कपालशशिशूलास्त्रवरदानसमाकुलाम् ।
विचित्ररत्ननिर्माण स्वर्णाऽलङ्कारभूषिताम् ॥४८॥

त्रैलोक्यललितां सूक्ष्मां वराभयकराम्बुजाम् ।
सुधापानरतां मत्तां पूर्णरुपां कुलेश्वरीम् ॥४९॥

रत्नकङ्कणमालाढ्यां परमानन्दभैरवीम् ।
ह्रदयाम्भोजमध्यस्थां ध्यायेऽहं हंसगामिनीम् ॥५०॥

तत्पीठमध्यनिकरे त्रिकोणं परिचिन्तयेत् ।
पीठशक्तिं सुवर्णढ्यां विद्युत्कोटिसमोदयाम् ॥५१॥

काकिनीसदृशीं मत्तां पूर्णान्तः करणोद्यताम् ।
सर्वाऽलङ्कारभूषाढ्यां परिवारगणावृताम ॥५२॥

तद्दक्षिणे पार्श्वभागे चिन्तयेत्त्वामलिङुकम् ।
सुवर्णशुद्धसङ्काशं निर्मलं चारुतेजसम् ॥५३॥

महालक्ष्मीप्रियानन्दं सर्वाकारं निरञ्जनम् ।
ज्ञानयोगोदयं ब्रह्मरुपिणं बहुरुपिणम् ॥५४॥

प्रदीपकलिकाकारं चिन्तयेदीश्वरं शिवम् ।
एतेषां ज्ञानामाकृत्य वागीशो भवति क्षणात् ॥५५॥

वाक्यसिद्धि तत्र नाथ चिन्तयेत् प्रसिद्धये ।
तत्र भानोर्मण्डलञ्च चिन्तयेत् साधकाग्रणीः ॥५६॥

पद्मकिञ्जल्कमध्ये तु चिन्तयेदरुणायुतम् ।
मासैकसाधनादेव योगी स्याच्छीतलाङुधृक् ॥५७॥

द्विमासे ग्रन्थिभेदः स्यादनन्तगुणवान् भवेत् ।
त्रिमासे योगयोग्यः स्यात् सर्पादिविषनाशकृत् ॥५८॥

चतुर्मासे निर्मलात्मा भावकः स्थिरमानसः ।
पञ्चमे मासि सम्प्राप्ते वायवी कृपयान्विता ॥५९॥

स्थिरवायुः स्थिरा दृष्टिरतीव सुखसम्पदः ।
ततो दिने दिने वृद्धिर्वायूनामनुकम्पया ॥६०॥

षण्मासात् पापसंत्यक्तो मुक्तवद् भ्रमते चिरम् ।
जले चाग्नौ च भूगर्ते कदाचिन्न म्रियेत् हि ॥६१॥

ईश्वरात्मा महाज्ञानी निःशङ्को निरुपद्रवः ।
महाविवेकसिद्धान्तज्ञानी भेदविवर्जितः ॥६२॥

स भूत्वा चिरजीवी च भुक्तिभागी दिने दिने ।
सप्तमे कल्पसन्त्यक्तो मदनो दोषविग्रहः ॥६३॥

नित्यानन्दगुणप्राप्तिर्भूमित्यागो दिने दिने ।
अष्टमे सर्वशत्रुघ्नो रामनामविवर्जितः ॥६४॥

अणिमादिदर्शनञ्च ब्रह्मगोविन्ददर्शनम् ।
नवमे क्षालनासिद्धिर्भूमित्यागस्त्रिहस्तकः ॥६५॥

दशमे योगसिद्धिश्च षट्‌चक्रदिप्रदर्शनम् ।
ब्रह्यारन्ध्रभेदनज्ञो महाआनन्दविग्रहः ॥६६॥

एकादशे सर्वसिद्धिः पञ्चभूतमयाङुधृक् ।
सप्तस्वर्गालोकनञ्च षट्‌शिवाप्रियदर्शनम् ॥६७॥

द्वादशे देवसन्मानं देवता-पाददर्शनम् ।
अत्यन्तं सुखसन्तानं मायाजालनिवारण्‌ ॥६८॥

सर्वविद्यासर्वसिद्धिर्दिव्यभक्तिः शुभोदया ।
ते वीरास्ते च योगीन्द्रास्ते च भैरवाः ॥६९॥

ते सर्वे मृत्युजेतारस्ते भक्ता मुक्तिभागिनः ।
ये तिष्ठन्ति महारण्ये निर्जने पर्वते चिरम् ॥७०॥

धारयन्ति साधयन्ति योगमेतत् कुलेश्वर ।
योगे योगाद् भवेन्मोक्ष इति मे तत्त्वनिर्णयः ॥७१॥

संसारोत्तारणे मुक्तिर्योगशब्देन कथ्यते ।
लोके हि दुर्लभ योगं योगात्परतरं नहि ॥७२॥

योगं पञ्चविधं प्रोक्तमेकं विषयसम्मतम् ।
द्वितीयञ्च द्विभेदञ्च पूजायोगं तृतीयकम् ॥७३॥

भक्तियोगं परं ब्रह्मयोगसारं कुलेश्वर ।
सर्वत्रापि मनोयोगाद् बद्धो मुक्तो भवेद् ध्रुवम् ॥७४॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्‌चक्रप्रकाशे भैरवभैरवीसंवादेऽनाहतपद्मविन्यासो नाम षट्‌पञ्चाशत्तमः पटलः ॥५६॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP