संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|सप्ततितमः पटलः| फलश्रुतिकथनम् सप्ततितमः पटलः फलादेशकथनम् विनियोगकथनम् फलश्रुतिकथनम् सप्ततितमः पटलः - फलश्रुतिकथनम् सदाशिवशाकिणीफलादेशकथनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल फलश्रुतिकथनम् Translation - भाषांतर इति ते कथितं नाथ महाविद्याफलप्रदम् ।कवचं दुर्लभं लोके तव स्नेहात् प्रकाशितम् ॥६६॥अतिगुह्यतरं ज्ञानं कवचं सर्वसिद्धिदम् ।अमलोदारचित्तः सन पूजयित्वा सदाशिवम् ॥६७॥तथा श्रीशाकिनीदेव्याः पूजनं सुमहत्फलम् ।राज्यदं धनदं वाञ्छासिद्धिदं धर्मसिद्धिदम् ॥६८॥वाचां सिद्धिं करे प्राप्य अष्टसिद्धिः करे भवेत् ।काकिनीदर्शनं प्राप्य शाकिनीदर्शन भवेत् ॥६९॥मन्त्रसिद्धि तन्त्रसिद्धिं क्रियासिद्धिं लभेद् ध्रुवम् ।आकाशगामिनी सिद्धिः करे तस्य विराजते ॥७०॥पुरुषो दक्षिणे बाहौ योषिद्वामभुजे तथा ।धृत्वा कवचराजं तु राजत्वं लभते ध्रुवम् ॥७१॥महापातककोटीश्च हत्वा राजत्वमालभेत् ।वने वृक्षतलेऽश्वत्थमूले स्थित्वा पठेद् यदि ॥७२॥त्रिसन्ध्यं दशधा जप्त्वा शतधा वा सहस्तधा ।स भवेत् कल्पवृक्षेशो भूमीशो नात्र संशयः ॥७३॥कोटिवर्षसहस्त्राणि चिरजीवी स योगिराट् ।महासिद्धो भवेद् धीमान् महापातकनाशकृत् ॥७४॥मासार्धेन भवेद् योग्यो विप्रो गुणसमन्वितः ।वर्षैकेण क्षत्रियश्च वैश्यो वर्षचतुष्ट्ये ॥७५॥शूद्रो द्वादशवर्षेण योगी भवति पाठतः ।एवं महाफलं नित्यं कवचं यः पठेत् सुधीः ॥७६॥भोगमोक्षौ करे तस्य किमन्यैर्बहुभाषितैः ॥७७॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपन सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवभैरवीसंवादे सदाशिवशाकिनीकवचफलादेशो नाम सत्पतितमः पटलः ॥७०॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP