संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|सप्ततितमः पटलः| विनियोगकथनम् सप्ततितमः पटलः फलादेशकथनम् विनियोगकथनम् फलश्रुतिकथनम् सप्ततितमः पटलः - विनियोगकथनम् सदाशिवशाकिणीफलादेशकथनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल विनियोगकथनम् Translation - भाषांतर अस्य श्रीशाकिनीसदाशिवकामनानामहाकवचस्य सदाशिवऋषिर्गायत्रीच्छन्दःशाकिनी देवता सकलहरीं जीवबीजं मायाबीजं मायास्त्रशक्तिः कामस्वाहा कीलकं वज्रंदंष्ट्राघोरघर्घरामहोग्राशाकिनीशक्तिः सदाशिवमहामन्त्रासिद्धये विनियोगः ॐ प्रभावा सदा पातु महाकाशाधिशाकिनी ।त्रिगुणा चण्डिका पातु क्रोधद्रंष्ट्रा करालिनी ॥१०॥अनन्ताऽनन्तमहिमा महास्त्रदलपङुजम् ।पूर्वाहणं पातु सततं गायत्री सविता मम ॥११॥आकाशवाहिनी देवी शिरोमङुलमद्भुतम् ।सर्वदा पातु मे गुह्यं लिङुं चक्रं सुधामयम् ॥१२॥महामण्डलमध्यस्था पातु मे भालमण्डलम् ।सहस्त्रशतकोटीन्दुयोगिनीगणमण्डलम् ॥१३॥महाचक्रेश्वरी पातु महाचक्रेश्वरो मम ।मुखाब्जं चण्डिका देवी दन्तावलिमनन्तकः ॥१४॥जिहवाग्रं तालुमूलस्था तालुमूलं मनोजवः ।तीक्ष्णदंष्ट्रा दन्तमध्यं कण्ठाग्रं चिबुकं शिवः ॥१५॥सदा पातु षोडशारं शाकिनी श्रीसदाशिवः ।कण्ठमध्यस्थितं पातु महामोहविनाशिनी ॥१६॥प्रेतराजः सदा पातु महादेवी स्वपङ्कजम् ।विद्यादेवी महाशक्तिः कूटस्थानं सदाशिवः ॥१७॥महाकाशावलघ्नी मे धूम्रां भोजञ्च धूर्जटी ।कौमुदी पटलाङी मे वर्णषोडशसंज्ञकम् ॥१८॥अकारदिकान्तवर्णान् श्रीदेवी परिपातु मे ।हेमचित्ररथस्था मे चित्रिणी पातु मे मधु ॥१९॥अपर्णा या विशुद्ध्म मे षोडशी षोडशाक्ष्यकम् ।पञ्चदुर्गा सहदेवः प्रत्येकं पातु मे दलम् ॥२०॥दीपमासहल्कीं मे प्रवरा पातु मे बला ।व्यापिनी चानवच्छिन्ना पातु मे दलमण्डलम् ॥२१॥अकालतारिनी दुर्गा शुक्रं चक्रं सदावतु ।शाकिनीशो महामाया परिवारान्विताऽवतु ॥२२॥पञ्चरश्मिनीलकण्ठो मधुपूरं स्वपीठकम् ।सदा पातु कण्ठपङ्केरुहाश्रयस्वरानपि ॥२३॥कण्ठस्वर्गः सदा पातु कन्दर्पेशो मनोगतिः ।शाकिनी शाकविभवा शाकेशी शाकसम्भवा ॥२४॥शाकम्भरीश्वरा पातु सुमना दलषोडशम् ।सदाशिवः सदा पातु परिवारगणैः सह ॥२५॥ह्रदयं शाकिनी देवी शिरःस्थानं सदावतु ।काकिनीसहितं पातु द्वादशारं कुलेश्वरी ॥२६॥दलद्वादशकं पातु कामनाथः सदाशिवः ।अभेदरुपिणी पातु कादिठान्ताक्षर मम ॥२७॥वाणी मे ह्रदयग्रन्थिर्देशं तु कपिलेश्वरः ।पायान्मेघं च सूर्यास्या विमाया ह्रत्सु कर्णिकाम् ॥२८॥तालहस्ता महावानी पातु मे ह्रदयान्तरम् ।शोषिणी मोहिनी वहिनः पातु मे ह्रदयाम्बुजम् ॥२९॥पिलापिप्पलादेशो रतिर्मे ह्रदयेप्सितम् ।योगिनीकुलदन्तश्च पातु मे ह्रत्स्वरानपि ॥३०॥केकरेशो गूढसंज्ञा वज्रधारी ह्रदम्बुजम् ।एकलिङी सदा पातु ह्रदयान्तः शिवं मम ॥३१॥तदधो मण्डलं पातु भेदाभेदविवर्जिता ।अकाललक्षणः पातु पाशिनी नाभिमण्डलम् ॥३२॥कालकूटस्वरुपो मे नाभिपद्मं प्रपातु मे ।चन्द्रचूडा विधुमुखी शाकिनी मे दशाम्बुजम् ॥३३॥त्रिवृत्ताकारमुद्रा मे पातु रुद्रश्च लाकिनीम् ।त्रिखण्डारोहणः पातु डादिफान्ताक्षरानपि ॥३४॥कालिका कपिला कृष्णा घनावाला कपालिनी ।ललिता तारिणी सर्वां महामाया दशच्छदम् ॥३५॥परिपातु कामदुर्गा लाकिनी पातु मे सदा ।सदाशिवः पातु नित्यं मणिपूरं कुलस्थलम् ॥३६॥जाड्यनाशकरी दुर्गा मुण्डमालाविभूषिता ।मां पातु सप्तरोधात्मा केशवेशी महापदम् ॥३७॥अभया चण्डिका कृष्णा कालिका कुलपण्डिता ।वज्रवर्णा धारणाख्या धरा धात्री क्षमा रमा ॥३८॥वासुकी वसुधा वाच्या सर्वाणी सर्वमङुला ।पार्वती सर्वशक्तिस्था पार्वणे परिपातु माम् ॥३९॥ रणे राजकुले द्यूते वादे मानापमानके ।गेहेऽरण्ये प्रान्तरे च चले चानलमध्यके ॥४०॥सर्वाणी सर्वदा पातु महातन्त्रार्थभूषिता ।विजया पदिमनी जाया जानकी कमलावती ॥४१॥एताः पान्तु दिग्विदिक्षु महापातकनाशनाः ।अन्तरं पातु लिङुस्था लिङुमूलाम्बुजं मम ॥४२॥कर्णिकां पातु सततं काञ्चीपीठस्थिता शिवा ।अतिवेगान्विता पातु वहिनमण्डलमेव मे ॥४३॥राक्षसीशा सदा पातु जम्बुद्वीपनिवाशिनी ।जाहनवी भास्करा मौना मलयस्था मलाङुजा ॥४४॥मतितप्ता पापहन्त्री परिपातु विभाकरी ।लयस्थानं सदा पातु कुञ्जरेश्वरसंस्थिता ॥४५॥विंशत्यर्णमहाविद्या लम्बमाना कुलस्थली ।मन्दिरे पातु मां नित्यं वित्तसंहारकारिणी ॥४६॥अनन्तशयना पातु वटमूलनिवासिनी ।प्रलये मां काली पातु वटपत्रनिवासिनी ॥४७॥केवलाख्या सदा पातु महाकूर्चस्वरुपिणी ।आयुरारोग्यदात्री मे धनं राज्यं सदावतु ॥४८॥कामरुपं गृहं पीठं परिपातु महाबला ।बलाका घोरदंष्ट्रा मे उदरं पातु सर्वदा ॥४९॥सर्वरोगहरा पातु मुण्डमालाविभूषिता ।आनन्दो नन्दनाथो मे ह्रत्दूर्ध्वाब्जं सदाऽवतु ॥५०॥षट्पद्मं सर्वदा पातु नानारुपविहारिणी ।अकलङ्का निराधारा नित्यपुष्टा निरिन्दिया ॥५१॥षोडशोर्ध्वं महापद्मं द्विदलं पातु सर्वदा ।दिग्विदिक्षु सदा पातु शाकिन्याद्यष्टशक्तयः ॥५२॥अतिगुप्तस्थलं पातु पापनाशकरी परा ।क्षालनाख्या लिङुगुह्ये पातु मे पावनं प्रभा ॥५३॥विप्रचित्ता कोटराक्षी लिपिभूता सरस्वती ।चतुर्दलं सदा पातु विभूतिः कामया सह ॥५४॥पान्तु विद्याः सदैताश्च रिपुपक्षविनाशनाः ।कटिदेशं सदा पातु चामुण्डा शूलधारिणी ॥५५॥त्रिनेत्रा सर्वदा पातु भूर्भुवःस्वरुपिणी ।वसन्तादिकलाः पान्तु पामरोग्रप्रतापिनी ॥५६॥षड्भुजा सर्वदा पातु वेदहस्ता प्रपातु माम् ।अतिविद्या सर्वविद्या चण्डविद्या प्रपातु माम् ॥५७॥वारुणी मदिरा पातु सर्वाङु शाकिनी मम ।गृहोदरी सदा पातु सर्वाङु वज्रधारिणी ॥५८॥उल्कामुखी सदा पातु भृगुवंशसमुद्भवा ।अकालतारिणी दुर्गा ललिता धर्मधारिणी ॥५९॥विंशत्यर्णा महाविद्या सर्वत्र सर्वदाऽवतु ।हसकलहरीं विद्या परिपातु सदाशिवा ॥६०॥सहस्त्रवदना वाणी परिपातु जलोदरी ।जलरुपा सदा पातु महोज्ज्वलकलेवरा ॥६१॥षोडशी सकलहरीं सर्वाणी पातु पार्वती ।महामत्ता सदा पातु कामनाथप्रपूरका ॥६२॥वामदेवी सदा पातु सर्वाङे देहदेवता ।कामपीठस्थिता दुर्गा परिवारगणावृता ॥६३॥सदाशिवः सदा पातु सामवेदस्वरुपगा ।श्मशानवासिनी देवी महाकालसमन्विता ॥६४॥आर्या देवी सदा पातु माता पातु महाकला ।सर्वत्र कपिला पातु महाभगवतीश्वरी ॥६५॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP