संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|त्रिचत्वारिंशः पटलः| जीवस्वरुप कथनम् त्रिचत्वारिंशः पटलः कामिनीवशीकरणम् जीवस्वरुप कथनम् भावमहिमानिरुपणम् त्रिचत्वारिंशः पटलः - जीवस्वरुप कथनम् मणिपूरचक्रभेदप्रकारकथनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल जीवस्वरुप कथनम् Translation - भाषांतर जीव एव महाभाग लोकानां मोक्षबन्धगः ।स जीवो वारुरुपेण महाबलपराक्रमः ॥३५॥गच्छति प्रत्यहं नित्यं सर्वदा च पुनः पुनः ।पुनरायाति धरणीं स्वभावेन निरन्तरम् ॥३६॥नानाभावाप्रियः सोऽपि नानाकारनिरुपकः ।नानाधर्मप्रियः शुद्धोऽशुद्धवेशधरो महान् ॥३७॥कन्दर्पनिलयो योगी स योगी परमार्थवित ।स ज्ञानी निरहङ्कारी सोऽहङ्कारी शरीरधृक् ॥३८॥सर्वगन्धप्रियोऽदृश्यो भावयेत्ता रहस्यवित् ।स एव निष्कलः शुद्धः सदा ध्यानपरायणः ॥३९॥यदा चात्मनि ब्रह्माण्डे ब्रह्मणि त्वयि शङ्करे ।तन्मयो विलयं याति तदा भावो महान् स्मृतः ॥४०॥तद्भावः परमं ज्ञानं न कथ्यं विपरीतकम् ।आधारं सुसुखं नित्यं स्वल्प कालविवर्जितम् ॥४१॥अत्यन्तधर्म सन्धानं प्राप्य योगी भवेन्नरः ।शनैः शनैः प्रगन्तव्यं तत्र तत्र सुदर्शनम् ॥४२॥तत्र तत्र महासिद्धो भूत्त्वा संसारपुत्रवान् ।योगिनां बहुकालस्थं मृतानामल्पकालकम् ॥४३॥श्वासधारनमाकृत्य बहुकालं सुखी भवेत् ।यथा बृहस्पतिः श्रीमान् यथा सूर्यो दिवाकरः ॥४४॥तथा प्रकाशकुर्यात् कोटिभिः स्तोत्रनामभिः ।स्तुत्वा भूत्वा महाद्रव्यैस्तर्पयित्वा यथाक्रमम् ॥४५॥अभिषिक्तः पुनर्ध्यात्वा पूजयित्वा यथाविधि ।मानसोपचारद्रव्यैः स्वधायुक्तैरथापि वा ॥४६॥परमानन्दितो भूत्वा भावयेत् पीठदेवताः ।भावयित्वा ततो जप्त्वा धर्माधर्मौं विचिन्तयेत् ॥४७॥देवतायां मनो योज्य स्थापयित्वा स्वपीठके ।पुनरुत्फुल्लकमलं मुद्रितं परिकारयेत् ॥४८॥षड्दल मूर्च्छितं कृत्वा दलाग्रे संविशते सुधीः ।सदानन्दः सर्वमयो वेदवेदान्तनामभिः ॥४९॥स्तवकोटिभिरेकत्र ध्यात्वा संहारमुद्रया ।अधोमुखे दशदलकमलाग्रे नियोजयेत् ॥५०॥षड्दलाग्रं महाकाल नियोज्य गमनं चरेत् ।ततो गच्छेत् प्रज्वलिते पद्मे दशदले पुरे ॥५१॥प्रविश्य कर्णिकामध्ये तन्मयस्तत्क्षनाद् भवेत् ।तत्क्षणात्तन्मयो भूत्वा कुण्डलीचक्रसंस्थितः ॥५२॥असाध्यसाधनं सर्वं मणिपूरस्थनिर्मलम् ।मणिपूरे महापीठे ध्यानगम्ये सति प्रभो ॥५३॥मनोनिवेशनं कृत्वा नरो मुच्येत सङ्काटात् ।मनोयोगी मनोभोगी मनोभक्तो मनोयुवा ॥५४॥मन एव मनुष्याणां कारणं त्राणमोक्षयोः ।कारणं सर्वभावानां तद्भावं सन्त्यजेद् बुधः ॥५५॥सर्वभावं विहायपि महभावं समाश्रयेत् ।भावेन लभ्यते मोक्षो भावेन लभ्यते सुखम् ॥५६॥एतद्भावं सदा कुर्याद् भावाद् भवति योगिराट् ।भावेन भक्तिमाप्नोति विषयाद् भावमाश्रयेत् ॥५७॥ N/A References : N/A Last Updated : April 27, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP