संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|त्रिचत्वारिंशः पटलः| भावमहिमानिरुपणम् त्रिचत्वारिंशः पटलः कामिनीवशीकरणम् जीवस्वरुप कथनम् भावमहिमानिरुपणम् त्रिचत्वारिंशः पटलः - भावमहिमानिरुपणम् मणिपूरचक्रभेदप्रकारकथनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल भावमहिमानिरुपणम् Translation - भाषांतर विषय विकृतिग्राह्यं सुकृतिज्ञानवर्जितम् ।त्यक्त्वा दिव्यं महापीठं मणिपूर समाश्रयेत् ॥५८॥महायन्त्रे मनो दत्वा निर्माण्म कारयेद् बुधः ।मणिभिर्ग्रथनं कृत्वा नानामणिविभूषितम् ॥५९॥सुपीठं कुलपीठे वा लिङुपीठमथापि वा ।श्रीविद्यापीठमालिख्य विभाव्य च पुनः पुनः ॥६०॥ततः प्रस्फुटिते पद्मे द्लाग्रे षड्द्लस्य च ।स्थापयित्वा महाविष्णुं पूजयित्वा सुसंयतः ॥६१॥जप्त्वा च तन्मयो भूत्वा निधाय मणिपूरके ।दृढाकारमूर्ध्वगत षड्दलं परिरक्षयेत् ॥६२॥ततश्चोद्र्ध्वतरे स्थाने महोच्चोत्तरसुन्दरे ।मनोनिवेशनं कृत्वा शक्तिं रुद्रं समाश्रयेत् ॥६३॥चैतन्यरुपिणीं शक्ति चैतन्यं रुद्ररुपिणम् ।तत्रं भद्रात्मकं रौद्रं रौद्रीं प्रकाशकारिणीम् ॥६४॥भक्त्या पुनः पुनर्ध्यायेदूर्ध्वरेतास्तमीश्वरम् ।प्रगच्छन्ति चोद्र्ध्वमार्गे योगिभिरेव च ॥६५॥अहं देवी परानन्दा मणिपूरनिवासिनी ।तथा श्रीलाकिनीशक्तिः श्रीरुद्रस्त्व न संशयः ॥६६॥रुद्ररुपी महादेवो रुद्ररुपा सरस्वती ।सर्वदा ऊद्र्ध्वगामी च सा शक्तिरुद्र्ध्वगामिनी ॥६७॥ऊद्र्ध्वमार्गं काशयन्तीं योगिनीं योगमातरम् ।महारुद्रं तथा ध्यात्वा मणिपूरे सुनिर्मले ॥६८॥ऊद्र्ध्वमुखं समाकुर्याद् महापद्मं मनोरमम् ।मणिपूरं महाकान्तं मोणिकोतिसुनिर्मलम् ॥६९॥कोटिकोटिशरच्चन्द्रं पूर्णज्योतिःसमाकरम् ।ऊद्र्ध्वमुखे समाकुर्यात् स्वयंभावेन जायते ॥७०॥यदि चोद्र्ध्वमुखं पद्मं यन्त्रमण्डलसंयुतम् ।अतिकोमलपत्रेषु भाति चात्यद्भुतङ्करम् ॥७१॥लेपायित्वा योजयित्वा स्थापयित्वा पुनः पुनः ।प्रापयित्वा महारुद्रं त्रैलोक्यजननीं शिवाम् ॥७२॥रुद्राणीं रौद्रशक्तिञ्च लाकिनी लोकसाक्षिणीम् ।कुम्भकं प्राणवायोश्च प्राणवायोश्च योजनम् ॥७३॥एकत्र मिलनं कृत्वा भावनं परिकारयेत् ।भावेन लभ्यते मोक्षो भाव एव निजप्रियः ॥७४॥मनो निवेश्य तत्रस्थो रुद्राराधनमाचरेत् ।तथा श्रीलाकिनीदेव्याः परमाद्भुतसाधनम् ॥७५॥श्रृणुष्व परमानन्द भैरव प्रियवल्लभ ।ममोपदेश सन्त्यज्य कोऽपि सिद्धो सम्भवेत् ॥७६॥ममाज्ञाबलयोगेन सिद्धो भवति मानवः ।मुक्तिमूलं महाभावं मुक्तिमूलं हि साधनम् ॥७७॥मुक्तिक्रमेण कालेन सिद्धो भवति साधकः ।मम योगक्रमेणैव मम तन्त्रावलोकनात् ॥७८॥कोऽपि नाथ ब्रह्मयोगी भवत्येव न चाखिले ।सर्वे च योगिनः शीघ्रं प्रभवन्ति न संशयः ॥७९॥स्फुटाकारदलं कृत्वा विन्यासं तत्र कारयेत् ।महायोगिकुलन्यासं विद्यान्यासं समाचरेत् ॥८०॥सर्वन्यासं निजन्यासं ज्ञानजालं समाचरेत् ।मानसक्रियया व्याप्तं देहं मधुरसम्प्लुतम् ॥८१॥शिवरुपिणमात्मानं वैष्णवं ज्ञानचक्षुषम् ।एकाकारं मूलमन्त्रध्यानं तत्र समाचरेत् ॥८२॥ध्यात्वा चार्घ्यं समाकुर्यात् कुलचक्रक्रमेण तु ।आत्मानमपरिच्छिन्न विचिन्त्य पुनरेव च ॥८३॥सन्ध्यायेन्निजचैतन्यदेवताम कुलदेवताम् ।पाद्यार्ध्यदिक्रमेणैव पूजयित्वाऽहर्निशम् ॥८४॥परिवारांस्ततो ध्यात्वा तत्सर्वान् परिपूजयेत् ।धूपदीपौ ततो दद्याद् निजपूजाविधानतः ॥८५॥प्राणायाम दीपनादौ कुर्यात् साधक एव च ।भक्त्या ध्यात्वा मनुं जप्त्वा मणिपूरस्थदैवते ॥८६॥जपं समर्प्य विधिना प्राणायामं पुनस्त्रयम् ।प्रणम्य स्तोत्रकवचैः स्वदेवी ह्रदि चार्पयेत् ॥८७॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धिमन्त्रप्रकरणे भैरवभैरवीसंवादे मणिपूरचक्रभेदप्रकारो नाम त्रिचत्वारिंशत्तमः पटलः ॥४३॥ N/A References : N/A Last Updated : April 27, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP