संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|अथैकापञ्चाशत्तमः पटलः| महारूद्रमृत्युञ्जयसहस्त्रनाम ४ अथैकापञ्चाशत्तमः पटलः महारूद्रमृत्युञ्जयसहस्त्रनाम १ महारूद्रमृत्युञ्जयसहस्त्रनाम २ महारूद्रमृत्युञ्जयसहस्त्रनाम ३ महारूद्रमृत्युञ्जयसहस्त्रनाम ४ अथैकापञ्चाशत्तमः पटलः - महारूद्रमृत्युञ्जयसहस्त्रनाम ४ मृत्युञ्जयसहितं लाकिणीसहस्त्रस्तोत्रम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल महारूद्रमृत्युञ्जयसहस्त्रनाम ४ Translation - भाषांतर शवमांसाशनो भीमो भीमनेत्रा भयानका ।शिवज्ञानक्रमो दक्षः क्रियायोगपरायणा ॥१५१॥दानस्थो दानसम्पन्नो दन्तुरा पार्वतीपरा ।प्रियानन्दो दिवाकर्ता निशानिषादघातिनी ॥१५२॥अष्टहस्तो विलोलाक्षो मनःस्थापनकारिणी ।मृदुपुत्रो मृदुच्छत्रो विभाऽङुपुण्यनन्दिनी ॥१५३॥अन्तरिक्षगतो मूलो मूलपुत्रप्रकाशिनी ।अभीतिदाननिरतो विधुमालामनोहरी ॥१५४॥चतुरास्त्रजाहनवीशो गिरिकन्या कुतूहली ।शिशुपालरिपुप्राणो विदेश पदरक्षिणी ॥१५५॥विलक्षनो विधिज्ञाता मानहन्त्री त्रिविक्रमा ।त्रिकोणानन-योगीशो निम्ननाभिर्नगेश्वरी ॥१५६॥नवीन गुणसम्पन्नो नवकन्याकुलाचला ।त्रिविधेशो विशङेतो विज्वरा ज्वरदायिनी ॥१५७॥अतिधार्मिकपुत्रश्च चारुसिंहासनस्थिता ।स्थापकोत्तमवर्गाणां सतां सिद्धिप्रकाशिनी ॥१५८॥सिद्धप्रियो विशालाक्षो ध्वंसकर्त्री निरञ्जना ।शक्तीशो विकलेशश्च क्रतुकर्मफलोदया ॥१५९॥विफलेशो वियद्गामी ललिता बुद्धिवाहना ।मययाद्रितपः क्षेमः क्षयकर्त्री रजोगुणा ॥१६०॥द्विरुण्डको द्वारपालो बलेर्विघ्नविनाशिनी ।मायापद्मगतो मानो मारीविद्याविनाशिनी ॥१६१॥हिङुलाजस्थितः सिद्धो विदुषां वादसारिणी ।श्रीपतीशः श्रीकरेशः श्रीविद्या भुवनेश्वरी ॥१६२॥मतिप्रथमजो धन्यो मिथिलानाथपुत्रिका ।रामचन्द्रप्रियः प्राप्तो रघुनाथकुलेश्वरी ॥१६३॥कूर्मः कूर्मगतो वीरा वसावर्गा गिरिश्वरी ।राजराजेश्वरी बालो रतिपीठगुणान्तरा ॥१६४॥कामरुपधरोल्लासो विदग्धा कामरुपिणी ।अतिर्थाशः सर्वभर्ता नानालङ्कारशोभिता ॥१६५॥नानालङ्कारभूषाङो नरमालाविभूषिता ।जगन्नाथो जगद्व्यापी जगतामिष्टसिद्धिदा ॥१६६॥जगत्कोमो जगद्व्यापी जयन्ती जयदायिनी ।जयकारी जीवकारी जयदा जीवनी जया ॥१६७॥जयो गणेशः श्रीदाता महापीठनिवासिनी ।विषमः सामवेदस्थो यजुर्वेदांशयोगया ॥१६८॥त्रिकालगुणगम्भीरो द्वाविंशतिकराम्बुजा ।सहस्त्रबाहुः सारस्थो भागगा भवभाविनी ॥१६९॥भवनदिकरो मार्गो विनीता नयनाम्बुजा ।सर्वत्राकर्षकोऽखण्डः सर्वज्ञानाभिकर्षिणी ॥१७०॥जिताशयो जितविप्रः कलङ्कगुनवर्जिता ।निराधारो निरालम्बो विषयाज्ञानवर्जिता ॥१७१॥अतिविस्तारवदनो विवादखलनाशिनी ।भार्यानाथः क्षोभनाशो रिपूणां कुलपूजिता ॥१७२॥आशवो भूरिवर्गाणां चारुकुन्तलमण्डिता ।अतिबुद्धिधरो सूक्ष्मो रजनीध्वान्तनाशिनी ॥१७३॥ज्योत्स्नाजालकरो योगी वियोगशायिनी युगा ।युगगामी योगगामी जयदा लाकिनी शिवा ॥१७४॥संज्ञाबुद्धिकरो भावो भवभीतिविमोहिनी ।सुन्दरः सुन्दरानन्दो रतिकारतिसुन्दरी ॥१७५॥रतिज्ञानी रतिसुखो रतिनाथप्रकाशिनी ।बुद्धरुपी बोधमात्रो वैरोधो द्वैतवर्जिता ॥१७६॥भूरिभावहरानन्दो भूरिसन्तानदायिनी ।यज्ञसाधनकर्ता च सुयज्ञ पञ्चमोचना ॥१७७॥कोटिकोटिचन्द्रतेजः कोटिकोटिरुचिच्छटा ।कोटिकोटिचञ्चलाभो द्विकोट्ययुतचञ्चला ॥१७८॥कोटिसूयाच्छन्नदेहः कोटिकोटिरविप्रभा ।कोटिचन्द्रकान्तमणिः कोटीन्दुकान्तनिर्मला ॥१७९॥शतकोटिविधुमणीः शतकोटीन्दुकान्तगा ।विलसत्कोटिकालाग्निः कोटिकालानलोपमा ॥१८०॥कोटिवहिनगतो वहिन वहिनजाया द्विगोद्भवा ।महातेजो वहिनवारिः कालग्निहारधारिणी ॥१८१॥कालाग्निरुद्रो भगवान् कालाग्निरुद्ररुपिणी ।कालात्मा कलिकालात्मा कलिका कुललाकिनी ॥१८२॥मृत्युजितो मृत्युतेजा मृत्युञ्जयमनुप्रिया ।महामृत्युहरो मृत्युरपमृत्युविनाशिनी ॥१८३॥जयो जयेशो जायदो जयदा जयवर्धिनी ।जयकरो जगद्धर्मो जगज्जीवनरक्षिणी ॥१८४॥सर्वजित् सर्वरुपी च सर्वदा सर्वभाविनी ।इत्येतत् कथितं नाथ महाविद्याभिधानकम् ॥१८५॥शब्दब्रह्ममयं साक्षात् कल्पवृक्षस्वरुपकम् ।अष्टोत्तरसहस्त्राख्यं शतसंख्यासमाकुलम् ॥१८६॥त्रैलोक्यमङुलक्षेत्रं सिद्धविद्याफलप्रदम् ।सकलं निष्कलं साक्षात् कल्पद्रुमकलान्वितम् ॥१८७॥योगिनामात्मविज्ञानमात्मज्ञानकरं परम् ।यः पठेद् भावसम्पूर्णो मिथ्याधर्मविवर्जितः ॥१८८॥रुद्रपीठे स्वयं भूत्त्वा महायोगी भवेद्ध्रुवम् ।अकस्मात्सिद्धिमाप्नोति चाधमां माल्यदायिनीम् ॥१८९॥राजलक्ष्मीधनैश्वर्यमतिधैर्य हयादिकम् ।कुञ्जरं सुन्दरं वीरं पुत्रं राज्यं सुखं जयम् ॥१९०॥राजराजेश्वरत्वं च दिव्यवाहनमेव च ।अक्लेशपञ्चमासिद्धिं ततः प्राप्नोति मध्यमाम् ॥१९१॥अत्यन्तदुःखहननं गुरुत्वं लोकमण्डले ।देवानां भक्तिसंख्याञ्च दिव्यभावं सदा सुखम् ॥१९२॥आयुर्वृद्धिं लोकवश्यं पूर्णकोशं हि गोधनम् ।देवानां राज्यभवनं प्रत्यक्षे स्वप्नकालके ॥१९३॥दीर्घदृष्टिभयत्यागं चाल्पकार्यविवर्जितम् ।सदा धर्मप्रियत्वं च धर्मज्ञानं महागुणम् ॥१९४॥विवेकाङ्कुरमानन्दं श्रीवाणीसुकृपान्वितम् ।तत उत्तमयोगस्थां सिद्धिं प्राप्नोति साधकः ॥१९५॥अनन्तगुनसंस्थानं मायार्थभूतिवर्जनम् ।एकान्तस्थानवसतिं योगशास्त्रनियोजनम् ॥१९६॥सर्वाकाङ्क्षाविशून्यत्वं दैवतैकान्तसेवनम् ।खेचरत्वं सर्वगतिं भावसिद्धिं सुरप्रियम् ॥१९७॥सदा रौद्रक्रियायोगं विभूत्यष्टाङुसिद्धिदम् ।दृढज्ञानं सर्वशास्त्रकारित्वं रससागरम् ॥१९८॥एकभावं द्वैतशून्यं महापानियोजनम् ।महागुणवतीविद्यापतित्वं शान्तिमेव च ॥१९९॥प्राप्नोति साधकश्रेष्टो यः पठेद् भावनिश्चलः ।त्रिकालमेककालं वा द्विकालं वा पठेत् सुधीः ॥२००॥शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः ।पुरश्चरणमाकृत्य पठित्वा च पुनः पुनः ॥२०१॥अष्टैश्वर्ययुतो भूत्वा मनोगतिमवाप्नुयात् ।सर्वत्र कुशलं व्याप्तं यः पठेन्नियतः शुचिः ॥२०२॥षट्चक्रमणिपीठञ्च भित्त्वाऽनाहतगो भवेत् ।अनाहतं ततो भित्वा विशुद्धसङुमो भवेत् ॥२०३॥विशुद्धपद्मं भित्त्वा च शीर्षे द्विदलगो भवेत् ।द्विदलादिमहापद्मं भित्त्वैतत् स्तोत्रपाठतः ॥२०४॥चतुर्वर्गां क्रियां चान्ते निर्वाणमोक्षभाक् ।योगिनां योगसिद्ध्यर्थे सर्वभूतदयोदयम् ॥२०५॥निर्वाणमोक्षसिद्धयर्थे कथितं परमेश्वर ।एतत्सवनपाठेन किं न सिद्धयति भूतले ॥२०६॥कुलं कुलक्रमेणैव साधयेद् योगसाधनम् ।योगान्ते योगमध्ये च योगाद्ये प्रपठेत् स्तवम् ॥२०७॥कृत्तिकारोहिणीयोगयात्रायां मिथुने तथा ।श्रवणायां मेषगणे कुजे चेन्दुसमाकुले ॥२०८॥शनिवारे च सङक्रान्त्यां कुजवारे पुनः पुनः ।सन्ध्याकाले लिखेत् स्तोत्रं ध्यानधारणयोगिराट् ॥२०९॥भूर्जपत्रे लिखित्वा च कण्ठे शीर्षे प्रधारयेत् ।अथवा रात्रियोगे च कुलचक्रे लिखेत् सुधीः ॥२१०॥सर्वत्र कुलयोगेन पठन् सिद्धिमवाप्नुयात् ।एतन्नाम्ना प्रजुहयात् कालिकाकृतिमान् भवेत् ॥२११॥तद्दशांशक्रमेणैव हुत्वा योगीह सर्वदा ।मणिपूरे दृढो भूत्वा रुद्रशक्तिकृपां लभेत् ॥२१२॥॥ इति श्रीरुद्रयामले लाकिनीशाष्टोत्तरशतसहस्त्रनामविन्यासे एकपञ्चाशत्तमः पटलः ॥५१॥ N/A References : N/A Last Updated : April 28, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP