अथैकोनसप्ततितमः पटलः - फलश्रुतिकथनम्

शाकिणीसदाशिवस्तवनमङ्गलाष्टोत्तरसहस्त्रनामविन्यासः


इति ते कथितं नाथ त्रैलोक्यसारमङुलम् ।
भुवनमङुलं नाम महापातकानाशनम् ॥१३४॥

अस्य प्रपठेऽपि च यत्फलं लभते नरः ।
तत्सर्वं कथितुं नालं कोटिवर्षशतैरपि ॥१३५॥

तथापि तव यत्नेन फलं श्रृणु दयार्णव ।
राजद्वारे नदीतीरे सङ्‌ग्रामे विजनेऽनले ॥१३६॥

शून्यागारे निर्जने वा घोरान्धकाररात्रिके ।
चतुष्टये श्मशाने वा पठित्वा षोडशे दले ॥१३७॥

रक्ताम्भोजैः पूजयित्वा मनसा कामचिन्तयन् ।
घृताक्तैर्जुहुयान्नित्यं नाम प्रत्येकमुच्चरन् ॥१३८॥

मूलमन्त्रेण पुटितमाज्यं वहनौ समर्पयेत् ।
अन्तरे स्वसुखे होमः सर्वसिद्धिसुखप्रदः ॥१३९॥

सद्योमधुयुतैर्मांसैः सुसुखे मन्त्रमुच्चरन् ।
प्रत्येकं नामपुटितं हुत्वा पुनर्मुखाम्बुजे ॥१४०॥

कुण्डलीरसजिहवायां जीवन्मुक्तो भवेन्नरः ।
धृत्वा वापि पठित्वा वा स्तुत्वा वा विधिना प्रभो ॥१४१॥

महारुद्रो भवेत्साक्षान्मम देहान्वितो भवेत् ।
योगी ज्ञानी भवेत् सिद्धः सारसङ्केतदर्शकः ॥१४२॥

अपराजितः सर्वलोके किमन्यत् फलसाधनम् ।
धृत्वा राजत्वमाप्नोति कण्ठे पृथ्वीश्वरो भवेत् ॥१४३॥

दक्षहस्ते तथा धृत्वा धनवान् गुणवान् भवेत् ।
अकालमृत्युहरणं सर्वव्याधिनिवारणम् ॥१४४॥

हुत्वा राजेन्द्रनाथश्च महावाग्मी सदाऽभयः ।
सर्वेषां मथनं कृत्वा गणेशो मम कार्तिकः ॥१४५॥

देवनामधिपो भूत्वा सर्वज्ञो भवति प्रभो ।
यथा तथा महायोगी भ्रमत्येव न संशयः ॥१४६॥

प्रातःकाले पठेद् यस्त्य मस्तके स्तुतिधारकः ।
जलस्तम्भं करोत्येव रसस्तम्भं तथैव च ॥१४७॥

राज्यस्तम्भं नरस्तम्भं वीर्यस्तम्भं तथैव च ।
विद्यास्तम्भं सुखस्तम्भं क्षेत्रस्तम्भं तथैव च ॥१४८॥

राजस्तम्भं धनस्तम्भं ग्रामस्तम्भं तथैव च ।
मध्याहने च पठेद् यस्य वहिनस्तम्भं करोत्यपि ॥१४९॥

कालस्तम्भं वयः स्तम्भं श्वासस्तम्भं तथैव च ।
रसस्तम्भं वायुस्तम्भं बाहुस्तम्भं करोत्यपि ॥१५०॥

सायाहने च पठेद् यस्तु कण्ठोदरे च धारयन् ।  
मन्त्रस्तम्भं शिलास्तम्भं शास्त्रस्तम्भं करोत्यपि ॥१५१॥

हिरण्यरजतस्तम्भं वज्रस्तम्भं तथैव च ।
अकालत्वादिसंस्तम्भं वातस्तम्भं करोत्यपि ॥१५२॥

पारदस्तम्भनं शिल्पकल्पना ज्ञानस्तम्भनम् ।
आसनस्तम्भनं व्याधिस्तम्भनं बन्धनं रिपोः ॥१५३॥

षट्‌पद्मस्तम्भनं कृत्वा योगी भवति निश्चितम् ।
वन्ध्या नारी लभेत् पुत्र सुन्दरं सुमनोहरम् ॥१५४॥

भ्रष्टो मनुष्यो राजेन्द्रः किमन्ये साधवो जनाः ।
श्रवणान्मकरे लग्ने चित्रायोगे च पर्वणि ॥१५५॥

हिरण्ययोगे वायव्यां लिखित्वा माघमासके ।
वैशाखे राजयोगे वा रोहिण्याख्या विशेषतः ॥१५६॥

श्रीमद्भुवनमगलं नाम यशोदातृ भवेद् ध्रुवम् ।
जायन्ते राजवल्लभा अमराः खेचरा लिखनेन ॥१५७॥

धर्मार्थकाममोक्षं च प्राप्नुवन्ति च पाठकाः ।
कीर्तिरात्मदृष्टिपातं लभते नात्र संशयः ॥१५८॥

॥ श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्‌चक्रप्रकाशे भैरवीभैरव शाकिनीसदाशिवस्तवनमङुलाष्टोत्तरसहस्तनामविन्यासो नाम एकोनसपतितमः पटलः ॥७९॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP