संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|अथैकोनसप्ततितमः पटलः| शाकिनीसदाशिवस्तवनम अथैकोनसप्ततितमः पटलः शाकिनीसदाशिवस्तवनम श्रीभुवनमङुल महास्तोत्र फलश्रुतिकथनम् अथैकोनसप्ततितमः पटलः - शाकिनीसदाशिवस्तवनम शाकिणीसदाशिवस्तवनमङ्गलाष्टोत्तरसहस्त्रनामविन्यासः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल शाकिनीसदाशिवस्तवनम Translation - भाषांतर श्रीआनन्दभैरवी उवाचकैलासशिखरारुढ पञ्चवक्त्र त्रिलोचन ।अभेद्यभेदकप्राणवल्लभ श्रीसदाशिव ॥१॥भवप्राणप्ररक्षाय कालकूटहराय च ।प्रत्याङिरापादुकाय दान्तं शब्दमयं प्रियम् ॥२॥इच्छामि रक्षणार्थाय भक्तानां योगिनां सताम् ।अवश्यं कथयाम्यत्र सर्वमङुललक्षणम् ॥३॥शाकिनीसदाशिवस्तवनममङुलाष्टोत्तरसहस्त्रनामविन्यासःअष्टोत्तरसहस्त्राख्यं सदाशिवसमन्वितम् ।महाप्रभावजननं दमनं दुष्टचेतसाम् ॥४॥सर्वरक्षाकरं लोके कण्ठपद्मप्रसिद्धये ।अकालमृत्युहरणं सर्वव्याधिनिवारणम् ॥५॥योगसिद्धिकरं साक्षाद् अमृतानन्दकारकम् ।विषज्वालदिहरणं मन्त्रसिद्धिकरं परम् ॥६॥नाम्नां स्मरणमात्रेण योगिनां वल्लभो भवेत् ।सदाशिवयुतां देवीं सम्पूज्य संस्मरेद् यदि ॥७॥ मासान्ते सिद्धिमाप्नोति खेचरीमेलनं भवेत् ।आकाशगामिनीसिद्धिः पठित्वा लभ्यते ध्रुवम् ॥८॥धनं रत्नं क्रियासिद्धिं विभूतिसिद्धिमालभेत् ।पठनाद् धारणाद्योगी महादेवः सदाशिवः ॥९॥विष्णुश्चक्रधरः साक्षाद् ब्रह्मा नित्यं तपोधनः ।योगिनः सर्वदेवाश्च मुनयश्चापि योगिनः ॥१०॥सिद्धाः सर्वे सञ्चरन्ति धृत्वा च पठनाद् यतः ।ये ये पठन्ति नित्यं तु ते सिद्धा विष्णुसम्भवाः ॥११॥किमन्यत् कथनेनापि भुक्तिं मुक्तिं क्षणाल्लभेत् ॥१२॥विनियोगकथनम्अस्य श्रीभुवनमङुलमहास्तोत्राष्टोत्तरसहस्त्रनाम्नः सदाशिवऋषिर्गायत्रीच्छन्दः सदाशिवशाकिनीदेवता पुरुषार्थाष्टसिद्धिसमययोगसमृद्धये विनियोगः N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP