संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|अथैकषष्टितमः पटलः| फलश्रुतिकथनम् अथैकषष्टितमः पटलः काकिणीध्यानम् काकिनीश्वरसहस्त्रनामस्तोत्रम् फलश्रुतिकथनम् अथैकषष्टितमः पटलः - फलश्रुतिकथनम् काकिण्यष्टोत्तरसहस्त्रनामस्तोत्रचिन्यासः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल फलश्रुतिकथनम् Translation - भाषांतर इति ते कथितं नाथ सहस्त्रनाम मङुलम् ।अत्यद्भुतं परानन्दससिद्धान्तदायकम् ॥२१५॥मातृकामन्त्रघटितं सर्वसिद्धान्तसागरम् ।सिद्धविद्यामहोल्लास मानन्दुगुणसाधनम् ॥२१६॥दुर्लभं सर्वलोकेषु यामले तत्प्रकाशितम् ।तव स्नेहरसामोदमोहितानन्दभैरव ॥२१७॥कुत्रापि नापि कथितं स्वसिद्ध हानिशङ्कया ।सर्वादियोग सिद्धान्तसिद्धये भुक्तिमुक्तिये ॥२१८॥प्रेमाहलादरसेनैव दुर्लभं तत्प्रकाशितम् ।येन विज्ञातमात्रेण भवेद्छ्रीभैरवेश्वरः ॥२१९॥एतन्नाम शुभफलं वक्तुं न च समर्थकः ।कोटिवर्षशतेनापि यत्फलं लभते नरः ॥२२०॥तत्फलं योगिनामेक क्षणाल्लभ्यं भवार्णवे ।यः पठेत् प्रातरुत्थाय दुर्गग्रहनिवरणात् ॥१२१॥दुष्टोन्दियभयेनापि महाभयनिवारणात् ।ध्यात्वा नाम जपोन्नित्यं मध्याहने च विशेषतः ॥२२२॥सन्ध्यायां रात्रियोगे च साधयेन्नामसाधनम् ।योगाभ्यासे ग्रन्थिभेदे योगध्याननिरुपणे ॥२२३॥पठनाद् योगसिद्धिः स्याद् ग्रन्थिभेदो दिने दिने ।योगज्ञानप्रसिद्धिः स्याद् योगः स्यादेकचित्ततः ॥२२४॥देहस्थ देववश्याय महामोहप्रशान्तये ।स्तम्भनायारिसैन्यानां प्रत्यहं प्रपठेच्छुचिः ॥२२५॥भक्तिभावेन पाठेन सर्वकर्मसु सुक्षमः ।स्तम्भयेत् परसैन्यानि वारैकपाठमात्रतः ॥२२६॥वारत्रयप्रपठनाद् वशयेद् भुवनत्रयम् ।वारत्रयं तु प्रपठेद् यो मूर्खः पण्डितोऽपि वा ॥२२७॥शान्तिमाप्नोति परमां विद्यां भुवनमोहिनीम् ।प्रतिष्ठाञ्च ततः प्राप्य मोक्षनिर्वाणमाप्नुयात् ॥२२८॥विनाशयेदरीञ्छीघ्रं चतुर्वारप्रपाठने ।पञ्चावृत्तिप्रपाठेन शत्रुमुच्चाटयेत् क्षणात् ॥२२९॥षडावृत्या साधकेन्द्रः शत्रूणां नाशको भवेत् ।आकर्षयेत् परद्रव्यं सप्तवारं पठेद् यदि ॥२३०॥एवं क्रमगतं ध्यात्वा यः पठेदतिभक्तितः ।स भवेद् योगिनीनाथो महाकल्पद्रुमोपमः ॥२३१॥ग्रन्थिभेदसमर्थः स्यान्मासमात्रं पठेद् यदि ।दूरदर्शी महावीरो बलवान् पण्डितेश्वरः ॥२३२॥महाज्ञानी लोकनाथो भवत्येव न संशयः ।मासैकन समर्थः स्यान्निर्वाणमोक्षसिद्धिभाक् ॥२३३॥प्रपठेद् योगसिद्धयर्थं भावकः परमप्रियः ।शून्यागारे भूमिगर्तमण्डपे शून्यदेशके ॥२३४॥गुङागर्भे महारण्ये चैकान्ते निर्जनेऽपि वा ।दुर्भिक्षवर्जिते देशे सर्वोपद्रववर्जिते ॥२३५॥श्मशाने प्रान्तरेऽश्वत्थमूले वटतरुस्थले ।इष्टकामयगेहे वा यत्र लोको न वर्तते ॥२३६॥तत्र तत्रानन्दरुपी महापीठस्थलेऽपि च ।दृढासनस्थः प्रजपेन्नाममङुलमुत्तमम् ॥२३७॥ध्यानधारणशुद्धाङो न्यासपूजापरायणः ।ध्यात्वा स्तौति प्रभाते च मृत्युजेता भवेद् ध्रुवम् ॥२३८॥अष्टाङुसिद्धिमाप्नोति चामरत्वमवाप्नुयात् ।गुरुदेवमहामन्त्रभक्तो भवति निश्चितम् ॥२३९॥शरीरे तस्य दुःखानि च भवन्ति कुवृद्धयः ।दुष्टग्रहाः पलायन्ते तं दृष्टवा योगिनं परम् ॥२४०॥यः पठेत् सततं मन्त्री तस्य हस्तेऽष्टसिद्धयः ।तस्य ह्रत्पद्मलिङुस्था देवाः सिद्धयन्ति चापराः ॥२४१॥युगकोटिसहस्त्राणि चिरायुर्योगिराड् भवेत् ।शुद्धशीलो निराकारो ब्रह्मा विष्णुः शिवः स च ।स नित्यः कार्यसिद्धश्च स जीवन्मुक्तिमाप्नुयात् ॥२४२॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने ईश्वरशक्तिकाकिन्यष्टोत्तसहस्त्रनामस्तोत्रविन्यासो नाम एकषष्टितमः पटलः ॥६१॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP