संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|अथैकषष्टितमः पटलः| काकिणीध्यानम् अथैकषष्टितमः पटलः काकिणीध्यानम् काकिनीश्वरसहस्त्रनामस्तोत्रम् फलश्रुतिकथनम् अथैकषष्टितमः पटलः - काकिणीध्यानम् काकिण्यष्टोत्तरसहस्त्रनामस्तोत्रचिन्यासः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल काकिणीध्यानम् Translation - भाषांतर श्रीआनन्दभैरव उवाचवद कल्याणि कामेशि त्रैलोक्यपरिपूजिते ।ब्रह्माण्डानन्तनिलये कैलासशिखरोज्ज्वले ॥१॥कालिके कालरात्रिस्थे महाकालनिषेविते ।शब्दब्रह्मस्वरुपे त्वं वक्तुमर्हसि सादरात् ॥२॥सहस्त्रनामयोगाख्यम् अष्टोत्तरमनन्तरम् ।अनन्तकोटिब्रह्माण्डं सारं परममङुलम् ॥३॥ज्ञानसिद्धिकरं साक्षाद् अत्यन्तानन्दवर्धनम् ।सङ्केशब्दमोक्षार्थं काकिनीश्वरसंयुतम् ॥४॥परानन्दकरं ब्रह्म निर्वाणपदलालितम् ।स्नेहादभिसुखानन्दादादौ ब्रह्म वरानने ॥५॥इच्छामि सर्वदा मातर्जगतां सुरसुन्दरि ।स्नेहानन्दसोद्रेकसम्बन्धान् कथय द्रुतम् ॥६॥श्रीआनन्दभैरवी उवाचईश्वर श्रीनीलकण्ठ नागमालाविभूषित ।नागेन्द्रचित्रमालाढ्य नागाधिपरमेश्वर ॥७॥काकिनीश्वरयोगाढ्यं सहस्त्रनाम मङुलम् ।अष्टोत्तरं वृताकारं कोटिसौदामिनीप्रभम् ॥८॥आयुरारोग्यजननं श्रृणुष्वावहितो मम ।अनन्तकोटिब्रह्माण्डसारं नित्यं परात्परम् ॥९॥साधनं ब्रह्मणो ज्ञानं योगानां योगसाधनम् ।सार्वज्ञगुह्यसंस्कार संस्कारदिफलप्रदम् ॥१०॥वाञ्छासिद्धिकरं साक्षान्महापातकनाशनम् ।महादारिद्रयशमनं महैश्वर्यप्रदायकम् ॥११॥जपेद्यः प्रातरि प्रीतो मध्याहनेऽस्तमिते रवौ ।नमस्कृत्य जपेन्नाम ध्यानयोगपरायणः ॥१२॥काकिनीश्वरसंयोगं ध्यानं ध्यानगुणोदयम् ।आदौ ध्यानं समाचर्य निर्मलोऽमलचेतसा ॥१३॥ध्यायेद् देवीं महाकालीं काकिनीं कालरुपिणीम् ।परानन्दरसोन्मत्तां श्यामां कामदुघां पराम् ॥१४॥चतुर्भुजा खड्गचर्मवरपद्मधरां हराम् ।शत्रुक्षकरीं रत्नाऽलङ्कारकोटिमण्डिताम् ॥१५॥तरुणानन्दरसिकां पीतवस्त्रां मनोरमाम् ।केयूरहारललितां ताटङ्कद्वयशोभिताम् ।सुन्दरीं वनमालाढ्यां चारुसिंहासनस्थिताम् ॥१७॥ह्रत्पद्म कर्णिकामध्याकाशसौदामिनीप्रभम् ।एवं ध्यात्वा पठेन्नाममङुलानि पुनः पुनः ॥१८॥ईश्वरं कोटिसूर्याभं ध्यायेद्धृदयमण्डले ।चतुर्भुजं वीररुपं लावण्यं भावसम्भवम् ॥१९॥श्यामं हिरण्यभूषाङं चन्द्रकोटिसुशीतलम् ।अभयं वरदं पद्मं महाखड्गधरं विभुम् ॥२०॥किरीटिनं महाकायं स्मितहास्यं प्रकाशकम् ।ह्रदयाम्बुजमध्यस्थं नूपुरैरुपशोभितम् ॥२१॥कोटिकालानलं दीप्तं काकिनीदक्षिणस्थितम् ।एवं विचिन्त्य मनसा योगिनं परमेश्वरम् ॥२२॥ततः पठेत् सहस्त्राख्यं वदामि श्रृणु तत्प्रभो ॥२३॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP