संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|त्रिषष्टितमः पटलः| फलश्रुतिकथनम् त्रिषष्टितमः पटलः सम्मोहनकवचम् फलश्रुतिकथनम् त्रिषष्टितमः पटलः - फलश्रुतिकथनम् अनाहतेश्वरसम्मोहनकवचम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल फलश्रुतिकथनम् Translation - भाषांतर इत्येतत् कवचं तारं तारकब्रह्ममङुलम् ॥६८॥कथितं नाथ यत्नेन कुत्रापि न प्रकाशितम् ।तव स्नेहवशादेव प्रसन्नह्रदयान्विता ॥६९॥कृपां कुरु दयानाथ तवैव कवचाद्भुतम् ।हिताय जगतां मोहविनाशायामृताय च ॥७०॥पठितव्यं साधकेन्द्रैर्योगीन्द्रैरुपवन्दितम् ।दुर्लभं सर्वलोकेषु सुलभं तत्त्ववेदिभिः ॥७१॥असाध्यं साधयेदेव पठनात् कवचस्य च ।धारणात् पूजनात् साक्षात् सर्वपीठफलं लभेत् ॥७२॥काकचञ्चपुटं कृत्वा सप्तधा पञ्चधापि वा ।कवचं प्रपठेद्विद्वान् गूढसिद्धिनिबन्धनात् ॥७३॥काकिनीश्वरसंयोगं सुयोगं कवचान्वितम् ।ईश्वराङुं विभाव्यैव कल्पवृक्षसमो भवेत् ॥७४॥एतत्कवचपाठेन देवत्वं लभते ध्रुवम् ।आरोग्यं परमं ज्ञानं मोहनं जगतां वशम् ॥७५॥स्तम्भयेत् परसैन्यानि पठेद्वारत्रयं यदि ।शान्तिमाप्नोति शीघ्रं स षट्कर्मकरणक्षमः ॥७६॥आकाङ्क्षा रसलालित्यविषयाशाविवर्जितः ।साधकः कामधेनुः स्यादिच्छादिसिद्धिभाग्भवेत् ॥७७॥सर्वत्र गतिशक्तिः स्यात् स्त्रीणां मन्मथरुपधृक् ।अणिमालघिमाप्राप्तिगुणादिसिद्धिमाप्नुयात् ॥७८॥योगिनीवल्लभो भूत्वा विचरेत् साधकाग्रणीः ।यथा गुहो गणेशश्च तथा स मे हि पुत्रकः ॥७९॥श्रीमान् कुलीनः सारज्ञः सर्वधर्मविवर्जितः ।शनैः शनैर्मुदा यति षोडशारे यतीश्वरः ॥८०॥यत्र भाति शाकिनीशः सदाशिवगुरुः प्रभुः ।क्रमेण परमं स्थानं प्राप्नोति मम योगतः ॥८१॥मम योगं विना नाथ तव भक्तिः कथं भवेत् ।एतत्सम्मोहनाख्यस्य कवचस्य प्रपाठतः ॥८२॥वाणी वश्या स्थिरा लक्ष्मीः सर्वैश्वर्यसमन्वितः ।त्यागिता लभ्यते पश्चान्निः सङो विहरेत् शिवः ।सदाशिवे मनो याति सिद्धमन्त्री मनोलयः ॥८३॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरव संबादेऽनाहतेश्वरसम्मोहनख्यकवचं नाम त्रिषष्टितमः पटलः ॥६३॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP