संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|सप्तपञ्चाशत्तमः पटलः| काकिणीश्वरपार्श्वचरयजनम सप्तपञ्चाशत्तमः पटलः काकिणीश्वरपार्श्वचरयजनम सप्तपञ्चाशत्तमः पटलः - काकिणीश्वरपार्श्वचरयजनम विवेकगुणलक्षणम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल काकिणीश्वरपार्श्वचरयजनम Translation - भाषांतर श्रीआनन्दभैरवी उवाचअथातः सम्प्रवक्ष्यामि विवेकगुणलक्षणम् ।वर्णध्यानानन्तरं हि पूजनं तन्महाफलम् ॥१॥पूजया लभते पूजां विवेकं भावसम्भवम् ।काकिनीश्वरसंयोगं भावं परमदुर्लभम् ॥२॥यजनं काकिनीदेव्या ईश्वरस्यापि भावनम् ।पूजाभावे महासिद्धिर्जायते तत्क्षणाच्छिव ॥३॥भावेन लभ्यते पूजा विवेकं पूजया लभेत् ।विवेकं ब्रह्मभावं तु प्राप्नोति कोटिजन्मनि ॥४॥अथवा लभ्यते शीघ्रं तवापि मदनुग्रहैः ।तत्प्रकारं श्रृणु प्राणवल्लभ त्रिपुरेश्वर ॥५॥यस्य विज्ञानमात्रेण भवेत् परमभावकः ।विचिन्तयेद्वर्णपार्श्वे चतुर्दिक्षु क्रमेण तु ॥६॥सिद्धेश्वरान् योगयुक्तान् महापुरुषसंश्रितान् ।ब्रह्याणं परमं हसं रुद्रं विश्वेश्वरं प्रभुम् ॥७॥मृत्युञ्जयं महाकालं नीलकण्ठं सुरेश्वरम् ।श्रीविष्णु कमलानाथं पञ्चचूडं कुमारकम् ॥८॥चन्द्रं सूर्यं प्रजानाथं दक्षं मुनीन्द्रमेव च ।प्रचेतसं मरीचिञ्च कश्यपं पुलहं तथा ॥९॥वशिष्ठञ्च भृगुञ्चैव गौतमं कपिलं मुनिम् ।पुलस्त्यञ्च क्रतुञ्चैव प्रह्लादं कर्दमं तथा ॥१०॥अथर्वाङिरसर्षिञ्च बालखिल्यान् मरीचिपान् ।मानसञ्चान्तरीक्षञ्च विद्याश्च पवनं विभुम् ॥११॥तेजसञ्च जलञ्चैव महीस्पर्शञ्च शब्दकम् ।तथा रुपं रसं गन्धं प्रकृतिञ्च विकारकम् ॥१२॥यच्चान्यत् कारणं सर्वं भुवाक्षयं चराचरम् ।तत्पार्श्वगामिनो देवा सेन्द्रा भ्रमन्ति नित्यशः ॥१३॥अगस्त्यश्च महातेजा मार्कंण्डेयश्च वीर्यवान् ।यमदग्निर्भरद्वाजः संवर्तश्च्यवनस्तथा ॥१४॥दुर्वासाश्च महाभाग ऋष्यश्रृंगश्च धार्मिकः ।सनत्कुमारो भगवान् योगाचार्यो महातपाः ॥१५॥असितो देवलश्चैव जैगीषव्यश्च तत्त्ववित् ।ऋषभार्जितशक्रश्च महावीर्यस्तथा मणिः ॥१६॥आयुर्वेदं तथाष्टाङुमेते भान्ति स्वमूर्तयः ।चन्द्रमाः सह नक्षत्रैरादित्यैश्च गभस्तिभिः ॥१७॥वायव ऋतवश्चैव सङ्कल्पः प्राण एव च ।मूर्तिमन्तो महात्मानो महाव्रतपरायणाः ॥१८॥एते चान्ये च बहव ईश्वरं समुपासते ।एते पार्श्व चिन्तनीया वर्णानां साधकोत्तमैः ॥१९॥तत्पार्श्वस्थः प्रभाकोटिधारकः प्रतिभाति च ।अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तथा दमः ॥२०॥तत्र गन्धर्वमुख्याश्च सहिताप्सरसस्तथा ।विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः ॥२१॥शुक्तो बृहस्पतिश्चैव बुधोऽङारक एव च ।शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च ॥२२॥मन्त्रो रथन्तश्चैव हविष्मानु वसुमानपि ।आदित्याः साधिराजानो नानाव्रुन्दैरुपासिताः ॥२३॥मरुतो विश्वकर्मा च वसवश्च कपालिनः ।तथा पितृगणाः सर्वे सर्वाणि च हवीष्यथ ॥२४॥ऋग्वेदः सामवेद्श्च यजुर्वेदस्तथा विधिः ।अथर्ववेदश्च तथा सर्वशास्त्राणि चैव हि ॥२५॥इतिहासोपदेशश्च वेदाङनि च सर्वशः ।ग्रहा यज्ञाश्च सोमाश्च दैवतानि च सर्वशः ॥२६॥सावित्री तारिणी दुर्गा वाणी सप्तविधा तथा ।मेधा धृतिः स्मृतिश्चैव प्रज्ञा बुद्धिर्यशः क्षमा ॥२७॥सामानि श्रुतिशास्त्राणि गाथास्तु विविधस्तथा ।भाष्याणि तर्कयुक्तानि देहवन्ति विभन्ति च ॥२८॥नाटिका विविधाः कार्याः कथाक्यायिककारिकाः ।अन्न तिष्ठन्ति ये पुण्या ये पुण्या गुरुपूजकाः ॥२९॥क्षणा लवा मुहूर्ताश्च दिवारात्रिश्च सर्वतः ।अर्धमासास्तथामासाः ऋतवः षट् च शङ्कर ॥३०॥संवत्सराः पञ्चयुगं मासा रात्रिश्चतुर्विधा ।कालचक्रञ्च यदिदव्यं नित्यमक्शयमव्ययम् ॥३१॥धर्मचक्रस्तथा चापि नित्यमास्ते महेश्वर ।अदितिश्च दितिश्चैव रुद्रश्च विनता तथा ॥३२॥कालिका युवती देवी सुरसा चाथ गौतमी ।प्राधा कद्रुश्च वै देव्यो देवतानाञ्च मातरः ॥३३॥रुद्राणी श्रीश्च लक्ष्मीश्च भद्रा षष्ठी तथा परा ।पृथिवीसञ्ज्ञिता देवी ह्रीः स्वाहा कीर्ति रेव च ॥३४॥सुरा देवी शची चैव तथा पुष्टिररुन्धती ।संसिद्धि सिद्धिदा विद्या महादेवी रतिस्तथा ॥३५॥एताश्चान्याश्च वै देव्य उपतस्थुरलङ्कृताः ।आदित्यावसवो रुद्रा मरुतश्चश्विनावपि ॥३६॥विश्वेदेवाश्च साध्याश्च पितरश्च महर्षयः ।राजर्षयस्तत्र भान्ति हरिश्चन्द्रादयः प्रभो ॥३७॥सर्वे हेमकुण्डलिनः सर्वाऽलङ्कारभूषिताः ।भावुका गीतवाद्यादि निस्वनैर्मग्नदेहिनः ॥३८॥ भावयन्ति महेशानीं काकिनीं परमेश्वरीम् ।वर्णरुपां नित्यकलां महेश्वरपतिव्रताम् ॥३९॥ईश्वरं भावयन्त्येते पूजयन्ति निरन्तरम् ।वेष्टिताः सुन्दराकाराः अष्टसिद्धिसमृद्ध्दाः ॥४०॥एताः पूज्या महाकाल वर्णपार्श्वचराः प्रभाः ।प्रसीद नाथ स्वामीति नाम्ना मनसि पूजयेत् ॥४१॥वर्णेश्वर प्रियानन्दां काकिनीं पूजयाम्यहम् ।इति मन्त्रेणैव पूज्या वर्णरुपा सरस्वती ॥४२॥तदा प्रसन्नाः सिद्धयन्ति श्रीकाकिन्याः कलौ युगे ॥४३॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्र्प्रकाशे भैरवभैरवीसंवादे काकिनीश्वरवर्णपार्श्व चरयजनं नाम सप्तपञ्चाशत्तमः पटलः ॥५७॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP