिक्सिद्धिम् प्रथमम् परिकल्पयेत् ॥११॥

शुक्लम् कर्णेन तद्बिम्बयोगाद् अन्तर्मुखम् नयेत् ।

शुक्लाग्रयाम्योत्तरयोर् मध्ये मत्स्यौ प्रसाधयेत् ॥१२॥

तन्मद्ख्यसूत्रसम्योगाद् बिन्दुत्रिस्पृग् लिखेद् धनुः ॥

प्राग्बिम्बम् यादृग् एव स्यात् तादृक् तत्र दिने शशी ॥१३॥

कोट्या दिक् साधनात् तिर्यक्सूत्रान्ते शृङ्गम् उन्नतम् ।

दर्शयेद् उन्नताम् कोटिम् कृत्वा चन्द्रस्य साकृतिः ॥१४॥

कृष्णे षड्भयुतम् सूर्यम् विशोध्येन्दोस् तथासितम् ।

दद्याद् वामम् भुजम् तत्र पश्चिमम् मण्डलम् विधोः ॥१५॥

N/A

References : N/A
Last Updated : August 18, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP