संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|पञ्चाशत्तमः पटलः| वीरभावस्य माहात्म्यम् पञ्चाशत्तमः पटलः वीरभावस्य माहात्म्यम् पञ्चामराभक्षणमन्त्रः पञ्चाशत्तमः पटलः - वीरभावस्य माहात्म्यम् मणिपूरभेदप्रकाशः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल वीरभावस्य माहात्म्यम् Translation - भाषांतर श्रीआनन्दभैरवी उवाचनाथ कान्त प्रवक्ष्यामि सिद्धसाधनमुत्तमम् ।येन साधनमात्रेण नरो योगी भवेद् ध्रुवम् ॥१॥त्रिवीरं त्रिविधं प्रोक्तमुत्तमाधममध्यमम् ।तत्रैव त्रिविधं सङुमूर्ध्वपातालभूतलम् ॥२॥सप्त ऊर्ध्वं तथा नाथ सप्त भूतलमेव च ।सप्त पातालमेवं हि सप्तत्रिसप्तसंख्यकम् ॥३॥तन्मध्ये त्रिविधं भावं दिव्यवीरपशुक्रमम् ।दिवि तिष्ठन्ति देवाश्च वीरास्तिष्ठन्ति भूतले ॥४॥पशवः सन्ति पाताले क्रमशः क्रमशः प्रभो ।सर्वत्र त्रिगुणाच्छन्न सत्त्वरजस्तमादिकम् ॥५॥सत्त्वगुणं स्वर्गमध्ये सर्वे विष्णुपरायणाः ।तदा सर्वे दृढाः स्वर्गे भूतले च रजोगुणम् ॥६॥ब्रह्मसेवापराः सर्वे ब्रह्मज्ञानिन एव च ।पाताले शिवसेवाश्च शिवरुपिण एव च ॥७॥तमोगुणात् पशोर्भावं तमोदृष्टिं समाप्य च ।ततो विहाय तज्ज्ञानं वीरो भवति साधकः ॥८॥वीरभावे ज्ञानदृष्टिं ब्रह्मसिद्धिं समाप्य च ।देवता भवति क्षिप्रं सत्त्वे निर्मलभावके ॥९॥स्थिरो भूत्वा महादेवो भवत्येव क्रमेण तु ।आकाशगामिनी सिद्धिः क्रमशो भवति ध्रुवम् ॥१०॥मूलाधारस्य चाधो वै पातालतलवासिनः ।तदूर्ध्वे ब्रह्मलोके तु भूतलादिनिवासिनः ॥११॥तदूर्ध्वे सत्त्वनिलयं स्वाधिष्ठानं हि दैवतम् ।विधिविद्याप्रकाशश्च वरदेवस्य सम्पदम् ॥१२॥तदूर्ध्वे सर्वरुपञ्च सर्वज्ञानाश्रयं परम् ।परस्थानां महादेव मणिपूरं मनोहरम् ॥१३॥रुद्रशक्त्यामकं चक्रं श्रीविद्याचक्रमण्डलम् ।लाकिनी परमा माया महारुद्रेण सेविता ॥१४॥मणिपूरप्रकाशाय रुद्रशक्तिर्विभाति च ।सर्वज्ञानानन्दमयं सर्वसिद्धिप्रकारम् ॥१५॥महासूक्ष्मशब्दमयं कुण्डलं ज्ञानसाधनम् ।यस्याः साधनमात्रेण योगी भवति भैरव ॥१६॥प्रकार एव सेवायां महासिद्धिश्वरो भवेत् ।सर्वे च पशवः सन्ति तलवद् भूतले नराः ॥१७॥तेषां ज्ञानप्रकाशाय वीरभावः प्रकाशितः ।वीरभावं मुदा प्राप्य क्रमेण देवता भवेत् ॥१८॥यत्काले वीरभावादिसिद्धिं प्राप्नोति मानवः ।तत्कालनिर्णयं वक्ष्ये वीराद्देवत्वमाप्नुयात् ॥१९॥मासेनाकर्षिणी सिद्धिर्मासेन वाक्पतिर्भवेत् ।मासत्रयेण संयोगज्जायते सुरवल्लभः ॥२०॥एवं चतुष्टये मासि भवेद् दिक्पालगोचरः ।पञ्चमे पञ्चबाणः स्यात् षष्ठे रुद्रो न संशयः ॥२१॥वीरभावं समाश्रित्य सर्वदा योगमाश्रयेत् ।पशोरधीनं देवेश वीरभावं मनोहरम् ॥२२॥वीराधीनं दिव्यभावं दिव्येन रुद्रतर्पणम् ।रुददर्शनमात्रेण जीवन्मुक्तो भवेद् ध्रुवम् ॥२३॥जीवन्मुक्तिपदं प्राप्य किन्न सिध्यति भूतले ।मनोनिवेशमाकृत्य पशुभावाश्रितो नरः ॥२४॥वीरभावं समाश्रित्य चादौ योगं समाश्रयेत् ।सर्वदा चाभ्यसेद् योगं मन्त्रन्यासपरायणः ॥२५॥योगसिद्धि ज्ञानसिद्धिं मोक्षसिद्धिं ततः परम् ।यदि मोक्षमिहेच्छन्ति पशवः शास्त्रमोहिताः ॥२६॥समज्ञानं वीरभावमाश्रित्य योगमाप्नुयात् ।योगाभ्यासस्य चाद्ये च शरीरं परिशोधयेत् ॥२७॥आदौ पञ्चामराः कार्याः सर्वकार्यनिराश्रयाः ।केवलं योगमाश्रित्य सदा पञ्चामरा भवेत् ॥२८॥द्विप्रकारं महाकाल पञ्चामराभिधानकम् ।नेती दन्ती तथा धौती नेउली क्षालनं तथा ॥२९॥एकप्रकारमेवं हि कथितं परमेश्वर ।दन्ती नेती तथा धौति नेउली क्षालनक्रमात ॥३०॥एवं वा नित्यमाकुर्याद् योगसिद्धिसमृद्धये । द्पञ्चामरासाधनादिकाले कुर्यान्निजक्रियाम् ॥३१॥औषधी पञ्चमं ग्राह्यं पञ्चयोगसुसिद्धये ।बिल्वपत्रं जयापत्रं तुलसीश्यामपत्रकम् ॥३२॥निर्गुण्डीपत्रमेवं तु दूर्वाग्रन्थिरसेन च ।एषां प्रकृतिनामानि वक्ष्यामि श्रृणु शङ्कर ॥३३॥अमरा बिल्वपत्रं तु चामरा विजयादलम् ।अमरलता ग्रन्थिदूर्वा निर्गुण्डी चामरेश्वरी ॥३४॥अमरा श्यामतुलसी पञ्चामरास्तरुद्भवाः ।कथिता योगसिद्धयर्थे तत्प्रमाणं क्रमात् श्रृणु ॥३५॥पञ्चतोककमानं तु विजयापत्रमेव च ।अन्येषां तोलकं चैकं संशोध्य भक्षणं चरेत् ॥३६॥एतद्भक्षणमात्रेण पञ्चयोगे जयी भवेत् ।पुनस्तेषां महाकाल मनुं वक्ष्यामि तत्त्वतः ॥३७॥ N/A References : N/A Last Updated : April 28, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP