संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|त्रिषष्टितमः पटलः| सम्मोहनकवचम् त्रिषष्टितमः पटलः सम्मोहनकवचम् फलश्रुतिकथनम् त्रिषष्टितमः पटलः - सम्मोहनकवचम् अनाहतेश्वरसम्मोहनकवचम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल सम्मोहनकवचम् Translation - भाषांतर आनन्दभैरवी उवाचकवचं श्रृणु चास्यैव लोकनाथ शिवापते ।ईश्वरस्य परं ब्रह्म निर्वाणयोग्दायकम् ॥१॥कवचं दुर्लभं लोके नामसम्मोहनं परम् ।कवचं ध्यानमात्रेण निर्वाणफलभाग्भवेत् ॥२॥अस्य किं (पु)त्वत्रमाहात्म्यं तथापि तद्वदाम्यहम् ।केवलं ग्रन्थिभेदाय निजदेहानुरक्षणात् ॥३॥सर्वेषामपि योगेन्द्र देवानां योगिनां तथा ।भावादि सिद्धिलाभाय कायनिर्मलसिद्धये ॥४॥प्रकाशितं महाकाल तव स्नेहवशादपि ।सर्वे मन्त्राः प्रसिद्धयन्ति सम्मोहावचाश्रयाः ॥५॥कवचस्य ऋषिर्ब्रह्मा छन्द्रोऽनुष्टुबुधाह्रतम् ।ईश्वरो देवता प्रोक्त स्तथा शक्तिश्च काकिनी ॥६॥कीलकं क्रूं तथा ज्ञेयं ध्यानसाधनसिद्धये ।ह्रदब्जभेदनाथ तु विनियोगः प्रकीर्तितः ॥७॥प्रणवो मे पातु शीर्षं ललाटं च सदाशिवः ।प्रासादो ह्रदयं पातु बाहुयुग्मं महेश्वरः ॥८॥पृष्ठं पातु महादेव उदरं कामनाशनः ।पार्श्वै पातु कामराजो बालः पृष्ठलान्तरम् ॥९॥कुक्षिमूलं महावीरो ललिपतिरीश्वरः ।मृत्युञ्जयो नीलकण्ठो लिङुदेशं सदावतु ॥१०॥लिङाधो मुद्रिका पातु पादयुग्ममुमातितः ।अङ्गुष्ठं पातु सततं पार्वतीप्राणवल्लभः॥११॥गुल्फं पातु त्रयम्बकश्च जानुनी युवतीपतिः ।ऊरुमूलं सदा पातु मञ्जुघोषः सनातनः ॥१२॥सिमनी देशमापातु भैरवः क्रोधभैरवः ।लिङुदेशोद्गम् पातु लिङुरुपी जगत्पतिः ॥१३॥ह्रदयाग्रं सदा पातु महेशः काकिनीश्वरः ।ग्रीवां पातु वृषस्थश्च कण्ठदेशं दिगम्बरः ॥१४॥लम्बिकां पातु गणपो नासिकां भवनाशकः ।भ्रूमध्ये पातु योगीन्द्रः महेशः पातु मस्तकम् ॥१५॥मूर्घ्निदेशं मुनीन्द्रश्च द्वादशस्थो महेश्वरः ।द्वादशाम्भोरुहं पातु काकिनीप्राणवल्लभः ॥१६॥नाभिमूलाम्बुजं पातु महारुद्रो जगन्मयः ।स्वाधिष्ठानाम्बुजं पातु सदा हरिहरात्मकः ॥१७॥मूलपद्मं सदा पातु ब्रह्मेन्द्रो डाकिनीश्वरः ।कुण्डली सर्वदा पातु डाकिनी योगिनीश्वरः ॥१८॥कुण्डली मातृका पातु वटुकेशः शिवो(रो?) हरः ।राकिणीविग्रहं पातु वामदेवो महेश्वरः ॥१९॥पञ्चाननः सदा पातु लाकिनीवज्रविग्रहम् ।स्वस्थानं द्वादशाञ्च वीरः पातु सुकाकिनीम् ॥२०॥वीरेन्द्रः कर्णिकां पातु द्वादशारं विषाशनः ।षोडशारं सदा पातु क्रोधवीरः सदाशिवः ॥२१॥मां पातु वज्रनाथेशोऽरिभयात् क्रोधभैरवः ।षट्चक्रं सर्वदा पातु लाकिनीश्रीसदाशिवः ॥२२॥{षोडशाम्भोरुहान्तस्थं पातु धूम्राक्शपालकः ।दिङ्नाथेशो महाकायो मां पातु परमेश्वरः }।आकाशगङुजटिलो द्विदलं पातु में परम् ।गङाधरः सदा पातु हाकिनीं परमेश्वरः ॥२३॥हाकिनी परशिवो मे भ्रूपद्मं परिरक्षतु ।दण्डपाणीश्वरः पातु मनोरुपं द्विपत्रकम् ॥२४॥साधुकेशः सदा पातु मनोन्मन्यादिवासिनम् ।पिङाक्षेशः सदा पातु भयभूमौ तनूं मम ॥२५॥उन्मनी स्थानकं पातु रोधिनीसहितं मम ।सुधाघटः सदा पातु ममानन्दादिदेवताम् ॥२६॥आनन्दभैरवः पातु गूढदेशाधिदेवताम् ।मायामयोपहा पातु सुषुम्नानाडिकाकलाम् ॥२७॥इडाकलाधरं पातु कोटिसूर्यप्रभाकारः ।पिङुलामिहिरं पातु चन्द्रशेखर ईश्वरः ॥२८॥कोटिकालानलस्थानं सुषुम्नायां सदावतु ।सुधासमुद्रो मां पातु रत्नकोटिमणीश्वरः ॥२९॥शिवनाथः सदा पातु कुण्डलीचक्रमेव मे ।विष्णुचक्रं महादेवः कालरात्रः कुलान्वितम् ॥३०॥मृत्युजेता सदा पातु सहस्त्रारं सदा मम ।सहस्त्रदलगं शम्भु स्वयम्भूः पातु सर्वदा ॥३१॥सर्व रुपिणमीशानं पातु शर्वो हि सर्वदा ।सर्वत्र सर्वदा पातु श्रीनीलकण्ठ ईश्वरः ॥३२॥सर्वबीजस्वरुपो मे बीजमालां सदावतु ।मातृकां सर्वबीजेशो मातृकार्णं शिवो मम ॥३३॥अहङ्कारं हरः पातु करमालां सदा मम ।जलेऽरण्ये महाभीतौ पर्वते शून्यमण्डपे ॥३४॥व्याघ्रभल्लूकमहिशश्वादिभयदूषिते ।महारण्ये घोरयुद्धे गगने भूतलेऽतले ॥३५॥अत्युत्कटे शस्त्रघाते शत्रुचौरअदिभीतिषु ।महासिंहभये क्रूरे मत्तहस्तिभये तथा ॥३६॥ग्रहव्याधिमहाभीतौ सर्पभीतौ च सर्वदा ।पिशाचभूतवेतालब्रह्मदैत्यभयादिषु ॥३७॥अपवादा पवादेषु मिथ्यावादेषु सर्वदा ।करालकालिकानाथः प्रचण्डः प्रखरः परः ॥३८॥उग्रः कपर्दी भीदष्ट्री कालाच्छन्नकरः कविः ।क्रोधाच्छन्नो महोन्मत्तो गरुडीशो महेशभृत ॥३९॥पञ्चाननः पञ्चरश्मिः पावनः पावमानकः ।शिखा मात्रामहामुद्राधारकः क्रोधभूपतिः ॥४०॥द्रावकः पूरकः पुष्टः पोषकः पारिभाषिकः ।एते पान्तु महारुद्रा द्वाविंशतिमहाभये ॥४१॥एते सर्वे शक्तियुक्ता मुण्डमालाविभूषिताः ।अहङ्कारेश्वराः क्रुद्धा योगिनस्तत्त्वचिन्तकाः ॥४२॥चतुर्भुजा महावीराः खड्गखेटकधारकाः ।कपालशङ्खमालाढ्या नानारत्नविभूषिताः ॥४३॥किकिंणीजालमालाढ्या हेमनूपुरराजिताः ।नानालङ्कारशोभाढ्याश्चन्द्रचूडाविभूषिताः ॥४४॥सदानन्दयुताः श्रीदा मोक्षदाः कर्मयोगिनाम् ।सर्वदा भगवान् पातु ईश्वराः पान्तु नित्यशः ॥४५॥ब्रह्मा पातु मूलपद्मं श्रीविष्णुः पातु षड्दलम् ।रुद्रः पातु दशदलमीश्वरः पात्वनाहतम् ॥४६॥सदाशिवः पातु नित्यं षोडशारं सदा मम ।परो द्विदलमापातु षट्शिवाः पान्तु नित्यशः ॥४७॥अपराः पान्तु सततं मम देहं कुलेश्वराः ।पूर्णं ब्रह्म सदा पातु सर्वाङं सर्वदेवताः ॥४८॥कालरुपी सदा पातु मनोरुपी शिरो मम ।आत्मलीनः सदा पातु ललाटं वेदवित्प्रभुः ॥४९॥वाराणसीश्वरः पातु मम भ्रूमध्यपीठकम् ।योगिनाथः सदा पातु मम दन्तावलिं दृढम् ॥५०॥ओष्ठाधरौ सदा पातु झिल्टीशो भौतिकेश्वरः ।नासापुटद्वयं पातु भारभूतीशोऽतिथीश्वरः ॥५१॥गण्डयुग्मं सदा पातु स्थाणुकेशो हरेश्वरः ।कर्णदेशं सदा पातु अमरोऽर्धीश्वरो मम ॥५२॥महासेनेश्वरस्तुण्डं मम पातु निरन्तरम् ।श्रीकण्ठीदिमहारुद्राः स्वाङुग्रन्थिषु मातृकाः ॥५३॥मां पातु कालरुद्रश्च सर्वांङु कालसंक्षयः ।अकाल तारकः पातु उदरं परिपूरकः ॥५४॥अगस्त्यादिमुनिश्रेष्ठाः पान्तु योगिन ईश्वराः ।श्रीनाथेश्वर ईशानः पातु मे सूक्ष्मनाडिकाः ॥५५॥त्रिशूली पातु पूर्वस्यां दक्षिणे मृत्युनाशनः ।पश्चिमे वारुणीमत्तो महाकालः सदाऽवतु ॥५६॥उत्तरे चावधूतेशो भैरवः कालभैरवः ।ईशाने पातु शान्तीशो वायव्यां योगिवल्लभः ॥५७॥मरुत्कोणे दैत्यहन्ता पातु मां सततं शिवः ।वहिनकोणे सदा पातु कालानलमुखाम्बुजः ॥५८॥ऊर्ध्वं ब्रह्मा सदा पातु अधोऽनन्तः सदाऽवतु ।सर्वदेवः सदा पातु सर्वदेहगतं सुखम् ॥५९॥इहार्हा वल्लभः पातु कालाख्येशो गोणो मम ।रविनाथः सदा पातु ह्रदयं मानसं मम ॥६०॥चन्द्रेशः पातु सततं भ्रूमध्यं मम कामदः ।वज्राण्डधरः पातु रक्ताङुशस्त्रिलोचनम् ॥६१॥बुधश्यामसुन्दरेशः पातु मे ह्रदयस्थलम् ।सुवर्णवर्णगुर्वीशो मम कण्ठं सदाऽवतु ॥६२॥सिन्दूरजलदच्छन्नाद्यर्कशुक्रेश्वरो गलम् ।नाभिदेशं सदा पातु शनिश्यामेश ईश्वरः ॥६३॥राहुः पातु महवक्त्रः केवलं मुखमण्डलम् ।केतुः पातु महाकायः सदा मे गुह्यदेशकम् ॥६४॥इन्द्रादिदेवताः पान्तु परिवारगणैर्युताः ।शिरोमण्डलदिग्रुपं पान्तु वैकुण्ठवासिनः ॥६५॥भैरवा भैरवीयुक्ताः सर्वदेहसमुद्भवा ।भीमदंष्ट्रा महाकाया मम पान्तु निरन्तरम् ॥६६॥यज्ञभुङनीलकण्ठो मे ह्रदयं पातु सर्वदा ।उन्मत्तभैरवाः पान्तु ईश्वराः पान्तु सर्वदा ॥६७॥क्रोधभूपतयः पान्तु श्रीमायामदनान्विताः । N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP