संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|अथैकाशीतितमः पटलः| विविध मन्त्रोद्धारः अथैकाशीतितमः पटलः विविध मन्त्रोद्धारः अथैकाशीतितमः पटलः - विविध मन्त्रोद्धारः हाकिन्याः मन्त्रोद्धारः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल विविध मन्त्रोद्धारः Translation - भाषांतर श्रीआनन्दभैरवी उवाचअथ वक्ष्यामि लोकेश मन्त्रोद्धारान्तकालके ।हाकिन्याः परनाथस्य साधनं पूजनं श्रृणु ॥१॥त्रयाशीतितमान्ते तु चतुरशीतितमे मम ।परनाथस्य हाकिन्या यजनं चाद्भुतं महत् ॥२॥अप्रकाश्यं महागोप्यं सारात्सारं परात्परम् ।भ्रूपद्मभेदनादीनां क्रमं श्रृणु महेश्वर ॥३॥यो हि जानाति भ्रूमध्ये भ्रूपद्मेभेदनक्रमम् ।स ममाग्रे समायाति जीवन्मुक्तो भवार्णवे ॥४॥तत्क्रमोपक्रमज्ञानं महापातकशनम् ।अकस्मात् सिद्धिदं नित्यं सदानन्दपदप्रदम् ॥५॥भार्या भवति कामेशी लक्ष्मीनाथो भवेद् ध्रुवम् ।आनन्दभैरव उवाचअथ राज्यक्रियासारं केन प्राप्नोति भूतले ॥६॥राजत्वं शिष्यवर्गाणां भेदनं केन वा भवेत् ।साक्षात् सिद्धिक्रमज्ञानं भ्रूपद्मभेदनक्रमम् ॥७॥कृपया वद मे शीघ्रं यदि श्रद्धा दया मयि ।आनन्दभैरवी उवाचविस्तार्य कथायाम्यत्र सारसङ्केमङुलम् ॥८॥श्रीगुरोर्वदनाम्भोजनिजमन्त्रप्रकाशितम् ।श्रुत्वा योगी योगयोग्यो भवत्येव न संशयः ॥९॥अधोमुखे भाति महारविप्रभा ग्रन्थिप्रचण्डोपरिवारकाभिः ।शनैः शनैर्भेदनयोगकालेप्रयत्नमाकृत्य भवेद्धि योगी ॥१०॥बद्धमेकासनं कृत्वा चित्तमारोप्य यत्नथ ।भ्रूपद्मनिकरे शोभामण्डलानन्दपूरिते ॥११॥सत्त्वग्रन्थिपदं भित्वा स्थिरचेता भवेद् ध्रुवम् ।अकालमृत्युः कुत एव तस्यप्रभाकरज्ञाननिकेतशोभौ ।आकाशगामी भुवनाधिकारीस्थिराशयः प्रेमकलापगामी ॥१२॥सप्तसु ग्रन्थिमुखेषु देवताः सप्तधा मुदा ॥१३॥विभन्ति योगिरक्षायै योगमायावशाय च ।स्थिरमाया योगमाया कालमाया च लालिनी ॥१४॥देवमाया धर्ममाया विमाया सप्त देवताः ।ग्रन्थिमध्ये रत्नवर्ण निर्मलानन्ददायिकाः ॥१५॥सत्त्वग्रन्थिर्महादेव आकाशग्रति भाति हि ।आदौ तस्यापि भेदञ्च एकैकक्रयोगतः ॥१६॥सूक्ष्मवायुक्रमेनैव भित्वा च योगमण्डले ।शीघ्रं याति मनो यस्य स वीरो न तु मानुषः ॥१७॥ग्रन्थिनामानि वक्ष्यामि सावधानोऽवधारय ।खगिनी द्राविणी धूम्रा कठिनी कर्कटी तथा ॥१८॥श्यामला कपिला सप्त ग्रन्थिरुपप्रतिष्ठिता ।खगिनीमन्त्रमुच्चार्य सूक्ष्मश्वासक्रमेण तु ॥१९॥ऊर्ध्वमार्गे विहायापि ह्राष्टोत्तरशतेन च ।प्रणवं भुवनेशानी खनीबीजमेव च ॥२०॥भेदा भेदा भवान्ते तु पुनः खं बीजमेव च ।अस्त्रान्तं मन्त्रमुच्चार्य भेदने च दृढो भवेत् ॥२१॥द्राविणीमन्त्रमुच्चार्य सूक्ष्ममार्गेण भैरव ।जपेदष्टोत्तरेणाइ शतमन्त्रेण सर्वदा ॥२२॥प्रणवं परमाबीजं ब्रह्मबीजं ततो बहिः ।वाग्भवं द्राविणीबीजं ग्रन्थिद्रावयुगमकम् ॥२३॥स्वाहास्त्र्यन्तं महामन्त्रं ध्यात्वा ध्यात्वा पुनः पुनः ।जप्त्वा भ्रूदलसूक्ष्मदृष्ट्या विलोक्य भ्रूदलान्तरम् ॥२४॥अकस्माद् भेदमाप्नोति किं बन्धक्लेशतः प्रभो ।धूम्रामन्त्रं प्रवक्ष्यामि येन सिद्धो भवेन्नरः ॥२५॥प्रणवं कमलाबीजं देवेबीजं ततः परम् ।धूम्राबीजं तदन्ते तु मृत्युनाशिनि शब्दतः ॥२६॥ग्रन्थिं हनयुगान्ते तु चास्त्राय फडिति स्थितिः ।इति मन्त्रं सहस्त्रं वा शतं वाष्टोत्तरं जपेत् ॥२७॥चक्रासनमुपाकृत्य भेकासनमथापि वा ।भ्रुवारेन्तर्गतं पद्मं द्विदलं चारुमण्डलम् ॥२८॥तदन्तरे कर्णिकायां महापीठं विचिन्तयेत् ।बिन्दुषट्कोणमालिख्य त्रिकोणस्थान्तरः सुधीः ॥२९॥तद्वहिः सप्तभूरेखं विचिन्त्य पङ्कजं शुभम् ।दिव्य़ं शतदलं विद्युत्कोटिकान्तिसमप्रभम् ॥३०॥पत्रे पत्रे महामुद्रास्थानं परमदुर्लभम् ।दिव्यस्थानं परीवारस्थानं ध्यात्वा पुनः पुनः ॥३१॥कर्णिकाया ततो ध्यायेद् हाकिनीपरमेश्वरम् ।कठिनामन्त्रमावक्ष्ये ग्रन्थिभेत्ता भवेदनु ॥३२॥येन योगक्रमेणैव शास्त्रजालं वशं नयेत् ।प्रणवं वाग्भवं माया रमा कामस्ततः परम् ॥३३॥कठिनग्रन्थि छेदयेति युगलं परमेश्वरि ।मायास्त्राय फडन्ताय महामन्त्र उदाह्रतः ॥३४॥शतमष्टोत्तरं नित्यं सहस्त्रं वा जपेद् बुधः ।अधो मुण्डासनं कृत्वा तत्र पद्मासने विशेत् ॥३५॥भ्रूपद्मे चित्तमारोप्य महापीठे मनोरमे ।पीठं त्रिकोणामध्ये तु बिन्दुषट्कोणमेव च ॥३६॥तद्वहिः सप्तभूमिम्बं तत्र पद्मं विचिन्तयेत् ।रक्तं शत दलं पद्मं चतुर्द्वारं तदुत्तरे ॥३७॥पत्रे पत्रे केशराणि त्रीणि त्रीणि क्रमेण तु ।ब्रह्माविष्णुमहेशादिरुपाणि परिचिन्तयेत् ॥३८॥कर्कटीमन्त्रमावक्ष्ये साक्षाद्भूमिविभेदनात् ।ब्रह्मबीजं मायाशब्दं मायकर्कटीशब्दथ ॥३९॥कूटग्रन्थिं भेदयेति द्वयं कामकला ततः ।अस्त्राय फडिति ख्यातो महामन्त्रोत्तमोत्तमः ॥४०॥शतमष्टोत्तरं ध्यात्वा मन्त्रं चिच्छक्तिमण्डले ।श्यामलामन्त्रमावक्ष्ये भैरवेश महाप्रभो ॥४१॥श्रृणुष्वाराधय ज्ञानं सार्वज्ञासिद्धिदायकम् ।प्रणवं कालिकाबीजं त्रिवारमुच्चरेत् सुधीः ॥४२॥तदन्ते मायायुगलं श्रीबीजं तदनन्तरम् ।तदन्ते श्यामलाबीजं दृढग्रन्थिविभेदिनी ॥४३॥विलं निर्मलं शब्दान्ते मा कुरु द्वयमेव च ।कामास्त्राय फडिति च मन्त्रसारः प्रयोगदः ॥४४॥शतमष्टोत्तरं जाप्यं प्रत्यह्म चासनस्थितः ।शनैः शनैः सिद्धियुक्तो ज्ञानी मौनी महागुणी ॥४५॥भवेत् साधकामुख्यश्च मम देहाश्रितो भवेत् ।कपिलामन्त्रमावक्ष्ये श्रृणुष्व भैरवेश्वर ॥४६॥प्रणवं बालाबीजं तु कपिलाबीजमुत्तमम् ।तां तु ग्रन्थि भेदयेति युगलं छेदयेति च ॥४७॥चित्तं मे भूगृहे पश्चात् समारोपय युग्मकम् ।पुनस्तु कपिलाबीजं मायाबीजं ततो वदेत् ॥४८॥रमास्त्राय फडन्तोऽयं महामन्त्रोतमोत्तमः ।शतमष्टोत्तरं वापि सहस्त्रं प्रजपेद् यदि ॥४९॥द्विमासात् सप्तग्रन्थानी भेत्ता स्याद् भैरवो यथा ।इति ग्रन्थिभेदनस्य क्रमज्ञानमुदाह्रतम् ॥५०॥॥ इति श्रीरुद्रयामले उत्तरमन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे भ्रूपद्मसप्तग्रन्थिभेदो नाम एकादशीतितमः पटलः ॥८१॥ N/A References : N/A Last Updated : May 01, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP