संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|पञ्चपञ्चाशत्तमः पटलः| मणिपूरफलकथब्नम पञ्चपञ्चाशत्तमः पटलः मणिपूरफलकथब्नम पञ्चपञ्चाशत्तमः पटलः - मणिपूरफलकथब्नम हठयोगक्रमस्वरूपम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल मणिपूरफलकथब्नम Translation - भाषांतर श्रीआनन्दभैरवी उवाचकथयामि तव स्नेहात् कायवश्यविशेषणात् ।हठयोगं प्रकथितमिदानीं श्रृणुत क्रमम ॥१॥मणिपूरस्थितं रुद्रं त्रैलोक्ये पवनाक्षयम् ।कथयामि शिवानन्द शिवशङ्कर मङुल ॥२॥स्वाधिष्ठानोर्ध्वदेशे च परमानन्दसागरम् ।नाभिमूलं मेघजालमध्य विद्युच्छताकुलम् ॥३॥रहस्तातिरहस्तं च योगिनामतिसारगम् ।तन्नभिमूलदेशे च नीलपद्मं महाप्रभम् ॥४॥तद्दलाग्रे सदा भान्ति डादि फान्ताक्षराणि च ।तद् बाह्ये शोभितं रुपं त्रिकोणमनलस्य च ॥५॥प्रभातसूर्यसङ्काशं शिखाकारं निरञ्जनम् ।तत्राग्निबीजरुपं च रुपातीतं गुणान्तरम् ॥६॥विचिन्तयेन्मेषपृष्ठवाहनं चारुणाकृतिम् ।चतुर्बाहुं त्रिनयनं चारुदेहधरं परम् ॥७॥तत्क्रोडे भाति रुदेशः सिन्दूरारुणविग्रहः ।ब्रह्मरुपी त्रिनयनः सृष्टिसंहारकारकः ॥८॥विभूतिभूषिताङुस्तु लोकानामिष्टदो विभुः ।तस्य वामे सदा भाति लाकिनी परदेवता ॥९॥चतुर्भुजा महादेवी त्रिनेत्रा सौख्यदायिनी ।श्यामङी पीववसना विचित्रालङ्कृतामरा ॥१०॥सर्वसिद्धिप्रदा माता सर्वत्र सर्वपालिका ।सदा रक्षतु मां देवी विद्याभिः कुलपालिका ॥११॥एवं ध्यात्वा पूजयित्वा जपयागस्तवादिभिः ।ततः सिद्धो भवेन्मन्त्री मणिपूरप्रसादतः ॥१२॥मणिपूरफलं वक्ष्ये समासेन श्रृणुष्व तत् ।कोटिवर्षशतेनापि फलं वक्तुं न शक्यते ॥१३॥मणिपूरानन्तरं हि प्रवक्तव्यमनाहतम् ।स्तोत्रं ध्यानं नामधेयं सहस्त्रगुनशङ्करम् ॥१४॥फलमत्यन्तगुह्य च सुह्रत्पद्मोपसिद्धिदम् ।आत्माज्ञानं मोक्षसिद्धिं प्रेमभक्त्यादिलाभकम् ॥१५॥संहर्ता जनसङ्कानां पालकः कमलाकरः ।अकस्माज्ज्ञानसन्दोहलक्ष्मी प्राप्नोति योगिराट् ॥१६॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे मणिपूरभेदो नाम पञ्चपञ्चाशत्तमः पटलः ॥५५॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP