संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|षट्त्रिंशः पटलः| कुण्डलिनीसहस्त्रनामानि ४ षट्त्रिंशः पटलः कुण्डलिनीसहस्त्रनामानि १ कुण्डलिनीसहस्त्रनामानि २ कुण्डलिनीसहस्त्रनामानि ३ कुण्डलिनीसहस्त्रनामानि ४ षट्त्रिंशः पटलः - कुण्डलिनीसहस्त्रनामानि ४ कुण्डलिनीसहस्त्रनामस्तोत्रम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल कुण्डलिनीसहस्त्रनामानि ४ Translation - भाषांतर कदम्बपुष्पसङ्काशा कदम्बपुष्पमालिनी ।कादम्बरी पानतुष्टा कायदम्भा कदोद्यमा ॥१५१॥कुङ्कुलेपत्रमध्यस्था कुलाधारा धरप्रिया ।कुलदेवशरीरार्धा कुलधामा कलाधरा ॥१५२॥कामरागा भूषणाढ्या कामिनीरगुनप्रिया ।कुलीना नागहस्ता च कुलीननागवाहिनी ॥१५३॥कामपूरस्थिता कोपा कपाली बकुलोद्भवा ।कारागारजनापाल्या कारागारप्रपालिनी ॥१५४॥क्रियाशक्तिः कालपङ्क्तिः कार्णपङ्क्तिः कफोदया ।कामफुल्लारविन्दस्था कामरुपफलाफला ॥१५५॥कायफला कायफेणा कान्ता नाडीफलीश्वरा ।कमफेरुगता गौरी कायवाणी कुवीरगा ॥१५६॥कबरी मणिबन्धस्था कावेरीतीर्थसङुमा ।कामभीतिहरा कान्ता कामवाकुभ्रमातुरा ॥१५७॥कविभावहरा भामा कमनीयभयापहा ।कामगर्भदेवमाता कामकल्पलतामरा ॥१५८॥कमठप्रियमांसदा कमठा मर्कटप्रिया ।किमाकारा किमाधारा कुम्भकारमनस्थिता ॥१५९॥काम्ययज्ञस्थिता चण्डा काम्ययज्ञोपवीतिका ।कामयागसिद्धिकरी काममैथुनयामिनी ॥१६०॥कामाख्या यमलाशस्था कालयामा कुयोगिनी ।कुरुयागहतायोग्या कुरुमांसविभक्षिणी ॥१६१॥कुरुरक्तप्रियाकारी किङ्कप्रियकारिणी ।कर्त्रीश्वरी कारणात्मा कविभक्षा कविप्रिया ॥१६२॥कविशत्रुप्रष्ठलग्ना कैलासोपवनस्थिता ।कलित्रिधा त्रिसिद्धिस्था कलित्रिदिन्सिद्धिदा ॥१६३॥कलङुरहिता काली कलिकल्मषकामदा ।कुलपुष्परङु सूत्रमणिग्रन्थिसुशोभना ॥१६४॥कम्बोजवङुदेशस्था कुलवासुकिरक्षिका ।कुलशास्त्रक्रिया शान्तिः कुलशान्तिः कुलेश्वरी ॥१६५॥कुशलप्रतिभा काशी कुलषट्चक्रभेदिनी ।कुलषट्पदममध्यस्था कुलषट्पदमदीपिनी ॥१६६॥कृष्णमार्जारकोलस्था कृष्णमार्जारषष्ठिका ।कुलमार्जारकुपिता कुलमार्जारषोडशी ॥१६७॥कालान्तकवलोत्पन्ना कपिलान्तकघातिनी ।कलहासा कालहश्री कलहार्था कलामला ॥१६८॥कक्षपपक्षरक्षा च कुक्षेत्रपक्षसंक्षया ।काक्षरक्षासाक्षिणी च महामोक्षप्रतिष्ठिता ॥१६९॥अर्ककोटिशतच्छाया आन्वीक्षिकिकरार्चिता ।कावेरीतीरभूमिस्था आग्नेयार्कास्त्रधारिणी ॥१७०॥इं किं श्री कामकमला पातु कैलासरक्षिणी ।मम श्रीं ईं बीजरुपा पातु काली शिरस्थलम् ॥१७१॥उरुस्थलाब्जं सकलं तमोल्का पातु कालिका ।उडुम्बन्यर्करमणी उष्ट्रोग्रा कुलमातृका ॥१७२॥कतापेक्षा कृतिमती कुङ्कारी किंलिपिस्थिता ।कुंदीर्घस्वरा क्लृप्ता च कें कैलासकरार्चिका ॥१७३॥कैशोरी कैं करी कैं कें बीजाख्या नेत्रयुग्मकम् ।कोमा मतङुयजिता कौशल्यादि कुमारिका ॥१७४॥पातु मे कर्णयुगमन्तु क्रौं क्रौं जीवकरालिनी ।गण्डयुग्मं सदा पातु कुण्डली अङ्कवासिनी ॥१७५॥अर्ककोटिशताभासा अक्षराक्षरमालिनी ।आशुतोषकरी हस्ता कुलदेवी निरञ्जना ॥१७६॥पातु मे कुलपुष्पाढ्या पृष्ठदेशं सुकृत्तमा ।कुमारी कामनापूर्णा पार्श्वदेशं सदावतु ॥१७७॥देवी कामाख्यका देवी पातु प्रत्यङिरा कटिम् ।कतिस्थदेवता पातु लिङमूल सदा मम् ॥१७८॥गुह्यदेशं काकिनी मे लिङाधः कुलसिंहिका ।कुलनागेश्वरी पातु नितम्बदेशमुत्तमम् ॥१७९॥कङ्कालमालिनी देवी मे पातु चारुमूलकम् ।जंघायुग्मं सदा पातु कीर्तिः चक्रापहारिणी ॥१८०॥पादयुग्मं पाकसंस्था पाकशासनरक्षिका ।कुलालचक्रभ्रमरा पातु पादाङुगुलीर्मम ॥१८१॥नखाग्राणि दशाविधा तथा हस्तद्वयस्त च ।विंशरुपा कालनाक्षा सर्वदा परिरक्षतु ॥१८२॥कुलच्छत्राधाररुपा कुलमण्डलगोपिता ।कुलकुण्डलिनी माता कुलपण्डितमण्डिता ॥१८३॥काकाननी काकतुण्डी काकायुः प्रखरार्कजा ।काकज्वरा काकजिहवा काकाजिज्ञा सनस्थिता ॥१८४॥कपिध्वजा कपिक्रोशा कपिबाला हिकस्वरा ।कालकाञ्ची विंशतिस्था सदा विशनखाग्रहम् ॥१८५॥पातु देवी कालरुपां कलिकालफलालया ।वाते वा पर्वते वापि शून्यागारे चतुष्पथे ॥१८६॥कुलेन्द्रसमयाचार कुलाचारजनप्रिया ।कुलपर्वतसंस्था च कुलकैलासवासिनी ॥१८७॥महादावानले पातु कुमार्गे कुत्सितग्रहे ।राज्ञोऽप्रिये राजवश्ये महाशत्रुविनाशने ॥१८८॥कलिकालमहालक्ष्मीः क्रियालक्ष्मीः कुलाम्बरा ।कलीन्द्रकीलिता कीला कीलालस्वर्गवासिनी ॥१८९॥दशदिक्षु सदा पातु इन्द्रादिदशलोकपा ।नवच्छिन्ने सदा पातु सूर्यादिकनवग्रहा ॥१९०॥पातु मां कुलमांसाढ्यां कुलपद्मनिवासिनी ।कुलद्रव्यप्रिया मध्या षोडशी भुवनेश्वरी ॥१९१॥विद्यावादे विवादे च मत्तकाले महाभये ।दुर्भिक्षादिभये चैव व्याधिसङ्करपीडिते ॥१९२॥कालीकुल्ला कपाली च कामाख्या कामाचारीणी ।सदा मां कुलसंसर्गे पातु कौले सुसङुता ॥१९३॥सर्वत्र सर्वदेशे च कुलरुपा सदावतु ।इत्येतत् कथितं नाथ मातुः प्रसादहेतुना ॥१९४॥अष्टोत्तरशतं नाम सहस्त्रं कुण्डलीप्रियम् ।कुलकुण्डलिनीदेव्याः सर्वमन्त्रसुसिद्धये ॥१९५॥सर्वदेवमनूनाञ्च चैतन्याय सुसिद्धये ।अणिमाद्यष्टसिद्ध्यर्थं साधकांना हिताय च ॥१९६॥ब्राह्यणाय प्रदातव्यं कुलद्रव्यपराय च ।अकुलीनेऽब्राह्मणे च न देयः कुण्डलीस्तवः ।प्रवृत्ते कुण्डलीचक्रे सर्वे वर्णा द्विजातयः ॥१९७॥निवृत्ते भैरवीचक्रे सर्वे वर्णाः पृथक्-पृथक् ।कुलीनाय प्रदातव्यं साधकाय विशेषतः ॥१९८॥दानादेव हि सिद्धिः स्यान्ममाज्ञाबलहेतुना ।मम क्रियायां यस्तिष्ठेत्स मे पुत्रो न संशयः ॥१९९॥स आयाति मम पदं जीवन्मुक्तः स वासवः ।आसवेन समांसेन कुलवहनौ महानिशि ॥२००॥नाम प्रत्येकमुच्चार्य जुहुयात् कायसिद्धये ।पञ्चाचाररतो भूत्त्वा ऊद्र्ध्वरेता भवेद्यतिः ॥२०१॥संवतरान्मम स्थाने आयाति नात्र संशयः ।ऐहिके कायसिद्धिः स्यात् दैहिके सर्वसिद्धिदः ॥२०२॥वशी भूत्त्वा त्रिमार्गस्थाः स्वर्गभूतलवासिनः ।अस्य भृत्याः प्रभवन्ति इन्द्रादिलोकपालकाः ॥२०३॥स एव योगी परमो यस्यार्थेऽयं सुनिश्चलः ।स एव खेचरो भक्तो नारदादिशुकोपमः ॥२०४॥यो लोकः प्रजपत्येव स शिवो न च मानुष ।स समाधिगतो नित्यो ध्यानस्थो योगिवल्लभः ॥२०५॥चतुर्व्यूगतो देवः सहसा नात्र संशयः ।यः प्रधारयते भक्त्या कण्ठे वा मस्तके भुजे ॥२०६॥स भवेत् कलिकापुत्रो विद्यानाथः स्वयंभुवि ।धनेशः पुत्रवान् योगी यतीशः सर्वगो भवेत् ॥२०७॥वामा वामकरे धृत्त्वा सर्वसिद्धिश्वरो भवेत् ॥२०८॥यदि पठति मनुष्यो मानुषी वा महत्या ।सकलधनजनेशी पुत्रिणी जीववत्सा ।कुलपतिरिह लोके स्वर्गमोक्षैकहेतुः स भवति भवनाथो योगिनीवल्लभेशः ॥२०९॥पठति य इह नित्य्म भक्तिभावेन मर्त्योहरणमपि करोति प्राणविप्राणयोगः ।स्तवनपठनपुण्यं कोटिजन्माघनाशंकथितुमपि न शक्तोऽहं महामांसभाक्ष ॥२१०॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे महाकुलकुण्डलिनी अष्टोत्तरसहस्त्रनामस्तवकवचं नाम षट्त्रिंशत्तमः पटलः ॥३६॥ N/A References : N/A Last Updated : April 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP