संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|अथैकोनत्रिंशः पटलः| मनोमहाप्रलयः अथैकोनत्रिंशः पटलः षट्चक्रयोगः मनोमहाप्रलयः अथैकोनत्रिंशः पटलः - मनोमहाप्रलयः षट्चक्रयोगकथनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल मनोमहाप्रलयः Translation - भाषांतर यदि भक्तो भवेन्नथ तदा मुक्तो न संशयः ।यदि मुक्तो महीमध्ये ध्यानयोगपरायणः ॥३२॥तदा कालपरां ज्ञात्वा सर्वदर्शी च सर्ववित् ।सर्वज्ञः सर्वतोभद्रो भवतीति न संशयः ॥३३॥चित्रिणी मध्यदेशे च ब्रह्मनाडी महाप्रभा ।सर्वसिद्धिप्रदा नित्या सा देवी सकला कला ॥३४॥व्योमरुपा भगवती सर्वचैतन्यरुपिणी ।एकरुपं परं ब्रह्म ब्रह्मातीतं जगत्त्रयम् ॥३५॥यदा जगत्त्रंय ब्रह्म तदा सत्त्वालयं प्रभो ।महालये मनो दत्वा सर्वकालजयो भवेत् ॥३६॥मृत्युञ्जयो महावीरो महाच्छत्रो महागतिः ।सर्वव्यापकरुपेण ईश्वरत्वेन भाषते ॥३७॥सर्वदा मन्त्रसम्भूतो विशालाक्षः प्रसन्नधीः ।एकस्थानस्थितो याति नक्षत्रं स हि शङ्कर ॥३८॥एकदृष्टिः क्षुधातृष्णारहितो वाक्यवर्जितः ।निराकारे मनो दत्यात्तदा महानयं प्रभो ॥३९॥किन्तु नाथाज्ञानिनां हि नापि नापि महालयः ।महप्रलय एवं हि योगिनां नात्र संशयः ॥४०॥यदा मनोयोग विशुद्धये मनोलयं यः कुरुतेऽप्यहर्निशम् ।स एव मोक्षो गुणासिन्धुरुपी कालाग्निरुपी निजदैवदैवतः ॥४१॥महामनोयोग विकारवर्जितःकामक्रिया काण्दविशुद्धमण्डितः ।हितो गतीनां मतिमान्निरस्तोमहालयस्थोऽमर एव भक्तः ॥४२॥मानी विचारार्थविवेकचित्तश-चातुर्य चित्तोल्बणताविवर्जितः ।योगी भवेत्साधक चक्रवर्तीव्योमाम्बुजे चित्तविसर्जनं सदा ॥४३॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने षट्चक्र प्रकाशे भैरवीभैरवसंवादे महाप्रलयनामा एकोणत्रिंशः पटलः ॥२९॥ N/A References : N/A Last Updated : April 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP