संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|पञ्चाशत्तमः पटलः| पञ्चामराभक्षणमन्त्रः पञ्चाशत्तमः पटलः वीरभावस्य माहात्म्यम् पञ्चामराभक्षणमन्त्रः पञ्चाशत्तमः पटलः - पञ्चामराभक्षणमन्त्रः मणिपूरभेदप्रकाशः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल पञ्चामराभक्षणमन्त्रः Translation - भाषांतर सकलं चामरायोगं मन्त्रेणानेन भक्षयेत् ।तातद्वयं समुद्धृत्य ऋयुगं तदन्तरम् ॥३८॥विसर्गबिन्दुसंयुक्तं तत्पश्चादमृतामुखि ।मरणं मारयद्वन्द्वं योगसिद्धिं ततः परम् ॥३९॥देहि देहि पदस्यान्ते स्वाहान्तं मन्त्रमुत्तमम् ।एतन्मन्त्रेण चोत्पाट्य मन्त्रयित्वा प्रभक्षयेत् ॥४०॥एतत्काण्डस्य मन्त्रं तत्रैव परियोजयेत् ।निर्गुण्डीमन्डीमन्त्रराजं तु श्रृणु वक्ष्यामि भैरव ॥४१॥कामबीजत्रयं पश्चात् कालीबीजत्रयं तथा ।सर्वयोगं ततः पश्चात् साधयद्वयमेव च ॥४२॥अमृतत्वं मयि शक्तं समर्पद्वयं ततः ।स्वाहान्तमनुना चाथ चोत्पाट्य भक्षणं चरेत् ॥४३॥बिल्वपत्रं प्रगृहणीयात्तन्मन्त्रं श्रृणु भैरव ।लज्जाबीजं कामबीजं शक्तिबीजं ततः परम् ॥४४॥ ब्रह्मबीजं ततः पश्चाद् गौरसुन्दरि चावदेत् । मां स्थापय महायोगे पालयद्वयमेव च ॥४५॥शङ्करप्रेमगलित स्वाहान्तं मन्त्रमुच्चरेत् ।तुलसीपत्रं संशोध्य चोत्पाट्य मनुनाऽमुना ॥४६॥विष्णुप्रिये महामाये शिवयोगप्रसाधिनि ।मायाच्छेदं ततः पश्चात् संसारं हारयद्वयम् ॥४७॥अमरत्वं देहि देहि स्वाहान्तं प्रणवादिकम् ।श्रृणु श्रीविजयापत्रशोधनं हि चतुर्विधम् ॥४८॥चतुर्वर्णं स्वमन्त्रेण परिशोध्य कुलाकुलम ।तत्क्रमं परिवक्ष्यामि सावधानाऽवधारय ॥४९॥प्रणवं पूर्वमुच्चार्य देवीबीजं ततः परम् ।स्वाहान्तं मन्त्रमुद्धृत्य संशोध्य भक्षयेत् सुधीः ॥५०॥एकीकृत्य महादेव चैतन्मन्त्रेण मन्त्रयेत् ।अमृतेऽमृतशब्दान्ते तद्भवे पदं ततः ॥५१॥श्रीबीजं मन्मथं बीजं लज्जाबीजद्वयं क्रमात् ।क्रमेण च समुद्धृत्य विजये ज्ञानसुन्दरि ॥५२॥योगमोक्षप्रदे पश्चात् कायशोधिनि पावनि ।मम पश्चात् कायसिद्धिं देहि देहि ततः परम् ॥५३॥अमृतवर्षिणि शब्दान्ते अमृतं तदनन्तरम् ।आकर्षयद्वयं पश्चात् सिद्धिं देह्यनलप्रिये ॥५४॥एतन्मन्त्रेण संशोध्य सावधानेन भक्षयेत् ।न्यूनाधिकं न कर्तव्यं शनैरभ्यासमाचरेत् ॥५५॥यावत् प्रमाणभक्षः स्यात् प्रमाणे चाधिकं न च ।एतद्भोजनमाकृत्य पयः पानं समाचरेत् ॥५६॥तत्प्रकारं श्रृणु प्राणनाथ ईश्वर शङ्कर ।मरीचबीजं संशोध्य दुग्धशोधनमाचरेत् ॥५७॥एतत्प्रकारं द्विविधं तत्प्रकारं वदम्यहम् ।वाञ्छाकल्पतरेर्मूले गुरुं ध्यात्वा पुनः पुनः ॥५८॥मानसोपचारद्रव्यैः पूजयित्वा विधानतः ।मरीचं तोलकार्धं तु शोधयेन्मनुनामुना ॥५९॥श्रीकृष्णबीजमुद्धृत्य पृथ्वीबीजत्रयं तथा ।घोरघोरतरे पश्चान्मरीचकुलसुन्दरि ॥६०॥नीला त्वं भव देहे मे शरीरं शोधयद्वयम् ।द्विठान्तोऽयं मनुः प्रोक्तस्तत्पश्चाद् दुग्धशोधनम् ॥६१॥आदौ मरीचं भुक्त्वा तु दुग्धपानं महाबलम् ।चर्वयित्वा मरीचं तु दुग्धपानं महाबलम् ॥६२॥कृष्णबीजं स्मुद्धृत्य कामेश्वरीमनुं ततः ।शिवबीजद्वयं पश्चात् कृष्णगोवसवासिनी ॥६३॥योगविग्रहमुद्धृत्य मम कामप्रसाधिनि ।तत्पश्चाद् योगसिद्धिनामीश्वरि क्षेत्रवासिनि ॥६४॥शरीरं वसमन्ते च चालयद्वयमेव च ।विघ्नान् वारययुग्मं तु स्वाहान्तोऽयं महामनुः ॥६५॥द्वादशवारमुच्चार्य चाथवा पञ्चवारकम् ।वारत्रयं मुदा शोध्य सर्वत्रायं विधिः स्मृतः ॥६६॥यदि पिबेत् खेचरत्वं तथा दुग्धं द्विपादकम् ।यदि चेत् केवलं दुग्धं तदा प्रस्थं चतुर्दश ॥६७॥लघ्वाहारी महाज्ञानी पञ्चमादि विरागावित् ।मणिपूरे मनोयोगं समाकृत्यामरो भवेत् ॥६८॥चतुर्वर्गः करे तस्य यो मणेः पीठमाश्रयेत् ।श्रीआनन्दभैरव उवाचमणिपूरभेदनार्थ मनोयोगसुसिद्धये ॥६९॥खेचरादिमहायोगसिद्धये सर्वसिद्धये ।मृत्युअञ्जयस्य देवस्य रुद्रशक्त्याश्च दर्शनात् ॥७०॥तथा पीठस्थिरार्थाय कालजालवशाय च ।सहस्त्रनामबीजानि चाष्टोत्तरशतानि च ॥७१॥मृत्युञ्जस्य लाकिन्याः स्तोंत्र मकारकूटकम् ।कथयस्व वरारोहे यदि स्नेहोऽस्ति मां प्रति ॥७२॥ज्ञानदे परमेशानि शरीरं मम रक्षतु ॥७३॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरण भैरवभैरवीसंवादे मणिभेदप्रकाशो नाम पञ्चाशत्तमः पटलः ॥५०॥ N/A References : N/A Last Updated : April 28, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP