संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|षट्त्रिंशः पटलः| कुण्डलिनीसहस्त्रनामानि १ षट्त्रिंशः पटलः कुण्डलिनीसहस्त्रनामानि १ कुण्डलिनीसहस्त्रनामानि २ कुण्डलिनीसहस्त्रनामानि ३ कुण्डलिनीसहस्त्रनामानि ४ षट्त्रिंशः पटलः - कुण्डलिनीसहस्त्रनामानि १ कुण्डलिनीसहस्त्रनामस्तोत्रम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल कुण्डलिनीसहस्त्रनामानि १ Translation - भाषांतर श्रीआनन्दभैरवी उवाचअथ कान्त प्रवक्ष्यामि कुण्डलीचेतनादिकम् ।सहस्त्रनामसकलं कुण्डलिन्याः प्रियं सुखम् ॥१॥अष्टोत्तरं महापुण्यं साक्षात् सिद्धिप्रदायकम् ।तव प्रेमवशेनैव कथयामि श्रृणुष्व तत् ॥२॥विना यजनयोगेन विना ध्यानेन यत्फलम् ।तत्फलं लभते सद्यो विद्यायाः सुकृपा भवेत् ॥३॥या विद्या भुवनेशानी त्रैलोक्यपरिपूजिता ।सा देवी कुण्डली मात्रा त्रैलोक्यं पाति सर्वदा ॥४॥तस्या नाम सहस्त्राणि अष्टोत्तरशतानि च ।श्रवणात्पठनान्मन्त्री महाभक्तो भवेदिह ॥५॥ऐहिके स भवेन्नाथ जीवन्मुक्तो महाबली ॥६॥अस्य श्रीमन्महाकुण्डलीसाष्टोत्तरसहस्त्रनामस्तोत्रस्य ब्रह्मर्षिर्जगतीच्छन्दो भगवती श्रीमन्महाकुण्डलीदेवता सर्वयोगसमृद्धिसिद्ध्यर्थे विनियोगः ॥कुलेश्वरी कुलानन्दा कुलीना कुलकुण्डली।श्रीमन्महाकुण्डली च कुलकन्या कुलप्रिया ॥७॥कुलक्षेत्रस्थिता कौली कुलीनार्थप्रकाशिनी ।कुलाख्या कुलमार्गस्था कुलशास्त्रार्थपातिनी ॥८॥कुलज्ञा कुलयोग्या च कुलपुष्पप्रकाशिनी ।कुलीना च कुलाध्यक्षा कुलचन्दनलेपिता ॥९॥कुलरुपा कुलोद्भूता कुलकुण्डलिवासिनी ।कुलाभिन्ना कुलोत्पन्ना कुलाचारविनोदिनी ॥१०॥कुलवृक्षसमुद्भूता कुलमाला कुलप्रभा ।कुलज्ञा कुलमध्यस्था कुलकङ्कशोभिता ॥११॥कुलोत्तरा कौलपूजा कुलालापा कुलक्रिया ।कुलभेदा कुलप्राणा कुलदेवी कुलस्तुतिः ॥१२॥कौलिका कालिका काल्या कलिभिन्ना कलाकला ।कलिकल्मषहन्त्री च कलिदोषविनाशिनी ॥१३॥कङ्काली केवलानन्दा कालज्ञा कालधारिणी ।कौतुकी कौमुदी केका काका काकलयान्तरा ॥१४॥कोमलाङी करालास्या कन्दपूज्या च कोमला ।कैशोरी काकपुच्छस्था कम्बलासनवासिनी ॥१५॥कैकेयीपूजिता कोला कोलपुत्री कपिध्वजा ।कमला कमलाक्षी च कम्बलाश्वतरप्रिया ॥१६॥कलिकाभङुदोषस्था कालज्ञा कालकुण्डली ।काव्यदा कविता वाणी कालसन्दर्भभेदिनी ॥१७॥कुमारी करुणाकारा कुरुसैन्यविनाशिनी ।कान्ता कुलगता कामा कामिनी कामनाशिनी ॥१८॥कामोद्भवा कामकन्या केवला कालघातिनी ।कैलासशिखरारुढा कैलासपतिसेविता ॥१९॥कैलासनाथनमिता केयूरहारमण्डिता ।कन्दर्पा कठिनानन्दा कुलगा कीचकृत्यहा ॥२०॥कमलास्या कठोरा च कीटरुपा कटिस्थिता ।कन्देश्वरी कन्दरुपा कोलिका कन्दवासिनी ॥२१॥कूटस्था कूटभक्षा च कालकूटविनाशिनी ।कामाख्या कमला काम्या कामराजतनूद्भवा ॥२२॥कामरुपधरा कम्रा कमनीया कविप्रिया ।कञ्जानना कञ्जहस्ता कञ्जपत्रायतेक्षणा ॥२३॥काकिनी कामरुपस्था कामरुपप्रकाशिनी ।कोलाविध्वासिनी कङ्का कलङ्कार्ककलङ्किनी ॥२४॥महाकुलनदी कर्णा कर्णकाण्डविमोहिनी ।काण्डस्था काण्डकरुणा कर्मकस्था कुटुम्बिनी ॥२५॥कमलाभा भवा कल्ला करुणा करुणामयी ।करुणेशी कराकर्त्री कर्तुहस्ता कलोदया ॥२६॥कारुण्यसागरोद्भूता कारुण्यसिन्धुवासिनी ।कर्त्तिकेशी कर्त्तिकस्था कार्त्तिकप्राणपालनी ॥२७॥करुणानिधिपूज्या च करणीया क्रिया कला ।कल्पस्था कल्पनिलया कल्पातीता च कल्पिता ॥२८॥कुलया कुलविज्ञाना कर्षिणी कालरात्रिका ।कैवल्यदा कोकरस्था कलमञीररञ्जनी ॥२९॥कलयन्ती कालजिहवा किङ्कासनकारिणी ।कुमुदा कुशलानन्दा कौशल्यकाशवासिनी ॥३०॥कसापहासहन्त्री च कैवल्यगुणसम्भवा ।एकाकिनी अर्करुपा कुवला कर्कटस्थिता ॥३१॥कर्कोटका कोष्ठरुपा कूटवहिनकरस्थिता ।कूजन्ती मधुरध्वानं कामयन्ती सुलक्षणम् ॥३२॥केतकी कुसुमानन्दा केतकीपुण्यमण्डिता ।कर्पूरपूररुचिरा कर्पूरभक्षणप्रिया ॥३३॥कपालपात्रहस्ता च कपालचन्द्रधारिणी ।कामधेनुस्वरुपा च कामधेनुः क्रियान्विता ॥३४॥कश्यपी काश्यपा कुन्ती केशान्ता केशमोहिनी ।कालकर्त्री कूपकर्त्री कुलपा कामचारिणी ॥३५॥कुङ्कुमाभा कज्जलस्था कमिता कोपघतिनी ।केलिस्था केलिकलिता कोपना कर्पटस्थिता ॥३६॥कलातीता कालविद्या कालात्मपुरुषोद्भवा ।कष्टस्था कष्टकुष्ठस्था कुष्ठहा कुष्टहा कुशा ॥३७॥कालिका स्फुटकर्त्री च काम्बोजा कामला कुला ।कुशलाख्या काककुष्ठा कर्मस्था कूर्ममध्यगा ॥३८॥कुण्डलाकारचक्रस्था कुण्डगोलोद्भवा कफा ।कपित्थाग्रवसाकाशा कपित्थरोधकारिणी ॥३९॥काहोडी काहडा काडा कङ्कला भाषकारिणी ।कनका कनकाभा च कनकाद्रिनिवासिनी ॥४०॥कार्पासयज्ञसूत्रस्था कूटब्रह्यार्थसाधिनी ।कलञ्जभक्षिणी क्रूरा क्रोधपुञ्जा कपिस्थिता ॥४१॥कपाली साधनरता कनिष्ठाकाशवासिनी ।कुञ्जरेशी कुञ्जरस्था कुञ्जरा कुञ्जरागतिः ॥४२॥कुञ्जस्था कुञ्जरमणी कुञ्जमन्दिरवासिनी ।कुपिता कोपशून्या च कोपाकोपविवर्जिता ॥४३॥कपिञ्जलस्था कापिञ्जा कपिञ्जलतरुद्भवा ।कुन्तीप्रेमकथाविष्टा कुन्तीमानसपूजिता ॥४४॥कुन्तला कुन्तहस्ता च कुलकुन्तललोहिनी ।कान्ताङिघ्रसेविका कान्तकुशला कोशलावती ॥४५॥केशिहन्त्री ककुत्स्था च ककुत्स्थवनवासिनी ।कैलासशिखरानन्दा कैलासगिरिपूजिता ॥४६॥कीलालनिर्मलाकारा(?) कीलालमुग्धकारिणी ।कुतुना कट्टही कुट्टा कुटना मोदकारिणी ॥४७॥क्रोङ्कारी क्रौङरी काशी कुहुशब्दस्था किरातिनी ।कूजन्ती सर्ववचनं कारयन्ती कृताकृतम् ॥४८॥कृपानिधिस्वरुपा च कृपासागरवासिनी ।केवलानन्दनिरता केवलानन्दकारिणी ॥४९॥कृमिला कृमिदोषघ्नी कृपा कपटकुट्टिता ।कृशाङी क्रमभङुस्था किङ्करस्था कटस्थिता ॥५०॥ N/A References : N/A Last Updated : April 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP