संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|द्वात्रिंशः पटलः| कुण्डलिनी-ध्यानम् द्वात्रिंशः पटलः कुण्डलिनी-ध्यानम् कुण्डलिनीस्तोत्रम् द्वात्रिंशः पटलः - कुण्डलिनी-ध्यानम् कन्दवासिनीस्त्रोत्रम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल कुण्डलिनी-ध्यानम् Translation - भाषांतर श्रीआनन्दभैरवी उवाचअथ कान्त प्रवक्ष्यामि श्रृणुष्व मम तत्त्वतः ।शक्तिः कुण्डलिनी देवी सर्वभेदनभेदिनी ॥१॥कलिकल्मषहन्त्री च जगतां मोक्षदायिनी ।तस्याः स्तोत्रं तथा ध्यानं न्यासं मन्त्रं श्रृणु प्रभो ॥२॥यस्य विज्ञानमात्रेण मूलपद्मे मनोलयः ।चैतन्यानन्दनिरतो भवेत् कुण्डलिसङमात् ॥३॥आकाशगामिनीं सिद्धिं ददाति कुण्डली भृशम् ।अमृतानन्दरुपाभ्यां करोषि पालनं नृणाम् ॥४॥कुण्डलिनी-ध्यानम्श्वासोच्छवासकलांभ्या शरीरं त्रिगुणात्मकम् ।पञ्चभूतावृता नित्यं पञ्चानिला भवेद् ध्रुवम् ॥५॥कोटिसूर्यप्रतीकाशां निरालम्बां विभावयेत् ।सर्वस्थितां ज्ञानरुपां श्वासोच्छ्वासनिवासिनीम् ॥६॥स्वयम्भूकुसुमोत्पन्नां ध्यानज्ञानप्रकाशिनीम् ।मोक्षदां शक्तिदां नित्यां नित्यज्ञानस्वरुपिणीम् ॥७॥लोलां लीलाधरां सर्वां शुद्धज्ञानप्रकाशिनीम् ।कोटिकालानलसमा विद्युत्कोटिमहौजसाम् ॥८॥तेजसा व्याप्तकिरणां मूलादूर्ध्वप्रकाशिनीम् ।अष्टलोकप्रकाशाढ्यं फुल्लेन्दीवरलोचनाम् ॥९॥सर्वमुखीं सर्वहस्तां सर्वपादाम्बुजस्थिताम् ।मूलादिब्रह्मारन्ध्रान्तस्थाननलोकप्रकाशिनीम् ॥१०॥त्रिभाषां सर्वभक्षां च श्वासनिर्गमपालिनीम् ।ललितां सुन्दरीं नीलां कुण्डलीं कुण्डलाकृतिम् ॥११॥अभूमण्डलबाह्यस्थां बाह्यज्ञानप्रकाशिनीम् ।नागिनीं नागभूषाढ्यां भयानककलेवराम् ॥१२॥योगिज्ञेयां शुद्धरुपां विरलामूर्ध्वगामिनीम् ।एवं ध्यात्वा मूलपद्मे कुण्डलीं परदेवताम् ॥१३॥भावसिद्धिर्भवेत् क्षिप्रं कुण्डलीभावनादिह ।ततो मानसजापं हि मानसं होमतर्पणम् ॥१४॥अभिषेकं मुदा कृत्वा प्रातः काले पुनः पुनः ।प्राणायामं ततः कृत्वा स्तोत्रं च कवचं पठेत् ॥१५॥एतत्स्तोत्रस्य पाठेन स्वयं सिद्धान्तविद् भवेत् ।कुण्डली सुकृपा तस्य मासाद् भवति निश्चितम् ॥१६॥निद्रादोषदिकं त्यक्त्वा प्रकाश्याहं शरीरके ।अहं दात्री सुयोगानामधिपाहं जगत्त्रये ॥१७॥अहं कर्म अहं धर्मः अहं देवी च कुण्डली ।यो जानाति महावीर कुण्डलीरुपसेवनात् ॥१८॥इति तं पात्रकं कर्तुमवतीर्णास्मि सर्वदो ।अत एव परं मन्त्रं कुण्डलिन्याः स्तवं शुभम् ॥१९॥प्रपठेत सर्वदा देहे यदि वश्या न कुण्डली ।तावत् कालं जपं कुर्याद् यावत् सिद्धिर्न जायते ॥२०॥ N/A References : N/A Last Updated : April 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP