संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|षट्पञ्चाशत्तमः पटलः| अनाहतपद्मचक्रविन्यासः षट्पञ्चाशत्तमः पटलः अनाहतपद्मचक्रविन्यासः काकिणीध्यानम् षट्पञ्चाशत्तमः पटलः - अनाहतपद्मचक्रविन्यासः अनाहतहृत्कमलभेदनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल अनाहतपद्मचक्रविन्यासः Translation - भाषांतर श्रीआनन्दभैरव उवाचवद कामिनि कौमारि सुरानन्दे कुलेश्वरि ।ह्रदयाम्भोजविन्यासमुधुना वक्तुमर्हसि ॥१॥यस्य विज्ञानमात्रेण नरो योगेश्वरो भवेत् ।सर्वसिद्धिक्रियास्थानं योगिनामतिदुर्लभम् ॥२॥सर्वतत्त्वस्वरुपं च सिद्धिमार्गप्रकाशकम् ।ह्रदयाम्भोज विज्ञानान्मार्तण्डभैरवी भवेत् ॥३॥श्रोतुमिच्छामि तत्सर्वं षट्चक्रसारमङुलम् ।स्नेहाद् दृष्टिक्रमेणैव भक्तियोगिद्भवेन च ॥४॥भेदनं भावनं ज्ञानं चित्तदर्शनमेव च ।मन्त्रोद्धारञ्च सङ्केतं सर्वज्ञादिगुणोदयम् ॥५॥यजनं काकिनीदेव्या ईश्वरस्य गुणात्मनः ।स्तवनं कवचं सर्वं सहस्त्रनाममङुलम् ॥६॥वायूनां मण्डलज्ञानं समासेन वदस्व मे ।त्वमेव शरणं देवि त्राहि मां दुःखसङ्कात् ॥७॥महाकाल भयाभाव भक्तिभावपरायण ।ममानन्दभैरवेश श्रृणु वक्ष्यामि तत्त्वतः ॥८॥यदुक्तं भवता चात्र चाश्रुत चाद्भुतं मतम् ।नोक्तं कुत्रापि सर्वेश तव स्नेहात् प्रकाशितम् ॥९॥अप्रकाश्यमिंद रत्नं दुःखजालनिवारण् ।सावधानेन सर्वेश कुरु त्वं योगसाधनम् ॥१०॥मयि योगं महादेव कृत्वा कालवशं नय ।मयो योगं न करोति सिद्धिभक्तिक्रियादिकम् ॥११॥अकस्मान्मरणं तस्य कालभक्षो न संशयः ।केवलं मां ह्रदम्भोजे परिपूर्णफलोदये ॥१२॥सर्वाकारे मनोराज्ये नानाकौतुकसङ्कुले ।पूजयित्वा सदा ध्यायेत् काकिनीं मां न संशयः ॥१३॥स योगी जायते नाथ ह्रदम्बुजप्रसादतः ।ह्रत्पङ्केमध्यस्थाः सर्वे देवाः सवासवाः ॥१४॥मामर्चयन्ति ते नित्यं भक्तिभावपरायणाः ।ये ध्यायन्ति महावीर ते पश्यन्ति सवासवान् ॥१५॥क्रमेण प्राणसंयोगान् मां पश्यन्ति न संशयः ।मामेक काकिनीध्यानं स्थिरवायुं प्रचण्डकम् ॥१६॥पश्यन्ति योगिनः काये अष्टैश्वर्यं महाप्रभम् ।केवलं भक्तियोगेन नित्ययोगे स्युरुत्तमाः ॥१७॥पद्मध्यानं प्रथमतः कृत्वा सिद्धो भवेन्नरः ।तद्धयानं श्रृणु वीरेश योगिनामिह दुर्लभम् ॥१८॥ह्रत्पद्मं कुलपालितं सुललितं हंसेन संशोधित बन्धू कामलदीप्तिकोटिजडित सम्भावितं साधकैः ।अत्युत्कृष्टमयूखपुञ्जमिलितं सिन्दूरपूरारुणंध्यात्वा पश्यति यो नरः प्रतिदिनं काद्यारुणैरावृतम् ॥१९॥स स्यात्कोटिधनेश्वरो नरवरो भूयात्त्वभावार्णवे यो नित्यं लिपिभावनं प्रकुरुते नित्येश्वरालोकनात् ।तद्धयानं क्रमतो वदामि सकलं येन प्रसिद्धो भवेदानन्दार्णवमध्यपद्मकलितं काद्यर्कवर्णोज्ज्वलम् ॥२०॥दले पूर्वे ध्यायेदतिविमलवर्णं कमिति वा प्रभातार्कच्छायारुणीकिरणयोगं युगमयम् ।चतुर्बाहुं नित्यं त्रिनयनमनन्तं रविगतंभवाद्याशक्तिस्थं स्वभवघटाशोभिततनुम ॥२१कँ॥द्वितीये पत्रेऽस्मिन् खमरुणसमूहाश्रयपदंपदं श्रीतारिण्या अनिलगगनयोः प्रियकरम् ।मुदा ध्यायेदेवं परममनिलं देवभुजगंसुवर्णालङ्कार त्रिनयनममौल्य् सुखमयम् ॥२२खँ॥तृतीये पत्रेऽस्मिन् विधुयुतकपालं त्रिनयनंस्वसिन्दूराकार द्वियुगभुजशोभाभवमहम् ।सदा ध्यायेदेवं परमपुरुषं श्रीगणपतिस्फुरद्रक्ताकारं तरुणमणिमालं जितमदम् ॥२३गँ॥चतुःपत्रे ध्यायेद्यमरुणशतं घोरनिनदंक्रियादक्षं मूर्तिं त्रिनयनसरोजं युगभुजम् ।वराभीतिप्रोच्छत्स्फटिकजपमालादिसहितंफणालङ्कराङु शिव शिव मुखेशोत्तममहम ॥२४घँ॥ङंबीजं सिन्दुरारुणममखिलनाथं त्रिनयनंमहामोक्षस्थानं मणिकनकरत्नाद्यभरणम् ।चतुर्बाहुं रुद्रं जगति भवमेकं गुणविभुंकपालं श्रीमाल वरमभयकं बिभ्रतमहम् ॥२५ङँ॥चतुर्बाहूल्लासं कमलवरमालासिसहितंविभुं तं ध्यायेऽहं विधुशतमुखं तं त्रिनयनम् ।प्रभातार्कप्रायं सकलमणिरत्नाभरणकंमहाज्योत्स्नाजालं परमरसबिन्दुद्भवतनुम् ॥२६चँ॥तमेकं नेत्रस्थं छममलकरं नूतनरविंचतुर्बाहुं ध्याये वरतनुकपालेषु सहितम् ।सुधाधारापानं कनकपमालाऽवृततनुंत्रिनेत्रं योगेन्द्र वसुदलगतं चारुवदनम् ॥२७॥छँ॥चतुर्वक्त्रं ध्याये जमजममरं सारुणतनुंविशालाक्षं सूक्ष्मं समरसमय ब्रह्मपुषम् ।चतुर्बाहुं देवं त्रिभुवनपदं सारघटितंमहाशङ्कं रुद्र वरमभयकं विभ्रतबलम् ॥२८जँ॥महाकायं तेजोमयमपि चरुं बीजमखिलंमुदा ध्याये कमापहमतिमुखं चाष्टमदले ।महासिन्दूराद्रिं दिनकरकलाकोटिविमलंत्रिनेत्रं पञ्चास्यं दशभुजयुतं सर्वपुषम् ॥२९झँ॥ञबीजं सार्धेन्दूद्भव शिखमखेशं त्रिनयनंचतुर्बाहुं ध्याये सुकमलगदाचक्रनियुतम् ।महामालाव्याप्तं सुकनकशुभाऽलङ्कृतगुरुंप्रभातार्कं विश्वार्चितजडिलरुपं रविदले ॥३०ञँ॥मनोरुपाच्छन्नं त्रिनयनमधीशारुणदलेटबीजं बिन्द्विन्द्वं जपवटिवराभीत्यासिधरम् ।तमेकं सोमेशं मणिमयचलत्कुण्डलधरंमुदा ध्याये शम्भुं ह्रदि शिवदले सिद्धकमले ॥३१टँ॥त्रिनेत्रं कामाख्यं शिशुकरुणया सिद्धिफलदंसुरत्नाऽलङ्कारच्छविरुचितनूनां समनघम् ।ठकारं बिन्द्विन्द्वं नवरविघटाकोटिकिरणंदले चार्के ध्याये कमलवरमालशिशुधरम् ॥३२ठँ॥एतच्छुद्धमनोलयस्य भवनं चैतन्यसंसिद्धयेवर्णाना जपभावनं यदि सदा चिन्तामणेर्मण्डलम् ।योगीन्द्रः कुरुते वशिष्ठसदृशो वा चां पतिर्भूतलेवाक्सिद्धिं चिरकालवासमखिले देवो हि नो मानुषः ॥३३॥वाञ्छाचिन्तामणिगृहं ह्रदयाम्भोजमण्डलम् ।तन्मध्ये पवनस्थानं मण्डलाकारमुल्बणम् ॥३४॥बुद्धिप्रतिभया व्याप्तं तन्मध्ये पवनाक्षरम् ।आच्छन्नधूमसङ्काशं प्रसिद्धस्थानमुत्तमम् ॥३५॥तन्मध्ये देवतापीठं षट्कोणं मण्डलं परम् ।तन्मध्ये भावयेदिष्टं स्वस्वकल्पोक्तसाधितम् ॥३६॥वायोर्ध्यानं तत्र कुर्यादत्यन्तसूक्ष्मरुपिणम् ।निराकारं परं ब्रह्म साकारं शब्दरुपिणम् ॥३७॥निरक्षरं स्वाक्षराढ्यं महोग्रं स्थिररुपिणम् ।चतुर्बाहुं जगद्व्याप्तं कृष्णसारासनं यवम् ॥३८॥लोकत्रयाणां वरदं करुणासिन्धुरुपिणम् ।पञ्चभूतात्मकं रौद्रं प्राणसञ्ज्ञं किरीटिनम् ॥३९॥संबिभ्रतं वराभीतिघण्टामरुसेवकान् ।ईशनाम्ना परिचितं परहंसं कुलेश्वरम् ॥४०॥सर्वाऽलङ्कारशोभाङुं विवेकोदयकारणम् ।विचिन्तयेत् साधककेन्द्रः परिवारगणावृतम् ॥४१॥तत्र पङ्केरुहे ध्यायेदीश्वरं वर्णरुपिणम् ।त्रैलोक्यमङुलं नाथ चतुर्बाहुं किरीटिनम् ॥४२॥रत्नमालाशोभिताङु शुक्लवर्णं महाप्रभम् ।ईश्वरं योगिनामीशं वरदं परमेश्वराम् ॥४३॥वराभीतिशङ्कपद्मश्रिया जुष्टं पुरातनम् ।रत्नाभरणभूशाङुं ह्रदयाम्भोजवासिनम् ॥४४॥वाञ्चातिरिक्तफलदं भावसिद्धिप्रकाशकम् ।परमहसमीशानं ध्यायेद् ह्रत्पद्ममण्डले ॥४५॥तत्पार्श्व ध्यानकुर्यात् काकिनीं परमेश्वरीम् ।त्रैलोक्यपूजिता देवीं काकचञ्चुप्रकाशिनीम् ॥४६॥चतुर्भुजां पीतवर्णां पीतवस्त्रोपशोभिताम् ।नवविद्युत्कोटिरुपां विलोलनेत्रपङ्कजाम् ॥४७॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP