संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|अथैकापञ्चाशत्तमः पटलः| महारूद्रमृत्युञ्जयसहस्त्रनाम ३ अथैकापञ्चाशत्तमः पटलः महारूद्रमृत्युञ्जयसहस्त्रनाम १ महारूद्रमृत्युञ्जयसहस्त्रनाम २ महारूद्रमृत्युञ्जयसहस्त्रनाम ३ महारूद्रमृत्युञ्जयसहस्त्रनाम ४ अथैकापञ्चाशत्तमः पटलः - महारूद्रमृत्युञ्जयसहस्त्रनाम ३ मृत्युञ्जयसहितं लाकिणीसहस्त्रस्तोत्रम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल महारूद्रमृत्युञ्जयसहस्त्रनाम ३ Translation - भाषांतर यमुनापतिपः पीनो महाकालवसावहा ।जम्बूद्धीपेश्वरः पारः पारावारकृतासनी ॥१०१॥वज्रदण्डधरः शान्तो मिथ्यागतिरतीन्द्रिया ।अनन्तशयनो न्यूनः परमाहलादवर्धिनी ॥१०२॥शिष्टाश्रणिलयो व्याख्यो वसन्तकालसुप्रिया ।विरजान्दोलितो भिन्नो विशुद्धगुणमण्डिता ॥१०३॥अञ्जनेशः खञ्जनेशः पललासवभक्षिणी ।अङुभाषाकृतिस्नाता सुधारसफलातुरा ॥१०४॥फलबीजधरो दौर्गो द्वारपालनपल्लवा ।पिप्पलादः कारणश्च विख्यातिरतिवल्लभा ॥१०५॥संहारविग्रहो विप्रो विषण्णा कामरुपिणी ।अवलापो नापनापो विक्लृप्ता कंसनाशिनी ॥१०६॥हठात्कारेणतो चामो नाचामो विनयक्रिया ।सर्व सर्वसुखाच्छन्नो जिताजितगुणोदया ॥१०७॥भास्वत्किरीटो राड्कारी वरुणेशीतलान्तरा ।अमूल्यरत्नदानाढ्यो दिवरात्रिस्त्रिखण्डजा ॥१०८॥मारबीजमहामानो हरबीजादिसस्थिता ।अनन्तवासुकीशानो लाकिनी काकिनी द्विधा ॥१०९॥कोटिध्वजो बृहद्गर्गश्चामुण्डा रणचण्डिका ।उमेशो रत्नमालेशी विकुम्भगणपूजितः ॥११०॥निकुम्भपूजितः कृष्णो विष्णुपत्नी सुधात्मिका ।अल्पकालहरः कुन्तो महाकुन्तास्त्रधारिणी ॥१११॥ब्रह्मास्त्रधारकः क्षिप्तो वनमालाविभूषिता ।एकाक्षरो द्वयक्षरश्च षोडशाक्षरसंभवा ॥११२॥अतिगम्भीरवातस्थो महागम्भीरवाद्यगा ।त्रिविधात्मा त्रिदेशात्मा तृतीया त्राणकारिणी ॥११३॥कियत्कालचलानन्दो विहङुगमनासना ।गीर्वाण बाणहन्ता च बाणहस्ता विधूच्छला ॥११४॥बिन्दुधर्मोज्ज्वलोदारो वियज्ज्वलनकारिणी ।विवासा व्यासपूज्यश्च नवदेशीप्रधानिका ॥११५॥विलोलवदनो वामो विरोमा मोदकारिणी ।हिरण्यहारभूषाङुः कलिङुः नन्दिनीशगा ॥११६॥अनन्यक्षीणवक्षश्च क्षितिक्षोभविनाशिका ।क्षणक्षेत्रप्रसादाङो वशिष्टादिऋषीश्वरी ॥११७॥रेवातीरनिवासी च गङातीरनिवासिनी ।चाङेशः पुष्करेशश्च व्यासभाषाविशेषिका ॥११८॥अमलानाथसंज्ञश्च रामेश्वरसुपूजिता ।रमानाथः प्रभुः प्राप्तिः कीर्तिदुर्गाभिधानिका ॥११९॥लम्बोदरः प्रेमकालो लम्बोदरकुलप्रिया ।स्वर्गदेहो ध्यानमानो लोचनायतधारिणी ॥१२०॥अव्यर्थवचनप्रक्ष्यो विद्यावागीश्वरप्रिया ।अब्दमान स्मृतिप्राणः कलिङुनगरेश्वरी ॥१२१॥अतिगुह्यतरज्ञानी गुप्तचन्द्रात्मिकाऽव्यया ।मणिनागगतो गन्ता वागीशानी बलप्रदा ॥१२२॥कुलासनगतो नाशो विनाशा नाशसुप्रिया ।विनाशमूलः कूलस्थः संहारकुलकेश्वरी ॥१२३॥त्रिवाक्यगुणविप्रेन्द्रो महदाश्चर्यचित्रिणी ।आशुतोषगुणाच्छन्न महविहवलमण्दला ॥१२४॥विरुपाक्षी लेलिहश्च महामुद्राप्रकाशिनी ।अष्टादशाक्षरो रुद्रो मकरन्दसुबिन्दुगा ॥१२५॥छत्रचामरधारी च छत्रदात्री त्रिपौण्ड्रजा ।इन्द्रात्मको विधाता च धनदा नादकारिणी ॥१२६॥कुण्डलीपरमानन्दो मधुपुष्पसमुद्भवा ।बिल्ववृक्षस्थितो रुद्रो नयनाम्बुजवासिनी ॥१२७॥हिरण्यगर्भः कौमारो विरुपाक्षा ऋतुप्रिया ।श्रीवृक्षनिलयश्यामो महाकुलतरुद्भवा ॥१२८॥कुलवृक्षस्थितो विद्वान् हिरण्यजतप्रिया ।कुलपः प्राणपः प्राणा पञ्चचूडधराधरा ॥१२९॥उषती वेदिकानाथो नर्मधर्मविवेचिका ।शीतलाप्तः शीतहीनो मनःस्थिर्यकरी क्षया ॥१३०॥कुक्षिस्थः क्षणभङुस्थो गिरिपीठनिवासिनी ।अर्धकायः प्रसन्नात्मा प्रसन्नवनवासिनी ॥१३१॥प्रतिष्ठेशः प्राणधर्मा ज्योतीरुपा ऋतुप्रिया ।धर्मध्वजपताकेशो बलाका रसवर्द्धिनी ॥१३२॥मेरुश्रृङुगतो धूर्तो धूर्तमत्ता खलस्पृहा ।सेवासिद्धिप्रदोऽनन्तोऽनन्तकार्यविभेदिका ॥१३३॥भाविनामत्त्वजानज्ञो विराटपीठवासिनी ।विच्छेदच्छेभेदश्च छलनशास्त्रप्रकाशिका ॥१३४॥चारुकर्म्या संस्कृतश्च तत्पहाटकरुपिणी ।परानन्दसज्ञानी रससन्तानमन्त्रिणी ॥१३५॥प्रतीक्षः सूक्ष्मशब्दश्च प्रसङुसङुतिप्रिया ।अमायी सागरोद्भूतो बन्ध्यादोषविवर्जिता ॥१३६॥जितधर्मो ज्वलच्छत्री व्यापिका फलवाहना ।व्याघ्रचर्माम्बरो योगी महापीना वरप्रदा ॥१३७॥वरदाता सारदाता ज्ञानदा वरवाहिनी ।चारुकेशधरो मापो विशाला गुणदाऽम्बरा ॥१३८॥ताडङ्कमलानिर्माल धरस्ताडङ्कमोहिनी ।पञ्चालदेश संभूतो विशुद्धस्वरवल्लभा ॥१३९॥किरातपूजितो व्याधो मनुचिन्तापरायणा ।शिववाक्यरतो वामो भृगुरामकुलेश्वरी ॥१४०॥स्वयम्भुकुसुमाच्छन्नो विधिविद्याप्रकाशिनी ।प्रभाकरतनूद्भूतो विशल्यकरणीश्वरी ॥१४१॥उषतीश्वरसम्पर्की योगविज्ञानवासिनी ।उत्तमो मध्यमो व्याख्यो वाच्यावाच्यवराङुना ॥१४२॥आंबीजवादरोषाढ्या मन्दरोदरकारिणी ।कृष्णसिद्धान्त संस्थानो युद्धसाधनचर्चिका ॥१४३॥मथुरासुन्दरीनाथो मथुरापीठवासिनी ।पलायनविशून्यश्च प्रकृतिप्रत्ययस्थिता ॥१४४॥प्रकृतिप्राणनिलयो विकृतिज्ञाननाशिनी ।सर्वशास्त्रविभेदश्च मत्तसिंहासनासना ॥१४५॥इतिहासप्रियो धीरो विमलाऽमलरुपिणी ।मणिसिंहासनस्थश्च मणिपूरजयोदया ॥१४६॥भद्रकालीजपानन्दो भद्राभद्रप्रकाशिनी ।श्रीभद्रो भद्रनाथश्च भयभङुविहिसिनी ॥१४७॥आत्मारामो विधेयात्मा शूलपाणिप्रियाऽन्तरा ।अतिविद्या दृढाभ्यासो विशेषवित्त दायिनी ॥१४८॥अजराऽमरकान्तिश्च कान्तिकोटिधरा शुभा ।पशुपालः पद्मसंस्थः श्रीशपाशुपताऽस्तदा ॥१४९॥सर्वशास्त्रधरो दृप्तो ज्ञानिनी ज्ञानवर्धिनी ।द्वितीयानाथ ईशार्द्धो बादरायणमोहिनी ॥१५०॥ N/A References : N/A Last Updated : April 28, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP