संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|द्वात्रिंशः पटलः| कुण्डलिनीस्तोत्रम् द्वात्रिंशः पटलः कुण्डलिनी-ध्यानम् कुण्डलिनीस्तोत्रम् द्वाविंशः पटलः - कुण्डलिनीस्तोत्रम् कन्दवासिनीस्त्रोत्रम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल कुण्डलिनीस्तोत्रम् Translation - भाषांतर आधारे परदेवता भवनताधोकुण्डली देवता ।देवानामधिदेवता त्रिजगतामानन्दुपुञ्जस्थिता ॥२१॥मूलाधारनिवासिनी त्रिरमणी या ज्ञानिनी मालिनी।सा मे मातृमनुस्थिता कुलपथानन्दैकबीजानना ॥२२॥सर्वाङस्थितिकारिणी सुरगणानन्दैकचिन्हा शिवा ।वीरेन्द्रा नवकामिनी वचनदा श्रीमानदा ज्ञानदा ॥२३॥सानन्दा घननन्दिनी घनगणा छिन्ना भवा योगिनी ।धीरा धैर्यवती समाप्तविषया श्रीमङुली कुण्डली ॥२४॥सर्वाकारनिवासिनी जयधराधाराधरस्थागया ।गीता गोधनवर्द्धिनी गुरुमयी ज्ञानप्रिया गोधना ॥२५॥गार्हाग्निस्थिति चन्द्रिका सुलतिका जाड्यापहा रागदा ।दारा गोधनकारिणी मृगमना ब्रह्माण्डमार्गोज्ज्वला ॥२६॥माता मानसगोचरा हरिचरा सिंहासनेकारणा ।यामा दासगणेश्वरी गुणवती छायापथस्थायिनी ॥२७॥निद्रा क्षुब्धजनप्रिया वरतृषा भाषाविशेषस्थिता ।स्थित्यन्तप्रलयापहा नरशिरोमालाधरा कुण्डली ॥२८॥गाङेशी यमुनेश्वरी गुरुतरी गोदावरी भास्करी ।भक्तार्तिक्षयकारिणी समशिवं यद्येकभावन्विता ॥२९॥त्वं शीघ्रं कुरु कौलिके मम शिरोरन्ध्रं तदब्जं मुदा ।तत्प्रत्रस्थितदैवतं कुलवती मातृस्थलं पाहिकम् ॥३०॥भालोद्र्ध्वे धवला कलारसकला कालाग्निजालोज्ज्वला ।फेरुप्राणनिकेतने गुरुतरा गुर्वी सुगुर्वी सुरा ॥३१॥हालोल्लाससमोदया यतिनया माया जगत्तारिणी ।निद्रामैथुननाशिनी मम हरा मोहापहा पातुकम् ॥३२॥भालं नीलतनुस्थिता मतिमतामर्थप्रिया मैथिली ।भालानन्दकरा महाप्रियजना पद्मानना कोमला ॥३३॥नानारङसुपीठदेशवसना सिद्धासना घोषणा ।त्राणस्थावररुपिणी कलिहनी श्रीकुण्डली पातुकम् ॥३४॥भ्रूमध्यं बगलामुखी शशिमुखी विद्यामुखी सन्मुखी ।नागाख्या नगवाहिनी महिषहा पञ्चाननस्थायिनी ॥३५॥पारावर विहारहेतुसफरी सेतुप्रकारा परा ।काशीवासिनमीश्वरं प्रतिदिनं श्रीकुण्डली पातुकम् ॥३६॥या कुण्डोद्भवसारपाननिरता मोहादिदोषापहा ।सा नेत्रयमम्बिका सुवलिका श्रीकालिका कौलिका ॥३७॥काकस्था द्विकचञ्चुपारणकरी संज्ञाकरी सुन्दरी ।मे पातु प्रियया तया विशदया सच्छायया छादिता ॥३८॥श्रीकुण्डे रणचण्डिका सुरतिका कङ्कलिका बालिका ।साकाशा परिवर्जिता सुगतिका ज्ञानेर्मिका चोत्सुका ॥३९॥सौकासूक्ष्मसुखप्रिया गुणनिका दीक्षा च सूक्ष्माख्यका ।मामन्द्यं मम कन्दवासिनि शिवे सन्त्राहि सन्त्राहिकम् ॥४०॥एतत्स्तोत्रं पठित्वा त्रिभुवनपवनं पावनं लौकिकानाम् ।राजा स्यात् किल्विषाग्निः क्रतुपतिरिह यः क्षेमदं योगिनां वा ॥४१॥सर्वेशः सर्वकर्ता भवति निजगृहे योगयोगाङुवक्ता ।शाक्तः शैवः स एकः परमपुरुषगो निर्मलात्मा महात्मा ॥४२॥प्रणवेन पुटितं कृत्वा यः स्तौति नियतः शुचिः ।स भवेत् कुण्डलीपुत्रो भूतले नात्र संशयः ॥४३॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने मूलचक्रसारसङ्केते भैरवभैरवीसंवादे कन्दवासिनीस्तोत्रं नाम द्वात्रिंशः पटलः ॥३२॥ N/A References : N/A Last Updated : April 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP