संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|त्रिंशः पटलः| भेदिनीमन्त्रकथनम त्रिंशः पटलः भेदिनीमन्त्रकथनम कालिपावन स्तोत्रम् त्रिंशः पटलः - भेदिनीमन्त्रकथनम मूलपद्यविवेचनम Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल भेदिनीमन्त्रकथनम Translation - भाषांतर आनन्दभैरव उवाचअथ वक्ष्ये महाकाल मूलपद्मविवेचनम् ।यत् कृत्वा अमरो भूत्वा वसेत् कालचतुष्टयम् ॥१॥अथ षट्चक्रभेदार्थे भेदिनीशक्तिमाश्रयेत् ।छेदिनीं सर्वग्रन्थीनां योगिनीं समुपाश्रयेत् ॥२॥तस्या मन्त्रान् प्रवक्ष्यामि येन सिद्धो भवेन्नरः ।आदौ श्रृणु महामन्त्रं भेदिन्याः परं मनुम् ॥३॥आदौ कालीं समुत्कृत्य ब्रह्मामन्त्रं ततः परम् ।देव्याः प्रणवमुद्धृत्य भेदनी तदनन्तरम् ॥४॥ततो हि मम गृहणीयात् प्रापय द्वयमेव च ।चित्तचञ्चीशब्दान्ते मां रक्ष युग्ममेव च ॥५॥भेदिनी मम शब्दान्ते अकालमरणं हर ।हर युग्मं महापापं नमो नमोऽग्निजायया ॥६॥एतन्मन्त्रं जपेत्तत्र डाकिनीरक्षसि प्रभो ।आदौ प्रणवमुद्धृत्य ब्रह्ममन्त्रं ततः परम् ॥७॥शाम्भवीति ततश्चचोक्त्या ब्राह्मणीति पदं ततः ।मनोनिवेशं कुरुते तारयेति द्विधापदम् ॥८॥छेदिनीपदमुद्धृत्य मम मानसशब्दतः ।महान्धकारमुद्धृत्य छेदयेति द्विधापदम् ॥९॥स्वाहान्तं मनुमुद्धृत्य जपेन्मूलाम्बुजे सुधीः ।एतमन्त्रप्रसादेन जीवन्मुक्तो भवेन्नरः ॥१०॥तथा स्त्रीयोगिनीमन्त्रं जपेत्तत्रैव शङ्कर ।ॐ घोररुपिणिपदं सर्वव्यापिनि शङ्कर ॥११॥महायोगिनि मे पापं शोकं रोगं हरेति च ।विपक्षं छेदयेत्युक्त्वा योगं मय्यर्पय द्वयम् ॥१२॥स्वाहान्तं मनुमुद्धृत्य जपाद्योगी भवेन्नरः ।खेचरत्वं समाप्नोति योगाभ्यासेन योगिराट् ॥१३॥डाकिनीं ब्रह्माणा युक्तां मूले ध्यात्वा पुनः पुनः ।जपेन्मन्त्रं सदायोगी ब्रह्ममन्त्रेण योगवित् ॥१४॥ब्रह्ममन्त्रं प्रवक्ष्यामि तज्जापेनापि योगिराट् ।ब्रह्ममन्त्रप्रसादेन जडो योगी न संशय्ह ॥१५॥प्रणवत्रयद्धत्य दीर्घप्रणवयुग्मकम् ।तदन्ते प्रण्वत्रीणि ब्रह्म ब्रह्म त्रयं त्रयम् ॥१६॥सर्वसिद्धिपदस्यान्ते पालयेति च मां पदम् ।सत्त्व्म गुणो रक्ष रक्ष मायास्वाहापदं जपेत् ॥१७॥डाकिनीमन्त्रराजञ्च श्रृणुष्व परमेश्वर ।यज्जप्त्वा डाकिनी वश्या त्रैलोक्यस्थितिपालकाः ॥१८॥यो जपेत् डाकिनीमन्त्रं चैतन्यां कुण्डली झडित् ।अनायासेन सिद्धिः स्यात् परमात्मप्रदर्शनम् ॥१९॥मायात्रयं समुद्धृत्य प्रणवैकं ततः परम् ।डाकिन्यन्ते महाशब्दं डाकिन्यम्बपदं ततः ॥२०॥पुनः प्रणवमुद्धृत्य मायात्रयं ततः परम् ।मम योगसिद्धिमन्ते साधयेति द्विधापदम् ॥२१॥मनुमुद्धृत्य देवेशि जपाद्योगी भवेज्जडः ।जप्त्वा सम्पूजयेन्मन्त्री पुरश्चरणसिद्धये ॥२२॥सर्वत्र चित्तसाम्येन द्रव्यादिविविधानि च ।पूजयित्वा मूलपद्मे चित्तोकरणेन च ॥२३॥ततो मानसजापञ्च स्तोत्रञ्च कालिपावनम् ।पठित्वा योगिराट् भूत्त्वा वसेत् षट्चक्रवेश्मनि ॥२४॥शक्तियुक्तं विधिं यस्तु स्तौति नित्यं महेश्वर ।तस्यैव पालनार्थाय मम यन्त्रं महीतले ॥२५॥तत् स्तोत्रं श्रृणु योगार्थं सावधानावधारय ।एतत्स्तोत्रप्रसादेन महालयवशो भवेत् ॥२६॥ N/A References : N/A Last Updated : April 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP